Quantcast
Channel: Learn CBSE
Viewing all articles
Browse latest Browse all 10573

NCERT Class 6 Sanskrit Deepakam Chapter 10 Question Answer त्वम् आपणं गच्छ

$
0
0

Click here to access the best NCERT Solutions for Class 6 Sanskrit Deepakam Chapter 10 Question Answer त्वम् आपणं गच्छ textbook exercise questions and answers.

त्वम् आपणं गच्छ Class 6th Sanskrit Deepakam Chapter 10 Question Answer

NCERT Solutions for Class 6 Sanskrit Deepakam Chapter 10 त्वम् आपणं गच्छ

१. पूर्वपृष्ठस्य कोष्ठके दत्तानि रूपाणि दृष्ट्वा रिक्तस्थानानि पूरयन्तु।
NCERT Class 6 Sanskrit Deepakam Chapter 10 Question Answer त्वम् आपणं गच्छ 1.1
tableee 1
उत्तरम्:
लिखतु लिखताम् लिखन्तु
लिख लिखतम् लिखत
लिखानि लिखाव लिखाम
क्रीडतु क्रीडताम् क्रीडन्तु
क्रीड क्रीडनम् क्रीडन
क्रोडम क्रीडानि क्रीडाव

२. निम्नलिखितेषु सुभाषितेषु लोट्लकारस्य क्रियापदानि चित्वा लिखन्तु ।

(क) कालं वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितः सज्जनाः सन्तु निर्भयाः ।।
……………. ………………
उतरम् –
वर्षतु, सन्तु।
मेघाः उचिते समये वर्षन्तु । तेन भूमिः सस्यैः समृद्धा पूर्णा च भवतु ।
एषः देशः शान्तः भवतु। सर्वे सज्जनाः भयं विना जीवनं यापयन्तु। (एवम् परमेश्वरं प्रति प्रार्थना अस्ति )
उत्तरम्:
वर्षन्तु, भवतु, यापयन्तु ।

(ख) सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत ।।
………… ……….. ………
उत्तरम्:
भवन्तु, सन्तु, पश्यन्तु ।
सर्वे जनाः सुखेन तिष्ठन्तु । सर्वे रोगरहिताः भवन्तु । सर्वे शुभम् एव पश्यन्तु । कस्यापि कृते दुःखस्य अनुभवः न भवतु ।
उत्तरम्:
तिष्ठन्तु भवन्तु, पश्यन्तु भवतु।

(ग) इमा आपः शिवाः सन्तु शुभाः स्वच्छाश्च निर्मलाः ।
पावना: शीतलाः सन्तु पूताः सूर्यस्य रश्मिभिः ||
……………. …………….
उत्तरम्:
सन्तुः सन्तु!
जलं सर्वेषां कृतं मङ्गलमयं मालिन्यरहितं शुद्धं च भवतु। जलं पवित्रं शीतलं च भवतु । जलं सूर्यस्य प्रकाशस्य स्पर्शेन पवित्रं भवतु ।
उत्तरम्:
भवतु ।

(घ) निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ।
अद्यैव वा मरणमस्तु युगान्तरं वा
न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ।।
उत्तरम्:
निन्दन्तु, स्तुवन्तु, समाविशतु,
गच्छतु अस्तु ।

नीतिकारा: प्रशंसन्तु अथवा निन्दां कुर्वन्तु । धनस्य लाभः भवतु अथवा धनहानिः भवतु । मरणं झटिति भवतु अथवा विलम्बेन भवतु । न्याय्यात् मार्गात् धीराः न विचलन्ति तत्रैव ते स्थिररूपेण तिष्ठन्ति ।
उत्तरम्:
कुर्वन्तु, भवतु, प्रशंसन्तु

३. उदाहरणानुगुणं लोट्लकारस्य रूपाणि लिखन्तु ।
NCERT Class 6 Sanskrit Deepakam Chapter 10 Question Answer त्वम् आपणं गच्छ 1.2
यथा-
पठति – पठतु
खादति – ….
क्रीडामि – …..
पश्यसि – ……..
हसति – ………
नयसि – ………
नृत्यति – ……..
गच्छामि – …….
उत्तरम्:
NCERT Class 6 Sanskrit Deepakam Chapter 10 Question Answer त्वम् आपणं गच्छ 1.3
पठति – पठतु
खादति – खादतु
क्रीडामि – क्रीडानि
पश्यसि – पश्य
हसति – हसतु
नयसि – नय
नृत्यति – नृत्यतु
गच्छामि – गच्छानि

४. उदाहरणानुगुणं बहुवचनस्य रूपाणि लिखन्तु ।
NCERT Class 6 Sanskrit Deepakam Chapter 10 Question Answer त्वम् आपणं गच्छ 1.4
यथा-
उत्तिष्ठतु – उत्तिष्ठन्तु
खादतु – ……..
आगच्छतु – …….
पठतु – ……..
उपविशतु – ………..
पततु – ……….
गच्छतु – ……..
उत्तरम्:
NCERT Class 6 Sanskrit Deepakam Chapter 10 Question Answer त्वम् आपणं गच्छ 1.5
उत्तिष्ठतु – उत्तिष्ठन्तु
खादतु – खादन्तु
आगच्छतु – आगच्छन्तु
पठतु – पठन्तु
उपविशतु – उपविशन्तु
पततु – पतन्तु
गच्छतु – गच्छन्तु

५. विद्यालयस्य वार्षिकोत्सवे के-के किं किं कुर्वन्ति इति सूचनारूपेण वाक्यानि पुनः लिखन्तु ।

यथा- दशमकक्षायाः छात्रा : वेदिकाम् अलङ्कुर्वन्ति
दशमकक्षाया: छात्राः वेदिकाम् अलङ्कुर्वन्तु ।

NCERT Class 6 Sanskrit Deepakam Chapter 10 Question Answer त्वम् आपणं गच्छ 1.6

(क) प्रधानाध्यापक: वार्षिकं विवरणं पठति
उत्तरम्:
प्रधानाध्यापक: वार्षिकं विवरणं पठतु ।

(ख) बालिकाः नृत्यन्ति
उत्तरम्:
बालिकाः नृत्यन्तु ।

(ग) यूयम् आसन्दान् स्थापयथ
उत्तरम्:
यूयम् आसन्दान् स्थापयत ।

(घ) छात्रनायक : स्वागतं करोति
उत्तरम्:
छात्रनायकः स्वागतं करोतु ।

(ङ) मम मित्रं धन्यवादं निवेदयति
उत्तरम्:
मम मित्रं धन्यवादं निवेदयतु ।

(च) संस्कृत – शिक्षिका वेदिका सञ्चालयति
उत्तरम्:
संस्कृत – शिक्षिका वेदिकां संचालयतु।

(छ) कार्यक्रमानन्तरं छात्राः उत्थाय राष्ट्रगीतं गायन्ति
उत्तरम्:
कार्यक्रमानन्तरं छात्राः उत्थाय राष्ट्रगीतं गायन्तु।

६. परिच्छेदे पट्टिकातः उचितैः क्रियारूपैः रिक्तस्थानानि पूरयन्तु ।
NCERT Class 6 Sanskrit Deepakam Chapter 10 Question Answer त्वम् आपणं गच्छ 1.7
शृण्वन्तु गच्छन्तु लिखन्तु पठन्तु पृच्छन्तु कुर्वन्तु वदन्तु उत्तिष्ठन्तु उपविशन्तु अभिवादयन्तु ।

यदा अध्यापकः कक्षाम् आगच्छति तदा प्रथमं सर्वे ………… | उपचारवाक्येन तम् ……… | यदा सः वदति तदा एव सर्वे …….. । तस्य सूचनानुसारं पाठं …….. । गृहपाठ ……. । परस्परं वार्तालापं न ……… | प्रश्नस्य उत्तरं ……… । संशयं …….. । तस्य उपदेशम् …… । बहि: मा ……. ।
उत्तरम्:
यदा अध्यापक : कक्षाम् आगच्छति तदा प्रथमं सर्वे उत्तिष्ठन्तु उपचार वाक्येन तम् अभिवादयन्तु । यदा सः वदति तदा एव सर्वे उपविशन्तु । तस्य सूचनानुसारं पाठ पठन्तु । गृहपाठं लिखन्तु । परस्परं वार्तालापं न कुर्वन्तु । प्रश्नस्य उत्तरं वदन्तु । संशयं पृच्छन्तु। तस्य उपदेशं शृण्वन्तु । बहिः मा गच्छन्तु।

७. मार्गे सूचनादीपाः फलकानि च भवन्ति । तेषां चित्राणि दृष्ट्वा पट्टिकापदैः वाक्यानि रिक्तस्थानेषु लिखन्तु ।
NCERT Class 6 Sanskrit Deepakam Chapter 10 Question Answer त्वम् आपणं गच्छ 1.8
NCERT Class 6 Sanskrit Deepakam Chapter 10 Question Answer त्वम् आपणं गच्छ 1.9

तिष्ठ प्रतीक्षस्व वामतः गच्छ दक्षिणतः गच्छ
यानं मा स्थापय पदयात्रिका ! गच्छ अग्रे विद्यालयः
उत्तरम्:
NCERT Class 6 Sanskrit Deepakam Chapter 10 Question Answer त्वम् आपणं गच्छ 2.1

८. उदाहरणानुसारं क्रियापदस्य लोट्-लकाररूपैः वाक्यानि पूरयन्तु ।
NCERT Class 6 Sanskrit Deepakam Chapter 10 Question Answer त्वम् आपणं गच्छ 2.2
यथा छात्राः प्रातः शीघ्रम् उत्तिष्ठन्तु
(उत् + तिष्ठ्)

(क) अम्ब! अहं क्रीडार्थं ……….। (गच्छ्)
उत्तरम्:
अम्ब! अहं क्रीडार्थ गच्छानि ।

(ख) आगच्छन्तु वयं प्रार्थनागीतं ……..। (गाय्)
उत्तरम्:
आगच्छन्तु वयं प्रार्थनागीतं गायाम |

(ग) ज्वरः अस्ति । पुत्र! वृष्टौ न ………। (क्रीड्)
उत्तरम्:
ज्वरः अस्ति । पुत्र ! वृष्टौ न क्रीड ।

(घ) लते! भवती मम उपनेत्रम् ……… । (आ + नय्)
उत्तरम्:
लते! भवती मम उपनेत्रम् आनयतु ।

(ङ) आर्ये! अहम् अन्तः ……… । (प्रविश्)
उत्तरम्:
आर्ये! अहम् अन्तः प्रविशानि ।

(च) अहं पृच्छामि त्वम् उत्तरं ……… । (वद्)
उत्तरम्:
अहं पृच्छामि त्वम् उत्तरं वद ।

(छ) यूयं शीघ्रं नगरम् ……… । (आ + गच्छ्)
उत्तरम्:
यूयं शीघ्रं नगरम् आगच्छत ।

(ज) तात! वयं कदा चलचित्र ………? (पश्य्)
उत्तरम्:
तात! वयं कदा चलचित्रं पश्याम ।

९. चिह्नाति (? ! |, ) भावानुसारं वाक्ये योजयन्तु ।

NCERT Class 6 Sanskrit Deepakam Chapter 10 Question Answer त्वम् आपणं गच्छ 2.3

यथा – राकेश ! कुत्र असि ? अत्र आगच्छ ।

(क) पुत्र किं करोषि
उत्तरम्:
पुत्र ! किं करोषि ?

(ख) क: श्लोकं वदति
उत्तरम्:
क: श्लोकं वदति ?

(ग) भवान् तत्र तिष्ठतु
उत्तरम्:
भवान् तत्र तिष्ठतु ।

(घ) आचार्यः कदा आगच्छति
उत्तरम्:
आचार्यः कदा आगच्छति ?

(ङ) अहो रमणीयः पर्वतः
उत्तरम्:
अहो! रमणीयः पर्वतः ।

योग्यताविस्तरः

NCERT Class 6 Sanskrit Deepakam Chapter 10 Question Answer त्वम् आपणं गच्छ 2.4

कुरु उपकारं कुरु उद्धारम्

मा कुरु दर्प, मा कुरु गर्व मा भव मानी मानय सर्वम् ।
मा भज दैन्यं, मा भज शोकं मुदितमना भव, मोदय लोकम्।।

तनयं पाठय, तनयां पाठय शिक्षय सुगुणं, दुर्गुणं वारय ।
कुरु उपकारं कुरु उद्धारम् अपनय भारं त्यज अपकारम्।।

मा वद मिथ्या, मा वद व्यर्थं न चल कुमार्गे, न कुरु अनर्थम्।
पाहि अनाथ, पालय दीनं लालय जननी जनक- विहीनम् ।।

मा पिब मादकवस्तु अपेयम् मा भज दुर्व्यसनं परिहेयम्।
मा नय क्षणमपि व्यर्थं समयं कुरु सकलं निजकार्यं सभयम् ।।
वासुदेवद्विवेदी शास्त्री

(एतत् गीतं कण्ठस्थीकुरुत, समूहरूपेण गायत लोट्लकाररूपाणि च अवलोकयत । )

लोट्लकारस्य क्रियापदे अधोलिखितानि चिह्नानि भवन्ति ।
NCERT Class 6 Sanskrit Deepakam Chapter 10 Question Answer त्वम् आपणं गच्छ 2.5
tablee 2

परियोजनाकार्यम्

१. पुस्तकात् लोट्लकारस्य क्रियापदानि चित्वा लिखन्तु ।
उत्तरम्:
पुस्तकात् लोट्लकारस्य क्रियापदानि
आगच्छ करवाणि, गच्छ, आनय ददातु, स्वीकुरु, नय, स्वीकरवाणि, जानातु स्वीकरोमि, पश्यतु, गच्छतु, यच्छानि, योजयतु स्वीकरोतु, आगच्छतु ।

२. गृहे माता भवन्तं भवतीं “किं किम् आदिशति ” इति लोट्लकारे पञ्च वाक्यानि लिखन्तु ।
उत्तरम्:
गृहे मम माता आदिशति-
(i) प्रातःकाले उत्थाय ईश्वरं स्मर |
(ii) स्वाध्ययनं ध्यानेन प्रतिदिनं कुरु ।
(iii) दुर्बलान् मा पीऽय ।
(iv) सर्वेभ्यः शुभकामना: यच्छ ।
(v) मानवीयगुणान् धारय ।

पठित-अवबोधनम्

I. अवबोधन कार्यम्

1. अधोलिखितं संवादं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
अम्बा – राकेश ! कुत्र असि ? अत्र आगच्छ ।
राकेश: – आम् अम्ब! कथय किं कार्यं करवाणि?
अम्बा – अद्य तव तातः कार्यालयात् विलम्बेन आगमिष्यति । त्वम् आपणं गच्छ वस्तूनि आनय । वस्तुनां नामावली अपि अत्र अस्ति ।
राकेश: – अस्तु स्यूतं ददातु। वस्तूनां नामावलीम् अहं स्वीकरोमि ।

प्रश्ना:-

प्रश्न 1.
एकपदेन उत्तरत-
(i) कः आगच्छतु ?
उत्तरम्:
रमेश

(ii) राकेशः कुत्र गच्छतु ?
उत्तरम्:
आपणम्

(iii) कः कार्यालयात् विलम्बेन आगमिष्यति ?
उत्तरम्:
तात

(iv) राकेशः केषाम् नामावलीम् स्वीकरोति ?
उत्तरम्:
वस्तूनां

II. पूर्णवाक्येन उत्तरत-

(i) तातः कस्मात् विलम्बेन आगमिष्यति ?
उत्तरम्:

(ii) राकेशः किं स्वीकरोति ?
उत्तरम्:

III. निर्देशानुसारं उत्तरत-

(i) ‘त्वम् आपणं गच्छ’ अत्र क्रियापदं किम् अस्ति ?
उत्तरम्:
(ii) ‘आगच्छ’ इत्यस्य विलोमपदं अत्र किम् प्रयुक्तम् ?
उत्तरम्:

II.
(i) तात: कार्यालयात् विलम्बेन आगमिष्यति ।
(ii) राकेश वस्तूनां नामावलीं स्वीकरोति ।

III.
(i) गच्छ
(ii) गच्छ

II. प्रश्ननिर्माणम्

(क) वाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माण कुरुत-

(i) त्वम् आपणं गच्छ।
उत्तरम्:
त्वं कुत्र गच्छतु ?

(ii) वस्तुनां नामावली अपि अत्र अस्ति ।
उत्तरम्:
केषां नामावली अपि अत्र अस्ति ?

(iii) मार्गे यानानां गतिं पश्यतु ।
उत्तरम्:
कुत्र यानानां गतिं पश्यतु ?

(iv) एकां लेखनीं ददातु।
उत्तरम्:
कां ददातु ?

III. विलोमशब्दैः सह मेलनं कुरुत
NCERT Class 6 Sanskrit Deepakam Chapter 10 Question Answer त्वम् आपणं गच्छ 2.6
उत्तरम्:
आगच्छ – गच्छ
आनय – नय
स्वीकुरु – अस्वीकुरु
ददातु – गृहणातु

IV. वाक्य प्रयोगः

अधोलिखितानां पदानां लोट्लकारे वाक्येषु प्रयोगं कुरुत-

(i) स्यूतम्
उत्तरम्:
बालकाय स्यूतं यच्छ ।

(ii) लेखनीम्
उत्तरम्:
भवान् लेखनीं ददातु ।

(iii) आपणम्
उत्तरम्:
त्वम् आपणं गच्छ ।

(iv) विलम्बेन
उत्तरम्:
विलम्बेन कार्यं मा कुरु ।

The post NCERT Class 6 Sanskrit Deepakam Chapter 10 Question Answer त्वम् आपणं गच्छ appeared first on Learn CBSE.


Viewing all articles
Browse latest Browse all 10573

Trending Articles



<script src="https://jsc.adskeeper.com/r/s/rssing.com.1596347.js" async> </script>