CBSE Class 11 Sanskrit अनुच्छेद-लेखनम् (चित्रमधिकृत्य, निर्दिष्टशब्दसूचीसाहाय्येन)
कस्यचिद् विषयस्य एक केन्द्रीयभावं विचारं वा आश्रित्य कृतं लघु निबन्धात्मकं चित्रणम् अनुच्छेदः कथ्यते। सामान्यः विशेषता
- एकः एव भावः विचारो वा प्रस्तोतव्यः।
(एक ही भाव या विचार प्रस्तुत करना चाहिए।) - भूमिका उपसंहारो वा न भवितव्यः।
(भूमिका या उपसंहार नहीं होना चाहिए।) - विषयस्य सद्यः एव आरम्भः कर्त्तव्यः।
(विषय को तुरंत शुरू कर देना चाहिए।) - वाक्यानि परस्परं सम्बद्धानि भवेयुः।
(वाक्य आपस में सम्बद्ध हों।) - रोचकतागुणः अनुच्छेदस्य विशिष्टता भवति।
(रोचकता अनुच्छेद का विशिष्ट गुण है।) - भाषा सरला, सुबोधा प्रवाहमयी च भवेत्।
(भाषा सरल, सुबोध व प्रवाहमयी होनी चाहिए।) - केन्द्रीयभावः अन्ते प्रारंभे वा अवश्यम् दातव्यः
(प्रारंभ में अथवा अंत में केन्द्रीय भाव अवश्य लिखना चाहिए।) - वाक्यं न तु अतिविस्तृतं स्यात् न तु अतिलघु वा स्यात्।
(वाक्य न तो अधिक लंबा हो और न हो अधिक छोटा।) - वाक्यसंख्या प्रश्नानुसारम् एव देया।
(वाक्य संख्या प्रश्न के अनुसार देनी चाहिए।)
(क) चित्रमधिकृत्य
प्रश्न: 1.
अधोदत्तानि चित्राणि अधिकृत्य अनुच्छेदं लिखत –
उत्तरम्:
चित्रे विद्यालयस्य कक्षः चित्रितोऽस्ति। कक्षस्य एकस्मिन् कोणे प्रवेशद्वारः अस्ति। तत्र भित्त्याम् श्यामपट्टः अवलम्बते। श्यामपट्टे एकः शिक्षकः चाकद्वारा एकां वर्तुलाकृतिं करोति। तस्य समक्षं मञ्चेषु छात्राः अवस्थिताः सन्तिा ते श्यामपटं दृष्ट्वा निजेषु लिपिपुस्तकेषु किमपि लिखन्ति। एक: छात्रः उत्थाय शिक्षकं किमपि पृच्छति। अन्ये छात्राः ध्यानेन शृण्वन्ति। कक्षस्य वातावरणम् अतीव शान्तिपूर्णम् अस्ति।
प्रश्न: 2.
अधोदत्तानि चित्राणि अधिकृत्य अनुच्छेद लिखत
उत्तरम्:
चित्रे विद्यालयस्य पुस्तकालयः चित्रितः अस्ति। पुस्तालयस्य प्रवेशद्वारस्य समक्षं कार्यालयः वर्तते। तत्र पुस्तकाध्यक्षः तिष्ठति। सः छात्रेभ्यः गृहं नेतु पुस्तकानि ददाति। पुस्तकालये कतिचन मञ्जूषाः सन्ति। मञ्जूषाणां विविध भागाः सन्ति, यत्र विषयानुसारं पुस्तकानि सम्यक्तया स्थापितानि सन्ति। मञ्जूषाभ्यः पुस्तकानि निष्कास्य छात्राः आसनेषु उपविश्य तानि पठन्ति, पठित्वा च तत्रैव पटलेषु स्थापयन्ति। पुस्तकालयस्य अपरे भागे पटलेषु पत्रिकाः समाचारस्य पत्राणि च सन्ति, तत्र मञ्चेषु स्थित्वा छात्राः अध्ययनं कुर्वन्ति। पुस्तकालयस्य वातावरण अत्यन्तं शान्तिपूर्णम् अस्ति ।
प्रश्न: 3.
अधोदत्तानि चित्राणि अधिकृत्य अनुच्छेदं लिखत
उत्तरम्:
चित्रे वर्षायाः दृश्यं चित्रितम् अस्ति। आकाशः मेघाच्छन्नः वर्तते। तत्र कदाचित् विद्युत् अपि विलसति। वर्षायाः बिन्दवः शनैः शनैः पृथिव्यां पतन्ति। छात्राः छात्रिकाश्च आतपत्राणि आश्रित्य तिष्ठन्ति। केचन वृक्षाणाम् अध: आश्रयं स्वीकुर्वन्ति। भूम्यां हरिता दूर्वा शोभते। पशवः पक्षिणः अपि वर्षा-बिन्दुभिः आर्द्राः सन्ति। तेऽपि आश्रयम् इच्छन्ति। एकस्मिन् कोणे मयूरः नृत्यति। सर्वं वातावरणम् अतीव आनन्ददायकम् अस्ति।
प्रश्न: 4.
अधोलिखितानि चित्राणि अधिकृत्य अनुच्छेदं लिखत
उत्तरम्:
अस्मिन् चित्रे गृहस्य स्वागतकक्षः चित्रितोऽस्ति। गृहस्वामी अत्रैव अतिथीनां स्वागतं करोति। तेभ्यः चायादिकमपि ददाति। मध्यभागे पटलस्य मध्ये पुष्पगच्छः शोभते। पटलस्य अधोभागे पत्रिकाः समाचारपत्राणि च सन्ति। कक्षस्य द्वयोः दिशयोः सोफासेट-आसनानि शोभन्ते। तृतीये भागे आसन्धः विराजन्ते। एकस्मिन् कोणे दूरभाषयन्त्रं चलदूरभाषयन्त्रं च तिष्ठतः। अपरस्मिन् कोणे विविधवर्णानां पुष्पाणां पात्रं वर्तते। भित्तिषु चित्राणि शोभन्ते। एक वातायनम् अपि अस्ति। स्वागतकक्षः गृहस्य सुरम्यं दृश्यं वर्धयति।
प्रश्नः 5.
अधोलिखितानि चित्राणि अधिकृत्य अनुच्छेदं लिखत-
उत्तरम्:
इदम् उद्यानस्य चित्रम् अस्ति। प्रात:काले सायंकाले च जनाः भ्रमणाय अत्र आगच्छन्ति। रविवासरे जनानां सङ्ख्या अधिका भवति। अत्र सुगन्ध-पूरितः पवनः सर्वतः प्रवहति। विविधाः वृक्षाः पादपाः लता: च सन्ति। तेषु विचित्रवर्णानि पुष्पाणि विराजन्ते। मालाकारः यथाकालं जलादिदानेन पुत्रवत्सलतया पादपानां पालनं रक्षणं सवर्धनं च करोति। अस्मिन् उद्याने विशुद्धजलवायुसेवनेन प्रातः कालीनं भ्रमणम्, धावनं, व्यायामादिकं च कृत्वा, प्रमुदिताः जनाः नन्दनकाननम् इव स्वर्गसुखम् अनुभवन्ति।
प्रश्न: 6.
अधोलिखितानि चित्राणि अधिकृत्य अनुच्छेदं लिखत
उत्तरम्:
चित्रे कुरुक्षेत्रस्य युद्धभूमेः दृश्यम् चित्रितम् अस्ति। यथा महाभारते वर्णितम्, तथैव अत्र युद्धक्षेत्रस्य एकस्मिन् भागे कौरवसेना वर्तते, द्वितीये भागे पाण्डव सेना वर्तते। मध्ये कृष्णार्जुनस्य रथम् अस्ति। कौराव दले अपि ये महारथयः आसन्, तेषु अर्जुनस्य पितामहः, मातुलः, भ्रातरः आसन् यान् दृष्ट्वा अर्जुन मोहग्रस्तः जातः। गाण्डीवं धनुः तस्य हस्तात् स्रसते। तदा तस्य सारथी श्रीकृष्ण: गीतायाः उपदेशेन तस्य मोहं निवारयति-सः कथयति ‘योगस्थः कुरु कर्माणि।’
प्रश्न: 7.
अधोदत्तानि चित्राणि अधिकृत्य अनुच्छेदं लिखत
उत्तरम्:
अस्मिन् चित्रे विद्यालयस्य छात्राणां छात्रिकाणां च मध्ये क्रीडा-प्रतियोगिता चित्रिता अस्ति। बालिकानां क्रीडा अतीव रुचिकरी वर्तते। अत्र कन्यकाः मृद्भाण्ड-त्रयं गृहीत्वा धावन्ति। तथा कुर्वन्ति या कन्या सर्वासाम् आग्रतः तिष्ठति, सा विजयिनी उघुष्यते। या पूर्वस्थापितं मानम् (Record) अतिलङ्घते सा सर्वेषां प्रशंसाभजनं भवति। चित्रे अन्यत्र छात्राः राज्जु-कर्षण-प्रतियोगितायां भागं गृह्णन्ति। दर्शकाः ताली-वादनेन तेषाम् उत्साहं वर्धयन्ति। छात्रैः अत्र अपूर्वः उत्साहः प्रदर्श्यते।
प्रश्न: 8.
अधोदत्तानि चित्राणि अधिकृत्य अनुच्छेदं लिखत
उत्तरम्:
इदं हरिद्वारनगरे (हर की पैडी) इति स्थानस्य दृश्यम् वर्तते। गङ्गायाः तटे, मध्ये चापि गंगा-मन्दिराणि सपताकानि विराजन्ते। गङ्गाजले जनाः स्नानं कुर्वन्ति, गङ्गा-मातुः पूजां चापि कुर्वन्ति। केचन जनाः श्रद्धालवः पूजा-पिण्डदान-स्नान-मन्त्रपाठादिषु कृत्येषु व्यापृताः सन्ति! पुरोहिताः पण्डिताः च तेषां पूजां कारयन्ति। प्रात:काले सायंकाले गङ्गायाः आरती-दृश्यते अतीव मनमोहकं भवति।
प्रश्न: 9.
अधोदत्तानि चित्राणि अधिकृत्य अनुच्छेद लिखत
उत्तरम्
इदं स्वामिरामदेवस्य शिविरस्य चित्रम् अस्ति। स्वामी महोदयः काष्ठासने विराजमानः प्राणायाम कारयति। सः प्राणायामस्य विधिं महत्त्वस्य अपि वर्णयति। शिविरे भागं गृह्णन्तः पुरुषाः एकस्मिन् भागे तिष्ठन्ति। अपरे भागे स्त्रियः तिष्ठन्ति। स्वामी महोदयः अनुलोम-विलोम-प्राणायामेन के के रोगाः नश्यन्ति? ‘कपालभाति’ प्राणायामस्य को लाभ:? इत्यादिकं श्रावयति। सर्वे जनाः तथैव अनुसरन्ति यथा स्वामी महोदयः वदति। अत्रागत्य सर्वे स्वास्थ्य लाभं कुर्वन्ति?
प्रश्न: 10.
अधोदत्तानि चित्राणि अधिकृत्य अनुच्छेदं लिखत –
उत्तरम्:
इदं ‘कबड्डी’ क्रीडायाः चित्रम् अस्ति। क्रीडायाम् दलद्वयं वर्तते। क्रीडाक्षेत्रम् द्वयो; समानभागयोः विभक्तम् अस्ति। मध्ये ‘पाला’ नाम्नी मध्यरेखा वर्तते। प्रत्येकं दले सप्त क्रीडकाः नवक्रीडकाः वा क्रीडन्ति। इयं श्वासावरोधिका क्रीडा वर्तते। एकभागस्य कोऽपि क्रीडक: कबड्डी-कबड्डी इति वदन् द्वितीयभागस्य क्रीडकान् स्प्रष्टुं यतते। सः . मध्यरेखां यावत् श्वासग्रहणं विना प्रत्यावर्तते। अन्ये तं ग्रहीतुं यतन्ते एवं क्रीडा प्रचलति।
(ख) निर्दिष्टशब्दसूचीसाहाय्येन
प्रश्न:
अधोलिखितायाः शब्दसूचेः सहायतया निर्दिष्टविषये अनुबन्धम् लिखत।
1. मम प्रियः कविः (भर्तृहरिः)
शब्दसूची – भर्तृहरिः। नीतिशतकम्। शृंगारशतकम्। वैराग्यशतकम्। विक्रमादित्यस्य अग्रजः। इत्सिंगस्य मतम्। गृहस्थ-वानप्रस्थयोः वारंवारं भ्रमणम्। सरसपदावली। नीति: वैराग्यम्। शृङ्गारादिविषयाः।
उत्तरम्:
मम प्रियः कविः (महाकविः भर्तृहरिः)
साहित्यसंगीतकलाविहीनः साक्षात्पशुपुच्छविषाणहीनः।
तृणं न खादन्नपि जीवमानस्तद्भागधेयं परमं पशूनाम्।
महाकविः भर्तृहरिः संस्कृत-गीतिकाव्यस्य अद्वितीयः अलंकारः अस्ति। सः नीतिशतकम् शृंगारशतकम्, वैराग्यशतकम् च रचितवान्। सः महाराजविक्रमादित्यस्य अग्रजः आसीत् इति जनश्रुतिः अस्ति। तस्य स्थितिकालः षष्ठीशताब्द्याः उत्तरार्धः अस्ति। इत्सिंग-मतानुसारं भर्तृहरिः बारम्बारं गृहस्थाश्रमस्य वानप्रस्थाश्रमस्य च मध्ये इतस्ततः पर्यभ्रमत्। शतकेषु वर्णिताः प्रसङ्गाः इत्सिंगमतस्य पुष्टिं कुर्वन्ति। एकैके शतके शतसंख्यकाः पद्याः सन्ति। नीतिशतके विद्या-वीरता-साहस-सत्संगति-मैत्री-परोपकार-धर्म-राजधर्म-इत्यादि वृत्तीनां सरसपदावल्यां वर्णनम् अस्ति। शृङ्गारशतके मधुरशैल्यां शृङ्गारस्य प्रमुखः विषयः वर्तते परं शनैः शनैः जीवनस्य अस्थिरतां प्रदर्श्य शान्तरसस्य तुलनायां तस्य तुच्छता प्रकटीक्रियते। वैराग्यशतके संसारस्य निस्सारताम्, मोक्षसोपानरूपस्य वैराग्यस्य च महत्त्वं प्रदर्श्यते।
2. सदाचारः
शब्दसूची – यद्यदाचरति श्रेष्ठः। सताम् आचरणम्। परमोधर्मः। शीलम्। शिष्टः। सभ्यः विनीतः नम्रः। मातृवत् परदारेषु। परद्रव्येषु लोष्ठवत्। श्रीरामः वाक्संयमी। मधुरभाषी।
उत्तरम्:
सदाचारः
यद्यदाचरति श्रेष्ठं स्वत्तदेवेतरो जनः।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते।।
श्रेष्ठजनानाम् आचरणम् एव सदाचारः शीलं वा कथ्यते – सताम् आचारः सदाचारः। सत्पुरुषाः शास्त्रविहितं प्रशस्तं कार्य कुर्वते, इतरे जनाः तदेव अनुसरन्ति। ‘आचारः परमो धर्मः’ इति शास्त्रविहितं मतम्। शीलमेव जीवस्य परमं भूषणम् अस्ति। सदाचारी जनः शिष्टः, सभ्यः, विनीतः, विनम्रः च भवति। सः परदारेषु मातृवत् परधनेषु लोष्ठवत्, सर्वभूतेषु च आत्मवत् पश्यति। वाक्यसंयतो भूत्वा स कामक्रोधादीन् विकारान् निगृह्य कर्मसु प्रवर्तते। सदाचारस्य प्रतिपालनेन एव भगवान् श्रीरामः मर्यादापुरुषोत्तमः इति विश्रुतः भवति। वयं तादृशं सुशीलं कामयामहे येन जगत् विनम्र भवेत्।
3. श्रीमद्भगवद्गीता
शब्दसूची – महाभारते दीपस्तम्भः। श्रीकृष्णार्जुनसंवादः। नष्टो मोहः कर्मोपदेशः। निष्काम-कर्म। कर्मण्येवाधिकारस्ते। असक्तः कुरु कर्माणि सङ्ग त्यक्त्वा धनञ्जय। कृष्णस्य विराट् रूपं गीतायाम् उपलभ्यते।
उत्तरम्
श्रीमद्भगवद्गीता
संस्कृतभाषायां महर्षिवेदव्यासेन विरचितस्य महाभारते श्रीमद्भगवद्गीता दीपस्तम्भः इव स्थिता प्रतीयते। धर्मक्षेत्रे कुरुक्षेत्रे समवेतानां युयुत्सुकां पाण्डवानां कौरवाणां च मध्ये युद्धविरतम् अर्जुनम् अभिलक्ष्य भगवान् श्रीकृष्णस्य उपदेशेन तस्य मोहम् अनश्यत् तत्सर्वं श्रीमद्भगवद्गीतायां निबद्धम् अस्ति। श्रीमद्भगवद्गीतायां कर्मयोगस्य उपदेशः वर्तते। अर्जुनस्य विषाद: जीवन-संग्रामात् निवर्तकस्य जनसामान्यस्य विषादः अस्ति। कृष्णस्य उपदेशैः, भगवत्कृपया, विराट्रूपदर्शनेन च सः विषाद नष्टः। सङ्गरहितो भूत्वा, कर्मफलेषु आसक्ति त्यक्त्वा कर्माणि कुर्वन् जनः मोक्षं प्राप्नोति, यथा गीतायाम् उपदिष्टम् अस्तिअसक्तः कुरु कर्माणि, सङ्गं त्यक्त्वा धनञ्जय।
4. दीपावली
शब्दसूची – कार्तिकमासस्य अमावस्यायाम्। सुधालिप्तानि भवनानि। भगवतः रामस्य गृहागमने दीपमालिकायाः परम्परा। शुद्धवस्त्रधाारणम्। मिष्टान्नसेवनम्। स्फोटकानाम् आस्फोटनम्। दीपानां, मोमवर्तिकानां प्रयोगः। होमादिकम्। लक्ष्मीपूजनम्। नव-बही-खाता-आरम्भः। सर्वातिशयः उत्साहः।
उत्तरम्
दीपावली
भारतीयजनानां दीपावलि महोत्सवः तैः सर्वातिशयेन उत्साहेन मान्यते। अयम् उत्सवः कार्तिकमासस्य अमावस्यायाः दिने भवति। श्रुयते यत् अस्मिन् दिने भगवान् श्रीरामचन्द्रः रावणं हत्वा अयोध्या निवृत्तः आसीत्। तदा च तस्य स्वागतं लोकैः रात्रौ दीपमालां कृत्वा कृतम् आसीत्। ततः प्रभृति जनाः तस्मिन् एव दिने प्रतिवर्षं स्वगृहेषु दीपमाला कुन्ति। अस्मिन् अवसरे रात्री लक्ष्मीपूजनम् क्रियते। केषुचित् गृहेषु होमादि अपि सम्पाद्यते। वणिजः प्रायेण अस्मात् दिनात् एव ‘बही-खाता’ इत्यस्य आरम्भं कुर्वन्ति, अतः ते ‘बही-खाता’–पूजनं कुर्वन्ति। उद्योगिनः यन्त्रपूजनं कुर्वन्ति।
5. मम प्रियं पुस्तकम् ( उत्तररामचरितम्)
शब्दसूची – उत्तररामचरितम्। भवभूतेः नाटकम्। करुणरसप्राधान्यम्। पत्नी परित्यागस्य दोषः निराकृतः। छायासीता-अङ्कः। तमसा-मुरला इत्यादि नदीपात्राणि। वनदेवता। एक : रस: करुणः एव। भवभूति: तादृशः कविः यं ब्राह्मणं वाग् वश्येव अनुवर्तते। सप्त अङ्का! चित्रदर्शनम्। गर्भाङ्कनाटकम्।
उत्तरम्:
मम प्रियं पुस्तकम् , मम प्रियं पुस्तकम् उत्तररामचरितम् अस्ति। इदं नाटकं महाकवि-भवभूतेः रचना अस्ति। अत्र करुणरसस्य प्राधान्यं वर्तते। ‘एको रसः करुण एव’ इति अत्र प्रतिपादितम् अन्यरसानां समावेश: करुणे एव भवति। भवभूतिः तादृशः कविः अस्ति यं ब्रह्माणमियं देवी वाग्वश्येवानुवर्तते। उत्तररामचरिते भाषा प्रौढता, औदार्यम् अर्थगौरवम्–सर्वे गुणाः समाविष्टाः सन्ति। अस्मिन् नाटके सप्त अङ्का सन्ति। तत्र चित्रदर्शनं, छायासीता, गर्भाकनाटकम् च इति दृश्यानि कवेः स्वकल्पनाप्रसूतानि सन्ति।
6. कोऽपि महापुरुषः (श्री कृष्णः)
शब्दसूची – वसुदेवसुतः देवकीनन्दनः वासुदेवः श्रीकृष्णः मम आदर्शः। कारावासे जन्म। नन्दगृहे रक्षणम्। द्वैमातुरः। यशोधानन्दनः। असुरविनाशं। कंस-जरासन्ध-शिशुपालादीनां वध। महाभारते। सारथिकार्यग्रहणं। न्यायपक्षस्य विजयः। मोहग्रस्ताय अर्जुनाय निष्कामकर्मोपदेशः। श्रीमद्भगवद्गीतायाः गायकः।
उत्तरम्:
कोऽपि महापुरुषः (श्री कृष्णः) भगवान् श्रीकृष्णः षोडश-कला-सम्पूर्णः आसीत्। भीष्मपितामहः अपि तस्य महिमानम् अजानात्। युधिष्ठिरस्य राजसूययज्ञे श्रीकृष्णस्य एव प्रथमपूजा सर्वैः स्वीकृता। शिशुपालः तस्य विराधम् अकरोत्। यदा तस्य विरोधस्य पराकाष्ठा जाता तदा श्रीकृष्णः तस्य शिरच्छेदनं कृतवान्। महाभारते पाण्डवानां विजयस्य एकमात्र कारणम् श्रीकृष्णः एव आसीत्। सः कर्मयोगी आसीत्। सः जरासन्धस्य वधं कृत्वा तत्र बन्दीगृहे निर्दोषं स्थापितान् संख्यातीत् जनान्, तस्य अन्तः पुरे च स्थिताः महिलाश्च मुक्ताः कारयति स्म।
7. गणतन्त्र दिवसः
शब्दसूची – जनवरीमासस्य षड्विंशतितमे दिवसे। संविधानस्य आरम्भ दिवसः। 1950 तमे वर्षे। नवदिल्लयाम्। महान् संरम्भः विविधाः दृश्यावल्याः। सैनिकैः राष्ट्रपति सम्माने। प्रणामाः। स्वतन्त्रतायाः आन्दोलनकाले लवपुरे 1924 तमे वर्षे रावीतटे नेहरूमहाभागैः ‘पूर्णस्वतन्त्रताप्राप्तिः’ इति स्वतन्त्रता-आन्दोलनस्य लक्ष्य निर्धारितम्। अस्माभिः संविधानस्य परिपालनार्थं सङ्कल्पः करणीयः।
उत्तरम्:
गणतन्त्रदिवस समारोहः जनवरीमासस्य षड्-विंशति-तमे दिवसे भारते गणतन्त्रदिवसः प्रतिवर्षं सम्पद्यते। अस्य दिवसस्य इव अस्याः तिथेः अपि महत्त्वं वर्तते। स्वतन्त्रतायाः आन्दोलनकाले 1929 मते ईसवीये वर्षे लवपुरे जवाहरलालनेहरूमहोदयस्य सभापतित्वे कांग्रेसदलस्य अधिवेशने जनवरीमासस्य 26 तमे दिवसे ‘पूर्णस्वतन्त्रताप्राप्तिः’ एव अस्माकं लक्ष्यम् अस्ति, इति घोषणा सञ्जाता। अतः सः एव दिवसः संविधानस्य अपि आरम्भदिवसः स्वीकृतः नेतृभिः।
अभ्यासः
1. मञ्जूषायाः शब्दान् नीत्वा चित्रस्य वर्णनम् पञ्चवाक्येषु कुरुत।
(मञ्जूषा से शब्दों को लेकर चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Write the description of the picture in five sentences taking words from the box).
मञ्जूषा – वृक्षाः, वदति,शृणोति, अधः, हस्ते, वानरः, शाखायाम्, हस्तौ, खादति, उपतिष्ठति।
2. मञ्जूषायाः शब्दान् नीत्वा चित्रस्य वर्णनम् पञ्चवाक्येषु कुरुत।
(मञ्जूषा के शब्दों को लेकर चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Taking suitable words from the box, describe the picture in five sentences).
मञ्जूषा – गुरुः, शिष्याः, वृक्षाः, उपदिशति, आकर्णयन्ति, शान्तिप्रदम्, गुरुकुलः शृण्वन्ति, शिक्षा गृहीतव्या।
3. मञ्जूषायाः शब्दान् नीत्वा चित्रस्य वर्णनम् पञ्चसु वाक्येषु कुरुत।
(मञ्जूषा के शब्दों को लेकर चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Taking suitable words from the box, describe the picture in five sentences.)
मञ्जूषा – अनेके, यवनिका, क्रीडकाः, बालिकाः, दूरदर्शनम्, पश्यन्ति, क्रिकेटम्, कक्षः, सुसज्जितः, अस्ति।
4. मञ्जूषायाः सहायतया चित्रस्य वर्णनम् पञ्चवाक्येषु कुरुत।
(मञ्जूषा की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of the box.)
मञ्जूषा – उपवनस्य, बालकाः, बालिकाः, पुष्पाणि, विकसन्ति, उद्याने, भ्रमणम्, कर्त्तव्यम्, स्वास्थ्यप्रदम्, हसन्ति।
5. मञ्जूषायाः शब्दानाम् सहायतया चित्रस्य वर्णनम् पञ्चवाक्येषु कुरुत।
(मञ्जूषा के शब्दों की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of the words from the box).
मञ्जूषा – क्षेत्रस्य, कृषकाः, बीजानि, वपन्ति, महिलाः, गृहाणि, वृक्षाः, शुद्धम्, वातावरणम्, भवति।
6. मञ्जूषायाः शब्दानाम् सहायतया अधोचित्रितस्य चित्रस्य वर्णनम् पञ्चसु वाक्येषु कुरुत।
(मञ्जूषा के शब्दों की सहायता से नीचे बनाए गए चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe in five sentences the picture drawn below with the help of the words from the box).
मञ्जूषा – परिवारः, पारिवारिकजनाः, दूरदर्शनम्, पञ्च, जनाः, समाचारान्, अवधानेन, अङ्के, कक्षः, सुसज्जितः।
7. मञ्जूषायाः शब्दान् नीत्वा चित्रस्य वर्णनम् पञ्चसु वाक्येषु कुरुत।
(मञ्जूषा के शब्दों को लेकर से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
Describe the picture in five sentences taking words from the box.)
मञ्जूषा – जलपानगृहम् , सेवकः, आसन्दिकाः, आदेशम्, पुरुषः, पिबति, चत्वारः, लिखति, कलमेन, बालिका।
8. मञ्जूषायाः शब्दान् नीत्वा चित्रस्य वर्णनम् पञ्चसु वाक्येषु कुरुत।
(मञ्जूषा के शब्दों को लेकर चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences taking words from the box.)
मञ्जूषा – उपवनस्य, उपविशन्ति, भ्रमन्ति, सर्वत्र, वृक्षाः, वाहनानि, जनाः, सर्वे, स्वास्थ्यलाभम्, प्राप्नुवन्ति।
9. मञ्जूषायाः शब्दान् नीत्वा चित्रस्य वर्णनम् पञ्चसु वाक्येषु कुरुत।
(मञ्जूषा के शब्दों को लेकर से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in the five sentences taking words from the box.)
मञ्जूषा – उत्तमः, संकल्पः, नव, जनाः, भारतीयाः, एकतायाः, प्रतीकम्, प्रसन्नाः, हस्तान्, वयम्, एकता, भारतीयाः स्मः।
10. मञ्जूषायाः सहायतया चित्रस्य वर्णनम् पञ्चवाक्येषु कुरुत।
(मञ्जूषा की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of the box.)
मञ्जूषा – उपनवस्य, बालकाः, बालिकाः, पुरुषः पुष्पाणि, पश्यन्ति, वृक्षाः, उपनेत्रम् (चश्मा), धारितः शिक्षकः।
11. मञ्जूषायाः शब्दानाम् सहायतया चित्रस्य वर्णनम् पञ्चसु वाक्येषु कुरुत।
(मञ्जूषा के शब्दों की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of the words from the box.)
मञ्जूषा – उपवनस्य, महिलाः, बालकाः, क्रीडन्ति, पुष्पाणि, विकसन्ति, वृक्षैः, शुद्धम्, भवति, भ्रमन्ति।
12. मञ्जूषायाः शब्दानाम् सहायतया चित्रस्य वर्णनम् पञ्चवाक्येषु कुरुत।
(मञ्जूषा के शब्दों की सहायता से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of the words from the box).
मञ्जूषा – दीपावली, महोत्सवः, दीपानाम्, उत्सवः, सर्वे, जनाः, मानयन्ति, प्रकाशः, क्रियते, प्रसन्नाः, भवन्ति।
13. अधः प्रदत्तचित्रस्य वर्णनं पञ्चसु वाक्येषु संस्कृते कुरुत (सहायतार्थ केचन शब्दाः मञ्जूषायां दत्ताः)।
(नीचे दिए गए चित्र का वर्णन पाँच वाक्यों में संस्कृत में कीजिए। सहायतार्थ कुछ शब्द मञ्जूषा में दिए गए हैं।)
(Describe the following picture in five sentences in Sanskrit. Some words are given in the box for your help.)
मञ्जूषा – बसस्थानकम्, उपविष्टं, प्रतीक्षा, बसयानम्, चालकः, जनः, दीर्घासन्दिका, पङ्कितबद्धाः, आरोहति, जनसम्मर्दः, दण्डः, अष्ट, एका महिला।
14. चित्रं दृष्ट्वा प्रदत्तपदानां सहायतया चित्रस्य वर्णनम् पञ्चसंस्कृतवाक्येषु कुरुत।
(चित्र को देखकर दिए गए शब्दों की सहायता से चित्र का वर्णन संस्कृत के गच आल्यों में कीजिए।)
(Look at the picture and describe it in five Sanskrit sentences with the help oi se given words.)
मञ्जूषा – प्रात:काले, भ्रमणम्, सूर्योदयः, खगाः, पर्वताः, व्यायाम, चत्वारः, वृक्षाः, बालौ, भ्रमत:।
15. अधः चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्चवाक्यानि रचयत।
(नीचे दिए गए चित्र को देखकर मञ्जूषा में दिए गए शब्दों की सहायता से पाँच वाक्यों की रचना कीजिए।)
(Look at the picture and make five sentences with the help of the words given in the box.)
मञ्जूषा – विद्यालयः, ध्वजः, वृक्षाः, छात्राः, पादकन्दुकम्, तिस्त्रः, एकः, बद्दलः, कूर्दन्ति, द्वौ।
16. चित्रं दृष्ट्वा प्रदत्तपदानां सहायतया चित्रस्य वर्णनं पञ्चसु संस्कृतवाक्येषु कुरुत।
(चित्र को देखकर दिए गए शब्दों की सहायता से चित्र का वर्णन संस्कृत के पाँच वाक्यों में कीजिए।)
(Describe the picture in five Sanskrit sentences after seeing it with the help of the given words.)
मञ्जूषा – कुटीरे, मेघाः, कन्या, महिला, सूर्यः, बीजानि, नदी, जलम्, वपन्ति, चटकाः।
17. चित्रं दृष्ट्वा प्रदत्तपदानां सहायतया चित्रस्य वर्णनं पञ्चसंस्कृतवाक्येषु कुरुत।
(नीचे को देखकर दिए गए शब्दों की सहायता से चित्र का वर्णन संस्कृत के पाँच वाक्यों में कीजिए।)
(Describe the picture in five Sanskrit sentences after seeing it with the help of the given words.)
मञ्जूषा – अध्यापिका, कक्षायाः, श्यामपट्टः, छात्राः, सङ्केतम्, अवधानेन,शृण्वन्ति, पृच्छति, पुस्तकानि, पाठयति।
18. अधः प्रदत्त-चित्रस्य वर्णनं पञ्चसु वाक्येषु संस्कृते कुरुत। सहायतार्थ केचन शब्दा मञ्जूषायां दत्ताः।
(नीचे दिए गए चित्र का वर्णन पाँच संस्कृत वाक्यों में कीजिए। सहायता के लिए कुछ शब्द मञ्जूषा में दिए गए हैं।)
(Describe the following picture in five sentences in Sanskrit. For help some words tre given in the hox)
मञ्जूषा – पर्यटनस्य, तिस्त्रः महिलाः, उपविष्टाः, विशालवृक्षस्य, खाद्य-पान, फलानि, पात्राणि, भूतले, पञ्च जनाः।
19. अधः चित्रं दृष्ट्वा, मञ्जूषायाम् प्रदत्तानां पदानां सहायतया संस्कृतभाषायाम् पञ्चवाक्यानि लिखत।
(नीचे दिए गए चित्र को देखकर मञ्जूषा में दिए गए शब्दों की सहायता से संस्कृत भाषा द्वारा पाँच वाक्यों को लिखिए।)
(Write five sentences in Sanskrit with the help of the words given in box after seeing the picture given below.)
मञ्जूषा – रमणीयम्, वृक्षाणाम्, पर्वतात्, पूर्वदिशायाम्, चित्तम्, सघनानाम्, उदेति, निर्गच्छति, कूजन्ति, पुष्पाणि, आनन्दयति।
20. चित्रं दृष्ट्वा प्रदत्त शब्दानां सहायतया चित्रस्य वर्णनं पञ्चसु संस्कृतवाक्येषु कुरुत।
(चित्र को देखकर दिए गए शब्दों की सहायता से चित्र का वर्णन पाँच संस्कृत वाक्यों में कीजिए।)
(Describe the picture in five sentences in Sanskrit with the help of the given words after seeing the picture.)
मञ्जूषा – प्रात:काले, आकाशे, एकः, बालकौ, खगौ, व्यायाम, कुरुतः, शीतलवायुः, सूर्योदयः, वातावरणम्।
21. अधः प्रदत्त चित्रस्य वर्णनं पञ्चसु वाक्येषु संस्कृते कुरुत। सहायतार्थं केचन शब्दाः मञ्जूषायां दत्ताः।
(नीचे दिए गए चित्र का वर्णन संस्कृत के पाँच वाक्यों में कीजिए। सहायता के लिए कुछ शब्द मञ्जूषा में दिए गए हैं।)
(Describe the following picture in five sentences in Sanskrit. Words are given for help in the box.)
मञ्जूषा – सूदः, स्थालानि, जनेभ्यः, भोजनम् पानपात्राणि, सूप-ओदनम् रोटिकाः, यच्छति, जलम्, भृत्यः, शाकम्, जनाः।
22. चित्रं दृष्ट्वा शब्दसूचीसहायतया पञ्चवाक्यानि लिखत।
(चित्र को देखकर शब्द सूची की सहायता से पाँच वाक्य लिखिए।)
(Write five sentences about the picture after seeing it with the help of the list of words.)
मञ्जूषा – विद्यालयः, चत्वारः, बालकाः, कन्दुकेन, क्रीडन्ति, बालिकाः, तिस्त्रः, विशालभवनम्, क्रीडाक्षेत्रे, सुन्दरम्, क्रीडाक्षेत्रम्।
23. चित्रं दृष्ट्वा अधोलिखितशब्दानाम् सहायतया पञ्चसु वाक्येषु दीपावली वर्णनं कुरु।
(चित्र देखकर नीचे लिखे शब्दों की सहायतया से पाँच वाक्यों में दीपावली का वर्णन कीजिए।)
(Describe about Deepawali in five sentences after seeing the picture with the help of the words given below.)
मञ्जूषा – मिष्ठान्नम्, महापर्व. अमावस्यायाम् लक्ष्मीपूजनम्, प्रज्वालयन्ति, अवकाशः, अलकुर्वन्ति, स्फोटकपदार्थाः।
24. चित्रं दृष्ट्वा मञ्जूषातः पदानि अवचित्य संस्कृते पञ्चवाक्यानि लिखत।
(चित्र को देखकर मञ्जूषा से शब्दों को चुनकर पाँच वाक्य लिखिए।)
(Write five sentences after seeing the picture with the help of the words chosen from the box.)
मञ्जूषा – गृहस्य, महिमा, दूरदर्शनम्, प्रसन्नः, हस्तौ, सुसज्जितः, पुरुषः, माता-पिता, काष्ठफलकदीपः, विद्यते, अस्ति।
25. अधः प्रदत्तचित्रस्य वर्णनं मञ्जूषायां लिखितपदानां प्रयोगं कृत्वा पञ्चभिः वाक्यैः क्रियताम्।
(नीचे दिए चित्र का वर्णन मञ्जूषा में लिखित शब्दों का प्रयोग करके पाँच वाक्यों के द्वारा कीजिए।)
(Write five sentences about the following picture with the help of the words written in the box.)
मञ्जूषा – राष्ट्रीयध्वजारोहणं, प्रधानाचार्यःस्वतन्त्रतादिवसस्य, कार्यक्रमः, भाषणम्, छात्राः, संकल्पः, क्रीडा, मुख्यातिथि:, क्रियते, विद्यालये।
26. अधोनिर्दिष्टं चित्रं दृष्ट्वा स्वतन्त्ररूपेण मञ्जूषायां प्रदत्तशब्दसहायतया वा संस्कृते पञ्चवाक्यानि लिखत।
(नीचे दिए गए चित्र को देखकर स्वतन्त्र रूप से अथवा मञ्जूषा में दिए गए शब्दों की सहायता से संस्कृत में पाँच वाक्य लिखिए।)
(Write the five sentences in Sanskrit after seeing the following picture independently or with the help of the words from the box.)
मञ्जूषा – कन्दुकम्, भ्रमन्ति, उद्यानम्, पक्वानि, फलानि, वृक्षाः, खगाः, बालः, बाला, पिकः, गीतानि, जनाः, वरिष्ठनागरिकः।
27. चित्रं दृष्ट्वा मञ्जूषातः पदानि अवचित्य संस्कृते पञ्चवाक्यानि लिखत।
(चित्र को देखकर मञ्जूषा से शब्दों को चुनकर संस्कृत में पाँच वाक्यों को लिखिए।)
(Write five sentence in Sanskrit, choosing words from the box after seeing the picture.)
मञ्जूषा – सूर्यः, वृक्षाः वृषभौ पुष्पाणि, ग्राम्यजीवनम्, कृषक:, हलम्, कुटीरः, विकसन्ति, भ्रमन्ति, कर्षति,उदेति।
28. चित्रं दृष्ट्वा मञ्जूषातः पदानि आदाय पञ्चवाक्यानि संस्कृते लिखत।
(चित्र को देखकर मञ्जूषा से शब्दों को लेकर पाँच वाक्य संस्कृत में लिखिए।)
(Write five sentences in Sanskrit with the help of the words in the box after seeing the picture.)
मञ्जूषा – उद्यानस्य, केचन, क्रीडन्ति, उद्याने, वृक्षाः, भ्रमणम्, मालाकारः, वृक्षान्, पुष्पाणि, बालकाः।
29. अधोनिर्दिष्टं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दसहायतया वा संस्कृते पञ्चवाक्यानि लिखत।
(नीचे दिए गए चित्र को देखकर मञ्जूषा में दिए गए शब्दों की सहायता से में पाँच वाक्य लिखिए।)
(Write the five sentences in Sanskrit after seeing the following picture or with the help of the words from the box.)
मञ्जूषा – वृक्षाः, खगाः, कमलानि, सूर्योदयः प्रातः, भ्रमणम्, सरोवरे, जलचराः, स्वास्थ्यम्, पुष्पाणि, जनाः, छात्राः।
30. मञ्जूषायाम् प्रदत्तैः पदैः चित्रस्य वर्णनं पञ्चभिः वाक्यैः कुरुत।
(मञ्जूषा में दिए गए शब्दों से चित्र का वर्णन पाँच वाक्यों में कीजिए।)
(Describe the picture in five sentences with the help of box).
मञ्जूषा – पर्वतीयस्थलम्, वृक्षाः पक्षिणः, सुन्दराणि, गृहाणि, चित्रम्, जनाः, भ्रमन्ति, सुन्दरम्, पर्वताः, रम्याः।
अनुच्छेदलेखनम्
(पञ्चवाक्यानि एव)
उदाहरणम् –
मञ्जूषायाः सहायतया संस्कृतभाषायां पञ्च सरल वाक्यानि लिखत।
‘बालश्रमः बालकेषु अत्याचारः’ इति विषयम् अधिकृत्य संस्कृतेन पञ्चवाक्यानि लिखत। सहायतार्थं मञ्जूषा अपि दत्ता।
- बालश्रमः देशाय अभिशापरूप वर्तते।
- अनेक अनेके बालाः बाल्यसुखात् वञ्चिताः भवन्ति।
- ते शिक्षातः वञ्चिताः भूत्वा जलपानगृहेषु भोजनालयेषु वा अल्पवेतने कार्य कुर्वन्ति।
- तेषाम् उपरि अनेके अत्याचाराः भवन्ति।
- जनाः तान् निर्धन परिवारेभ्यः क्रीत्वा अपि आनयन्ति।
मञ्जूषा – जलपानगृहेषु, भोजनालयेषु, उद्योगेषु, बालकाः, अल्पवेतनम्, सुविधानाम् अभावः, शिक्षातः वञ्चिताः, सूचीकार्यम्, क्रीडनात्-बाल्यसुखात् वञ्चिताः, विविधाः अत्याचाराः, जनाः, ग्रामेभ्यः, आनयन्ति, क्रीत्वा अपि।
NCERT Solutions for Class 11 Sanskrit
The post CBSE Class 11 Sanskrit अनुच्छेद-लेखनम् appeared first on Learn CBSE.