Quantcast
Channel: Learn CBSE
Viewing all articles
Browse latest Browse all 10623

NCERT Class 6 Sanskrit Deepakam Chapter 6 Question Answer सः एव महान् चित्रकारः

$
0
0

Click here to access the best NCERT Solutions for Class 6 Sanskrit Deepakam Chapter 6 Question Answer सः एव महान् चित्रकारः textbook exercise questions and answers.

सः एव महान् चित्रकारः Class 6th Sanskrit Deepakam Chapter 6 Question Answer

NCERT Solutions for Class 6 Sanskrit Deepakam Chapter 6 सः एव महान् चित्रकारः

वयम् अभ्यासं कुर्मः

१. पाठस्य आधारेण प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।

(क) श्रद्धा सर्वत्र किं पश्यति?
उत्तरम्:
पुष्पाणि / पर्णानि / खगा: जन्तवः च

(ख) शुकः केन वर्णेन शोभते ?
उत्तरम्:
हरितवर्णेन

(ग) श्रद्धायाः इष्टवर्ण: क: ?
उत्तरम्:
हरित:

(घ) क: महान् चित्रकार: ?
उत्तरम्:
परमेश्वरः

(ङ) आदित्यः कान् द्रष्टुम् इच्छति ?
उत्तरम्:
चित्रवर्णाः शुकाः।

२. पाठस्य आधारेण प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु ।

(क) आचार्यस्य प्रावारकस्य वर्णः कः ?
उत्तरम्:
आचार्यस्य प्रावारकस्य वर्णः श्वेतः अस्ति ।

(ख) कुत्र विविधेषु वर्णेषु पाटलपुष्पाणि सन्ति ?
उत्तरम्:
मञ्जुलस्य उद्याने विविधेषु वर्णेषु पाटलपुष्पाणि सन्ति ।

(ग) किं बहुवर्णमयम् इति मञ्जुलस्य अभिप्रायः ?
उत्तरम्:
इन्द्रधनुः बहुवर्णमयम् इति मञ्जुलस्य अभिप्रायः अस्ति ।

(घ) चित्रवर्णशुकाः कीदृशाः भवन्ति ?
उत्तरम्:
चित्रवर्णशुकानाम् पक्षाः नीलाः, पीताः, रक्ताः च भवन्ति ।

(ङ) कस्य कस्य वर्णः कृष्णः ?
उत्तरम्:
काकस्य पिकस्य च वर्णः कृष्णः भवति ।

३. उचितवर्णेन सह शब्द योजयन्तु ।
imgg 2.4
रक्तवर्णः
नीलवर्ण:
कृष्णवर्णः
हरितवर्ण:
पीतवर्ण:
श्वेतवर्ण:
पाटलवर्ण:
नीललोहितः
उत्तरम्:
रक्तवर्ण: – शुकस्य चञ्चुः
नीलवर्ण: – गगनः
कृष्णवर्णः – काक:
हरितवर्ण: – पर्णः
पीतवर्णः – सूर्यकान्तिः पुष्पम्
श्वेतवर्णः – मल्लिका पुष्पम्
पाटलवर्णः – पाटल पुष्पम्
नील लोहितः – जम्बूफलम्।

४. राष्ट्रध्वजस्य समुचितैः वर्णैः अधः प्रदत्तेषु वाक्येषु रिक्तस्थानानि पूरयन्तु ।

imgg 2.5

(क) उपरि ………. वर्णः अस्ति ।
उत्तरम्:
केसर वर्ण:

(ख) मध्ये ……… वर्णः अस्ति ।
उत्तरम्:
श्वेतः

(ग) अधः ………. वर्णः अस्ति ।
उत्तरम्:
हरितः

(घ) ध्वजस्य केन्द्रे ………. वर्णः अस्ति ।
उत्तरम्:
नीलः

५. प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।

(क) केशानां वर्ण: क: ?
उत्तरम्:
कृष्ण:

(ख) आकाशस्य वर्णः कः ?
उत्तरम्:
नीलः

(ग) कदलीफलस्य वर्णः कः ?
उत्तरम्:
पीतः

(घ) तृणस्य वर्णः कः ?
उत्तरम्:
हरितः

(ङ) महिषस्य वर्ण: क: ?
उत्तरम्:
कृष्ण: श्यामः

(च) मयूरस्य वर्ण: क: ?
उत्तरम्:
चित्रवर्णः

६. रेखाचित्रेषु निर्दिष्टान् वर्णान् पूरयन्तु ।
imgg 2.6
imgg 2.7
उत्तरम्:
छात्राः स्वयमेव कुरुत ।

योग्यताविस्तरः
सायङ्काले त्वम्बरकोणे

imgg 2.8

नित्यं वयं प्रकृत्यां वर्णान् पश्यामः । एतत् पद्यं सर्वेषां वर्णानां रचयिता भगवान् परमेश्वरः एव’ इति भावं प्रकटयति ।

सायङ्काले त्वम्बरकोणे विलिखति प्रकृतिर्वर्णचयम्।
रक्तं पीतं श्वेतं चित्रं नीलं शबलितदृग्विभवम् ।।
वर्णविचित्रं गगनं दृष्ट्वा बालास्सर्वे तुष्यन्ति ।
द्रष्टुं सर्वं तस्य समीपं विहगाः विविधाः गच्छन्ति ।।
प्रतिनिमिषं स हि वर्णविशेषः नव्यं रूपं प्राप्नोति ।
गन्धर्वाणां मन्दिरमित्यपि सर्वे मर्त्याः कथयन्ति ।।
प्रतिदिनमेवं गगने सायं रचिता वर्णाः केनैते ।
तुभ्यं सर्वकलाकाराणां नायक ! भगवन् नमो नमः।।
कल्लडि-कृष्णमूर्ति:

imgg 2.9

अमरकोशे वर्णानां वर्गीकरणम् (धीवर्ग:)

शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डराः ।
अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः ।।
शुक्लः, शुभ्रः शुचिः, श्वेतः, विशदः श्येत:, पाण्डरः, अवदातः, सितः, गौर:, वलक्षः, धवलः, अर्जुनः।

हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः । कृष्णे नीलासितश्यामकालश्यामलमेचकाः ॥
हरिणः, पाण्डुरः, पाण्डुः, ईषत्पाण्डुः, धूसरः, कृष्णः, नील:, असितः, श्यामः कालः, श्यामलः, मेचकः ।

पीतो गौरो हरिद्राभः पलाशो हरितो हरित् ।
लोहितो रोहितो रक्तः शोणः कोकनदच्छविः ॥
पीतः, गौर:, हरिद्राभ:, पालाश:, हरितः, हरित् लोहितः, रोहितः, रक्तः, कोकनदच्छविः
अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः ।
श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते ।।

रक्तोत्पलाभ:, शोण:, अव्यक्तरागः, ईषद्रक्त:,
अरुणः, श्वेतरक्तः, पाटल:, श्यावः कपिशः, धूम्र:, धूमल:, कृष्णलोहितः।

कडार: कपिलः पिङ्गपिशङ्गौ कटुपिङ्गली | चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे ॥
कडार:, कपिलः, पिङ्गः, पिशङ्गः, कद्रुः, पिङ्गलः, चित्रम्, किर्मीर:, कल्माष:, शबल:, कर्बुरः (विचित्रवर्ण:)

परियोजनाकार्यम्

imgg 3.1
imgg 3.2

• उपरितनानां चित्राणां नामानि वर्णाः च के इति अभिजानन्तु लिखन्तु च ।
उत्तरम्:
imgg 3.3

• कक्षायां विद्यमानानां 10 वस्तूनां नामानि वर्णान् च अभिजानन्तु लिखन्तु च ।
उत्तरम्:
imgg 3.4

पठित-अवबोधनम्

पठित- सामग्रीम् आधृत्य अवबोधनकार्यम्

१. निम्नलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-

श्रद्धा – अत्र वृक्षस्य उपरि शुकः अस्ति। सः अपि हरितवर्णेन शोभते ।
शिक्षक: – श्रद्धे! तव इष्टवर्णः हरित: इति चिन्तयामि । अतएव हरितवर्णम् एव पश्यसि खलु ।
मेधा – आचार्य ! अत्र काकः अपि अस्ति, यस्य वर्णः कृष्णः । एवं पिकस्य वर्ण: अपि वर्णः कृष्णः ।

प्रश्ना:-

1. एकपदेन उत्तरत-

(i) वृक्षस्य उपरि कः अस्ति ?
उत्तरम्:
शुक:

(ii) काकस्य वर्णः कः अस्ति?
उत्तरम्:
कृष्ण:

(iii) पिकस्य वर्णः कः अस्ति ?
उत्तरम्:
कृष्ण:

(iv) हरित: वर्ण: कस्य अस्ति ?
उत्तरम्:
शुकस्य

II. पूर्णवाक्येन उत्तरत-

(i) श्रद्धायाः इष्टवर्णः कः अस्ति ?
उत्तरम्:
श्रद्धायाः इष्टवर्ण: हरितः अस्ति ।

III. निर्देशानुसारं उत्तरत-

(i) ‘पश्यसि’ इत्यत्र कः लकारः ?
(क) लङ्
(ख) लृट्
(ग) लट्
(घ) लोट्
उत्तरम्:
(ग) लट्

(ii) ‘वृक्षस्य’ इति पदे का विभक्तिः ?
(क) षष्ठी
(ख) पञ्चमी
(ग) सप्तमी
(घ) द्वितीया
उत्तरम्:
(क) षष्ठी

रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत –

(i) परमेश्वर: महान् चित्रकारः अस्ति ।
उत्तरम्:
क: महान् चित्रकारः अस्ति ?

(ii) काकः कृष्णः अस्ति ।
उत्तरम्:
कः कृष्णः अस्ति ?

(iii) पर्णस्य वर्ण: हरितः अस्ति ।
उत्तरम्:
कस्य वर्ण: हरितः अस्ति ?

(iv) शुकस्य वर्ण: हरितः अस्ति ।
उत्तरम्:
कस्य वर्ण: हरितः अस्ति ?

(v) उद्याने पाटलपुष्पाणि सन्ति ।
उत्तरम्:
कुत्र पाटलपुष्पाणि सन्ति?

३. मञ्जूषात: समानार्थकानि पदानि चित्वा लिखत-
imgg 3.6
खगाः, वायसः, मरालः, कोकिलः, शश:

(i) हंसः …………..
(ii) पिक: ……….
(iii) पक्षिणः …………..
(iv) काक: …………..
(v) शशक: ………

(i) हंसः ………….
उत्तरम्:
मराल:

उत्तरम्:
कोकिलः

(iii) पक्षिणः …………..
उत्तरम्:
खगाः

(iv) काक: …………..
उत्तरम्:
वायसः

(v) शशक: …………..
उत्तरम्:
शश:

४. अधोलिखितानि वाक्यानि घटनाक्रमानुसार लिखत-

१. अत्र काकः अपि अस्ति, यस्य वर्णः कृष्णः ।
उत्तरम्:
शिक्षक : छात्रान् पृच्छति यत् ते किं किं पश्यन्ति ।

२. शिक्षक : छात्रान् पृच्छति यत् ते किं किं पश्यन्ति ।
उत्तरम्:
अत्र काकः अपि अस्ति, यस्य वर्णः कृष्णः ।

३. वर्णयोजक: चित्रकारः कः अस्ति ?
उत्तरम्:
मनीषः वदति यत् शुकस्य चञ्चुः अपि रक्तवर्णा ।

४. परमेश्वरः एव महान् चित्रकारः अस्ति ।
उत्तरम्:
आदित्य चित्रवर्णान् शुकान् द्रष्टुम् इच्छति ।

५. मञ्जुलः कथयति यत् इन्द्रधनुः तु बहुवर्णमयः भवति ।
उत्तरम्:
मञ्जुलः कथयति यत् इन्द्रधनुः तु बहुवर्णमयः भवति ।

६. शिक्षक छात्रान् स्वस्य अन्येषां च वस्त्राणां वर्णान् अवलोकयितुम् कथयति ।
उत्तरम्:
शिक्षक: छात्रान् स्वस्य अन्येषां च् वस्त्राणां वर्णान् अवलोकयितुम् कथयति ।

७. मनीषः वदति यत् शुकस्य चञ्चुः अपि रक्तवर्णा ।
उत्तरम्:
वर्णयोजक : चित्रकारः कः अस्ति ?

८. आदित्य चित्रवर्णान् शुकान् द्रष्टुम् इच्छति।
उत्तरम्:
परमेश्वरः एव महान् चित्रकारः अस्ति ।

The post NCERT Class 6 Sanskrit Deepakam Chapter 6 Question Answer सः एव महान् चित्रकारः appeared first on Learn CBSE.


Viewing all articles
Browse latest Browse all 10623

Trending Articles



<script src="https://jsc.adskeeper.com/r/s/rssing.com.1596347.js" async> </script>