Quantcast
Channel: Learn CBSE
Viewing all articles
Browse latest Browse all 10231

CBSE Sample Papers for Class 8 Sanskrit Set 4 with Solutions

$
0
0

The latest CBSE Sample Papers for Class 8 Sanskrit with Solutions Set 4 include questions based on the updated syllabus.

CBSE Sample Papers for Class 8 Sanskrit Set 4 with Solutions

निर्धारित समय : 21/2 hrs.
अधिकतम अंक : 60

सामान्य निर्देश:

  1. प्रश्नपत्रे चत्वारः खण्डाः सन्ति।
    • खण्ड: ‘क’ अपठित अवबोधनम् 10 अङ्काः
    • खण्ड: ‘ग’ अनुप्रयुक्त  व्याकरणम् 20 अङ्काः
    • खण्ड: ‘ख’ रचनात्मक कार्यम् 15 अङ्काः
    • खण्ड: ‘घ’ पठित अवबोधनम् 15 अङ्काः
  2. सर्व प्रश्ना: अनिवार्याः
  3. उत्तराणि संस्कृतेन एवं लेखनीयानि।
  4. प्रश्न- संख्या अवश्यमेव लेखनीया।

खंड- ‘क’ ( अपठित-अवबोधनम् )

प्रश्न: 1
अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नान् उत्तरत:
पुरा वाराणस्यां कर्पूरपटको नाम रजकः आसीत्। तस्य गृहे एकः गर्दभः एकः कुक्कुरः च अवसताम्। गर्दभः भारं वहति स्म। कुक्कुरश्च चौरेभ्यः गृहरक्षां करोति स्म। एकदा रात्रौ एक: चौरः द्रव्याणि हर्तुं तस्य गृहं प्रविष्टः । गर्दभः श्वानम् अकथयत् – “सखे ! भवत: तावदयं व्यापारः तत्किमिति त्वमुच्चैः शब्दं कृत्वा स्वामिनं न जागरयसि ?” कुक्कुरोऽवदत्-” भद्र! मम नियोगस्य चर्चा त्वया न कर्त्तव्या। किम् न जानासि यत् अहं अहर्निशम् तस्य गृहरक्षां करोमि। अयं च चिरान्निवृत्तः ममोपयोगं न जानाति ।” इदं श्रुत्वा गर्दभः अकथयत्-” त्वं विपत्तौ स्वामिकार्यस्य उपेक्षां करोषि। भवतु, तावत् यथा स्वामी जागरिष्यति तन्मया कर्त्तव्यम्” इत्युक्त्वा सः उच्चैः चीत्कारशब्दं कृतवान्। ततः सः रजकः निद्राभङ्गकोपात् उत्थाय लगुडेन गर्दभं ताडयामास।

I. एकपदेन उत्तरत:
(i) कर्पूरपटको नाम रजकः कुत्र वसति स्म?
उत्तर:
वाराणस्याम्,

(ii) रजकस्य गृहे कः भारं वहति स्म?
उत्तर:
गर्दभ:,

(iii) कुक्कुरः केभ्यः गृहरक्षां करोति स्म?
उत्तर:
चौरेभ्य:

(iv) रजकः कस्मात् कारणात् गर्दभं ताडितवान्?
उत्तर:
निद्राभङ्गकोपात

II. पूर्णवाक्येन उत्तरत-
(i) रजकस्य गृहे कौ अवसताम्?
उत्तर:
रजकस्य गृहे एक गर्दभः एकः कुक्कुरः च अवसताम्।

(ii) रात्रौ गर्दभः श्वानम् किम् अकथयत्?
उत्तर:
रात्रौ गर्दभः श्वानम् अकथयत्- “सखे! भवतः तावदयं व्यापारः तत्किमिति त्वमुच्चैः शब्दं कृत्वा स्वामिनं न जागरयसि? ”

III. निर्देशानुसारं उत्तरत:
(i) ‘वहति स्म’ इति क्रियापदस्य कर्तृपदं किम्?
(कं) कुक्कुरः
(ख) गर्दभः
(ग) रजकः
(घ) चौर:
उत्तर:
(ख) गर्दभः

(ii) ‘अधुना’ इति पदस्य विलोमपदं गद्यांशे किम् प्रयुक्तम् ?
(क) उच्चैः
(ख) यथा
(ग) पुरा
(घ) तावत्
उत्तर:
(ग) पुरा

(iii) ‘रात्रिन्दिवम्’ इत्यर्थे अत्र किं पदम् प्रयुक्तम् ?
(क) रात्रौ
(ख) निद्राभङ्गकोपात्
(ग) अहर्निशम्
(घ) उपेक्षाम्
उत्तर:
(ग) अहर्निशम्

(iv) ‘त्वम्’ विपत्तौ स्वामिकार्यस्य उपेक्षां करोषि ‘ – अत्र ‘त्वम्’ सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) गर्दभाय
(ख) रजकाय
(ग) चौराय
(घ) कुक्कुराय
उत्तर:
(घ) कुक्कुराय

खंड- ‘ख’ ( रचनात्मक कार्यम् )

प्रश्न: 2.
चित्रं दृष्ट्वा मञ्जूषा प्रवतशब्दैः संस्कृते पञ्च वाक्यानि लिखतु:
मञ्जूषा – देवालयस्य, श्रीरामचन्द्रस्य प्रतिमा, भगवन्तं भक्ताः पूजयन्ति, पूजा, स्तुति, पुजारी एका, भगवतः, स्तुति कुर्वन्ति अर्चयति, प्रसन्नाः पूजयित्वा जना:।
उत्तर:

  1. एतत् चित्रं देवालयस्य अस्ति।
  2. देवालये भगवतः श्रीरामचन्द्रस्य एका प्रतिमा अस्ति।
  3. पुजारी भगवन्तं श्रीरामचन्द्र अर्चयति।
  4. भक्तजना: भगवतः श्रीरामचन्द्रस्य स्तुतिं कुर्वन्ति।
  5. भगवन्तं पूजयित्वा जनाः प्रसन्नाः भवन्ति।

CBSE Sample Papers for Class 8 Sanskrit Set 4 with Solutions

प्रश्न 3.
मञ्जूषाया: सहायतया अधोलिखितं सम्वादं पूरयत:
मञ्जूषा- मित्रैः, जयपुर, कार्यक्रमः द्रक्ष्यामः, भ्रमणार्थम्।

विनोद: अंकित ! श्वः भवान् कुत्र गमिष्यति ?
अंकित: अहं (i) ____ गमिष्यामि।
विनोदः तत्र किमपि कार्यं वर्तते? अथवा (ii) ____ एव गच्छति ?
अंकितः कार्यं नास्ति, अहं तु (iii) ____ सह भ्रमणार्थं गच्छामि।
विनोदः जयपुरे कुत्र – कुत्र भ्रमणस्य (iv) ____ अंकित:
अंकितः वयं तत्र आमेर – दुर्गं, जयगढ़दुर्ग, गोविन्ददेव मन्दिरं च (v) ____।
उत्तर:
विनोद: अंकित ! श्वः भवान् कुत्र गमिष्यति ?
अंकित: अहं जयपुर गमिष्यामि।
विनोदः तत्र किमपि कार्यं वर्तते? अथवा भ्रमणार्थम् एव गच्छति ?
अंकितः कार्यं नास्ति, अहं तु मित्रै: सह भ्रमणार्थं गच्छामि।
विनोदः जयपुरे कुत्र – कुत्र भ्रमणस्य कार्यक्रम: अंकित:
अंकितः वयं तत्र आमेर – दुर्गं, जयगढ़दुर्ग, गोविन्ददेव मन्दिरं च द्रक्ष्यामः।

प्रश्न 4.
अनुच्छेद लेखनं”:
उत्तर:

मैं पर्यावरण रक्षक हूँ।

प्रकृति से मनुष्य का अटूट संबंध रहा है। मानवीय विकास में प्रकृति की विशेष भूमिका रही है। मुझे इस बात की गंभीर चिंता रहती है कि यदि इसी प्रकार हम लोग पर्यावरण को नुकसान पहुँचाते रहे तो इस पृथ्वी की क्या होगा? इस पृथ्वी को जिसे ‘माँ’ के रूप में देखते हैं, क्या अपने स्वार्थ के कारण ऐसे ही नष्ट हो जाएगी। लेकिन हम ऐसा नहीं होने देंगे। अपने वजूद को बचाने के लिए इस पृथ्वी को हमें बचाना ही होगा। इस धरती माँ को बचाने के लिए अभी और कुछ करने का संकल्प लेना होगा। इन्हीं विचारों को लेकर हमने पर्यावरण संरक्षण समिति बनाई। अब हममें से प्रत्येक व्यक्ति पर्यावरण प्रेमी है। हम लोग अपने घर के आस-पास वातावरण को साफ सुथरा रखते हैं। कोई भी खुशी का अवसर हो, एक पौधा अवश्य लगाते हैं। हम सब उसकी देखभाल करते हैं। इस तरह हम लोग विश्व स्तर पर इस समस्या का समाधान कुछ न कुछ अवश्य निकालेंगे।

अथवा
निबंध लेखनं-

विद्यायाः महत्त्वम् / विद्या विहीनः पशुः
विद्या ददाति विनयं विनयाद् याति पात्रताम् ।
पात्रत्वाद् धनमाप्नोति धनाद् धर्मः ततः सुखम ||

(i) ___ विद् धातोः विद्या शब्दः सिध्यति। (ii) ___ ज्ञानं एव विद्या इति कथ्यते । वस्तुतः (iii) ___ एव जनाः सर्वत्र कीर्तिं लभते । यद्यपि (iv) ___ वहूनि वस्तूनि सन्ति तथापि विद्या एव सर्वश्रेष्ठ (v) ___ अस्ति। धनस्य इदं वैशिष्ट्यं वर्तते यत् सर्वधनं व्ययात् नष्टं भवति परं विद्या अस्ति । विद्यया एव अतः कथ्यते-‘ विद्या धनं सर्वधनं प्रधानम्’ (vi) ___ धनं तु व्ययात् वृद्धिं गच्छति । (vii) ___ नाशं याति । एतद् एव विद्या धनस्य (viii)  ___ असिता l विद्यया एव नरः (ix) ___ प्राप्नोति। येन संस्कारेण सः जीवने सर्वत्र सफलतां लभते । अतएव सर्वे विद्या प्राप्त्यर्थं प्रयत्नं (x) ___ करणीयः। अतः कथ्यते – विद्या विहीनः पशुः।
उत्तर:
ज्ञानार्थक विद् धातोः विद्या शब्दः सिध्यति। सम्यक् ज्ञानं एव विद्या इति कथ्यते । वस्तुतः विद्यया एव जनाः सर्वत्र कीर्तिं लभते । यद्यपि संसारे वहूनि वस्तूनि सन्ति तथापि विद्या एव सर्वश्रेष्ठ धनं अस्ति। धनस्य इदं वैशिष्ट्यं वर्तते यत् सर्वधनं व्ययात् नष्टं भवति परं विद्या अस्ति । विद्यया एव अतः कथ्यते-‘ विद्या धनं सर्वधनं प्रधानम्’  सञ्चयात् धनं तु व्ययात् वृद्धिं गच्छति । सञ्चयात् नाशं याति । एतद् एव विद्या धनस्य  वैचित्र्यं असिता l विद्यया एव नरः सस्कार प्राप्नोति। येन संस्कारेण सः जीवने सर्वत्र सफलतां लभते । अतएव सर्वे विद्या प्राप्त्यर्थं प्रयत्नं अवश्यमेव करणीयः। अतः कथ्यते – विद्या विहीनः पशुः।

खंड- ‘ग’ ( अनुप्रयुक्त व्याकरणम् )

प्रश्न: 5.
सन्धिः कृत्वा लिखत:
(i) मृग + इन्द्र: = _____
(iii) प्रति + इक्षा = _____
उत्तर:
(i) मृगेन्द्र:,
(ii) प्रतीक्षा

प्रश्न: 6
समुचितं विकल्पं चित्वा अधोलिखितवाक्यानि संशोधयत:
(i) सर्वाः बालकाः हसन्ति।
(क) हसथः
(ख) सर्वे
(ग) सर्वाणि
(घ) सर्वो
उत्तर:
(ख) सर्वे

(ii) चत्वारः वेदः सन्ति।
(क) वेदानि
(ख) वेदा:
(ग) वेदो
(घ) वदम्
उत्तर:
(ख) वेदा:

प्रश्न : 7.
अधोलिखितेषु कर्तृपदं कर्मवाच्ये परिवर्त्य रिक्तस्थानि पूरयत:

कर्तृवाच्य (Active Voice) कर्मवाच्य (Passive Voice)
1. अहं पुस्तकानि पठामि 1. ____ पुस्तकानि पठामि
2.  त्वं फलं खादसि 2. ____ फलं खाद्येते।

उत्तर:

कर्तृवाच्य (Active Voice) कर्मवाच्य (Passive Voice)
1. अहं पुस्तकानि पठामि 1. मया पुस्तकानि पठामि
2. त्वं फलं खादसि 2. त्वया। फलं खाद्येते।

प्रश्नः 8.
अधोलिखिते कार्यक्रमे अङ्कानां स्थाने संस्कृतपदेषु समयं लिखत:
1. रात्रौ 8.45 वादने भक्ति संगीतम्।
2. रात्रौ 10.00 बादने समापनम् ।
उत्तर:
1. पादोननव,
2. दश।

CBSE Sample Papers for Class 8 Sanskrit Set 4 with Solutions

प्रश्नः 9.
समुचितं पदं चित्वा रिक्तस्थानानि पूरयत:
1. कृष्णः ____ अलम्। (कंसेन / कंसाय)
2. ____विना कथं सफलता। (श्रमस्य/श्रमात्)
उत्तर:
1. कंसाय,
2. श्रमात्।

खंड ‘घ’ (पठित अवबोधनम् )

प्रश्न 10.
गद्यांशम् आधृत्य प्रश्नाः
जनवरी मासस्य तृतीये दिवसे 1831 तमे ख्रिस्ताब्दे महाराष्ट्रस्य नायगाँव – नाम्नि स्थाने सावित्री अजायत । तस्याः माता लक्ष्मीबाई पिता च खंडोजी इति अभिहितौ। नववर्षदेशीया सा ज्योतिबा फुले महोदयेन परिणीता। सोऽपि तदानीं त्रयोदशवर्षकल्पः एव आसीत्। यतोहि सः स्त्रीशिक्षायाः प्रबल समर्थकः आसीत् अतः सावित्र्या: मनसि स्थिता अध्ययनाभिलाषा उत्सं प्राप्तवती। इतः परं सा साग्रहम् आङ्ग्लभाषाया अपि अध्ययनं कृतवती। 1848 तमे ख्रिस्ताब्दे पुणे नगरे सावित्री ज्योतिबामहोदयेन सह कन्यानां कृते प्रदेशाय प्रथमं विद्यालयम् आरभत। तदानीं सा केवलं सप्तदशवर्षीया आसीत्। 1851 तंमे ख्रिस्ताब्दे अस्पृश्यत्वात् तिरस्कृतस्य समुदायस्य बालिकानां कृते पृथक्तया तया अपर: विद्यालयः प्रारब्ध:।

I. एकपदेन उत्तरत:
(i) विवाहसमये सावित्रीबाई फुले कति वर्षीया आसीत्?
(क) नववर्षीया
(ख) दशवर्षीया
(ग) त्रयोदशवर्षीया
(घ) अष्टवर्षीया
उत्तर:
(क) नववर्षीया

II. पूर्णवाक्येन उत्तरत:
(i) कः स्त्रीशिक्षायाः प्रबलसमर्थकः आसीत्?
उत्तर:
ज्योतिबा फुलेमहोदयाः स्त्रीशिक्षायाः प्रबल समर्थक आसीत्।

III. भाषिककार्यम् :
(i) ‘विवाहिती’ इति अर्थे किं पदम् अत्र प्रयुक्तम् ?
उत्तर:
‘परिणीता’ इति।

(ii) ‘दुर्बल:’ इति पदस्य किं विलोमपदम् अत्र प्रयुक्तम् ?
उत्तर:
‘प्रबल:’ इति विलोमपदम् अस्ति।

CBSE Sample Papers for Class 8 Sanskrit Set 4 with Solutions

प्रश्नः 11.
पठित-पद्यांश:

तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा।
तेष्वेव त्रिषु तुष्टेषु तपः सर्व समाप्यते।।
सर्व परवशं दुःखं सर्वमात्मवशं सुखम्।
एतद्विद्यात्समासेन लक्षणं सुखदुःखयोः।

I.एकपवेन उत्तरत:
(i) मातुः पितुः आचार्यस्य च किं कुर्यात् ?
(क) शुभम्
(ख) अशुभम्
(ग) प्रियम्
(घ) अप्रियम्
उत्तर:
(ग) प्रियम्

(ii) तेषु तुष्टेषु किं समाप्यते ?
(क) सुखम्
(ख) तपः
(ग) मनः
(घ) वचः
उत्तर:
(ख) तपः

II. पूर्णवाक्येन उत्तरत-
(i) परवंश कि भवति?
उत्तर:
परवशं दुःखम् भवति।

III. निर्देशानुसारं उत्तरत-
(i) ‘सर्व तपः’ अत्र विशेषणपदं किम्?
उत्तर:
‘सर्वम्’ इति विशेषणपदं अस्ति।

(ii) ‘अप्रियम्’ इति पदस्य विलोमपदं किम्?
उत्तर:
‘प्रियम्’ इति विलोमपदम्।

प्रश्न: 12.
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत-
1. समीपम् – ______
2. गणनम् – ______
3. राक्षसौ – ______
उत्तर:
1. समीपम् – निकषा
2. गणनम् – आकलन्,
3. राक्षसौ – दानवौ।

CBSE Sample Papers for Class 8 Sanskrit Set 4 with Solutions

प्रश्न: 13.
विशेषणपदैः सह विशेष्यपदानि योजयत:

विशेषणः विशेष्य:
पिहिते
स्वच्छता

उत्तर:

विशेषणः विशेष्य:
पिहिते अवकरकण्डोले
स्वच्छता स्वास्थ्यकरीc

प्रश्न: 14.
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
परितः  ______
उपविष्टः  _____
उत्तर:
परितः  –  ( चारों ओर) विद्यालयं परितः वृक्षाः सन्ति।
उपविष्टः  –  (बैठा हुआ) सः उपविष्टः पठति।

प्रश्न: 15.
अधोलिखितानां पदानां लिङ्ग, विभक्तिं वचनं च लिखत:

पदानि लिङ्गम् विभक्तिः वचनम्
अपर:
कन्यानाम्

उत्तर:

पदानि लिङ्गम् विभक्तिः वचनम्
अपर: पुंल्लिङ्गम् प्रथमा एकवचनम्
कन्यानाम् स्त्रीलिङ्गम् षष्ठी बहुवचनम्

 

The post CBSE Sample Papers for Class 8 Sanskrit Set 4 with Solutions appeared first on Learn CBSE.


Viewing all articles
Browse latest Browse all 10231

Latest Images

Trending Articles



Latest Images

<script src="https://jsc.adskeeper.com/r/s/rssing.com.1596347.js" async> </script>