Students must start practicing the questions from CBSE Sample Papers for Class 10 Sanskrit Communicative with Solutions Set 1 are designed as per the revised syllabus.
CBSE Sample Papers for Class 10 Sanskrit Communicative Set 1 with Solutions
समय: 3 होराः
पूर्णांका: 80
सामान्यनिर्देशाः
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 18 प्रश्नाः सन्ति ।
- अस्मिन् प्रश्नपत्रे चत्वारः खण्डा सन्ति ।
- प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि ।
- उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्क अवश्यं लेखनीयः ।
- प्रश्नस्य क्रमाङ्क प्रश्नपत्रानुसारम् अवश्यमेव लेखनीयः ।
- सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि ।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः ।
प्रश्नपत्रस्वरूपम्
- ‘क’ खण्ड: : अपठितावबोधनम् 10 अङ्काः
- ‘ख’ खण्ड: : रचनात्मककार्यम् 15 अङ्काः
- ‘ग” खण्ड: : अनुप्रयुक्तव्याकरणम् 25 अङ्काः
- ‘घ’ खण्डः : पठितावबोधनम् 30 अङ्काः
खण्ड – ‘क’ : अपठितावबोधनम्
प्रश्न 1.
अधोलिखितं गद्याशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृतेन लिखत- (10)
प्रकृतिः अस्माकं सर्वेषां जननी अस्ति । एषा स्वप्राकृतिकसंसाधनैः व्यवस्थाभिः च अस्मान् पोषयति पालयति रक्षति च । यदा एतानि संसाधनानि नष्टानि प्रदूषितानि वा भवन्ति प्राकृतिक व्यवस्था च भगा भवति तदा जीवनाय सङ्कटः उत्पद्यते । अद्यत्वे अस्माकं पर्यावरणस्य प्रदूषणं निरन्तरं वर्धमानम् अस्ति । अद्य पर्यावरण प्रदूषणं संसारस्य भीषणतमा समस्या अस्ति । प्राचीनकाले यद्यपि पर्यावरणस्य प्रदूषणस्य समस्या नासीत् तथापि वेदेषु स्थाने-स्थाने ऋषीणां पर्यावरण विषयकं चिन्तनं दृश्यते । स्वच्छं पर्यावरणम् अस्माकं जीवनस्य आधारः अस्ति । पर्यावरणस्य आधाराः पुष्पिताः, पल्लविता: वृक्षाः भवन्ति । वृक्षाः पर्यावरणं सन्तुलितं शुद्धं च कुर्वन्ति । वृक्षाः भूमेः जलं गृह्णन्ति । वृक्षाणाम् इदं जलं मेघानां निर्माणे सहायकं भवति । इत्थं वृक्षाः वर्षायै सहायकाः भवन्ति । वृक्षाः पुष्पाणां, फलानाम् औषधीनां च स्रोताः सन्ति । ते अस्मभ्यं सर्वम् अर्पयन्ति । वृक्षाः रोपणीयाः इति उद्घोषयन्तः अपि वयं प्रतिदिनं तेषां कर्तनं पश्याम्ः इत्यस्ति चिन्तनीयः विषयः । अस्माभिः न विस्मरणीयं यत् वृक्षा सत्पुरुषा इव ।
(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(i) अद्य संसारस्य भीषणतमा समस्या का अस्ति ?
उत्तर:
पर्यावरण-प्रदूषणम्
(ii) वृक्षाः कुतः जलं गृह्णन्ति ?
उत्तर:
भूमेः
(iii) के अस्मभ्यं सर्वम् अपर्यन्ति ?
उत्तर:
वृक्षा:
(आ) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) (2 × 2 = 4)
(i) पर्यावरणस्य आधारा: के भवन्ति ?
उत्तर:
पर्यावरणस्य आधाराः पुष्पिताः, पल्लविता : वृक्षाः भवन्ति ।
(ii) वृक्षाः केषाम् स्रोताः सन्ति ?
उत्तर:
वृक्षाः पुष्पाणां फलानाम्, औषधीनां च आगाराः सन्ति ।
(iii) वृक्षाः कथं वर्षायै सहायकाः भवन्ति ?
उत्तर:
वृक्षाणाम् जलं मेघानां निर्माणे सहायकं भवति इत्थं वृक्षाः वर्षायै सहायकाः भवन्ति ।
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत । [1]
उत्तर:
अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत-
पर्यावरणम्/वृक्षा:/वृक्षाणां महत्त्वम् / प्रकृति संरक्षणम् / वृक्षा: सत्पुरुषा इव ।
छात्रस्य उत्तरं दृष्ट्वा छात्रहिताय समुचित: निर्णयः करणीयः ।
(ई) यथानिर्देशम् उत्तरत – (केवलं प्रश्नत्रयम्)
(i) ‘प्राचीनकाले यद्यपि पर्यावरणप्रदूषणस्य समस्या नासीत्’ अत्र ‘आसीत् ‘ क्रियापदस्य कर्तृपदं किम् ?
(अ) प्राचीनकाले
(ब) यद्यपि
(स) समस्या
(द) पर्यावरणप्रदूषणस्य
उत्तर:
(स) समस्या
(ii) ‘वयं प्रतिदिनं तेषां कर्तनं पश्यामः’ अत्र क्रियापदं किम् अस्ति ?
(अ) कर्तनम्
(ब) तेषाम्
(स) प्रतिदिनं
(द) पश्यामः
उत्तर:
(द) पश्यामः
(iii) ‘पर्यावरणम्’ इति पदस्य किं विशेषणपदम् ?
(अ) वृक्षम्
(ब) स्वच्छम्
(स) जलम्
(द) प्रदूषणम्
उत्तर:
(ब) स्वच्छम्
(iv) ‘तरव:’ इति पदस्य पर्यायपदं चिनुत ।
(अ) वृक्षा:
(ब) आगाराः
(स) सहायकाः
(द) पुष्पिताः
उत्तर:
(अ) वृक्षा:
खण्ड – ‘ख’ : रचनात्मकं कार्यम् (15 )
प्रश्न 2.
भवतः नाम तनिष्कः । भवतः विद्यालये संस्कृतनाटकस्य मञ्चनम् अभवत् । तदर्थं मित्रं दीपकम् प्रति लिखितं पत्रं मञ्जूषा: पदानां सहायतया पूरयित्वा उत्तरपुस्तिकायां लिखत- [1/2 × 10 = 5]
मञ्जूषा
प्रशंसा, कृतवन्तः, श्रुत्वा, दिल्लीत:, मम, तनिष्कः, दीपक !, छात्राः, सस्रेहं नमः मञ्चनम् ।
आदर्शविद्यालयः,
(i) ……..
दिनाङ्कः ………
प्रियमित्र (ii) ……..
(iii) ……..
अत्र सर्वगतं कुशलम् । आशासे त्वम् अपि कुशली । यथा त्वं जानासि गत सप्ताहे मम विद्यालये संस्कृत – उत्सवः सम्पन्नः । अस्मिन् उत्सवे संस्कृतपरिषद : (iv) ……. पाठ्यपुस्तकस्य ‘कवयामि वयामि यामि’ इति नाटकस्य (v) …… अकुर्वन् । तस्मिन् नाटके मया ‘भोजस्य’ अभिनयः कृतः । कुविन्दस्य अभिनयं मम मित्रं प्राञ्जलः अकरोत् । तस्य मुखात् श्लोकगायनं (vi) ……. सर्वेऽपि उपस्थिता: दर्शका: भावविभोराः जाताः करतलध्वनिभिः च तस्य उत्साहवर्धनम् (vii) ……. । कार्यक्रमस्य अन्तेऽपि मुख्यातिथिमहोदयेन संस्कृतनाटकस्य भूरि भूरि (viii) ……. कृता। वस्तुतः अयम् उत्सवः मनोरञ्जकं ज्ञानवर्धकं च आसीत्।
तब विद्यालये संस्कृतोत्सवः कदा भविष्यति इति अवश्यं सूचय । मातृपितृचरणेषु (ix) ……. प्रणामाः ।
तव मित्रम्
(x) ……
उत्तर:
पत्रलेखनम्
भवतः नाम तनिष्कः । भवतः विद्यालये संस्कृतनाटकस्य मञ्चनम् अभवत् । तदर्थं मित्रं दीपकम् प्रति लिखितं पत्रं मञ्जूिषातः पदानां सहायतया पूरयित्वा उत्तरपुस्तिकायां लिखत –
आदर्शविद्यालयः,
(i) दिल्लीतः
दिनाङ्कः …….
प्रियमित्र (ii) दीपक !
(iii) सस्नेहं नमः ।
अत्र सर्वगतं कुशलम् । आशासे त्वम् अपि कुशली । यथा त्वम् जानासि गत सप्ताहे मम विद्यालये संस्कृत-उत्सवः सम्पन्नः। अस्मिन् उत्सवे संस्कृतपरिषदः (iv) छात्रा : पाठ्यपुस्तकस्य ‘कवयामि वयामि यामि’ इति नाटकस्य (v) मञ्चनम् अकुर्वन् । तस्मिन् नाटके मया ‘भोजस्य’ अभिनयः कृतः । कुविन्दस्य अभिनयं मम मित्रं प्राञ्जालः अकरोत् । तस्य मुखात् श्लोकगायनं (vi) श्रुत्वा सर्वेऽपि उपस्थिता: दर्शकाः भावविभोराः जाताः करतलध्वनिभिः च तस्य उत्साहवर्धनम् (vii) कृतवन्तः । कार्यक्रमस्य अन्तेऽपि मुख्यातिथिमहोदयेन संस्कृतनाटकस्य भूरि भूरि (viii) प्रशंसा कृता । वस्तुतः अयम् उत्सवः मनोरञ्जकं ज्ञानवर्धकं च आसीत् ।
तव विद्यालये संस्कृतोत्सवः कदा भविष्यति इति अवश्यं सूचय । मातृपितृचरणेषु (ix) मम प्रणामाः ।
तव मित्रम्
(x) तनिष्कः
प्रश्न 3.
प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत- (1 × 5 = 5)
मञ्जूषा
तरन्ति, स्वच्छम्, ग्रीष्मकाले, तरणतालस्य, जनाः, बालाः, कुर्वन्ति, प्रसन्नाः, जलक्रीडाम्, जलम्, कन्दुकम्, सन्ति ।
अथवा
मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत – (1 × 5 = 5)
“अनुशासनस्य महत्त्वम्” मञ्जूषा
साफल्यम्, जनयति, परिश्रमेण सह, आलस्यम्, प्राप्नोति, स्वस्थम्, दिनचर्या, आत्मविश्वासः, जीवनम्, स्वलक्ष्यम्, आवश्यकम्, आत्मानम्, दुर्गुणेभ्यः ।
उत्तर:
चित्रवर्णनम्
अत्र छात्रेभ्यः संक्षिप्तवाक्यरचना अपेक्षिता वर्तते । केवलं वाक्यशुद्धिः द्रष्टव्या । अस्य प्रश्नस्य प्रमुखम् उद्देश्यं वाक्यरचना अस्ति । वाक्यं दीर्घम् अस्ति अथवा लघु इति महत्त्वपूर्णं नास्ति । प्रतिवाक्यम् अर्धः अङ्क : भावस्य कृते अर्धः अङ्कः च व्याकरण दृष्ट्या शुद्धतानिमित्तं निर्धारितः अस्ति । मञ्जूषायां प्रदत्ता: शब्दा: सहायतार्थं सन्ति । छात्रः तेषां वाक्येषु प्रयोगं कुर्यादेव इति अनिवार्यं नास्ति । छात्रः स्वमेधया अपि वाक्यानि निर्मातुं शक्नोति । मञ्जूषायां प्रदत्तानां शब्दानां विभक्तिं परिवर्तनं कृत्वा अपि वाक्यनिर्माणं कर्तुं शक्यते ।
चित्रवर्णनम
- अस्मिन् चित्रे बाला : तरणताले तरन्ति ।
- ग्रीष्मकाले तरणतालस्य जलम् स्वच्छम् दृश्यते ।
- सर्वे जनाः जलक्रीडाम् कुर्वन्तः प्रसन्नाः भवन्ति ।
- एकस्य जनस्य पीढिकायाम् बाल: अतिष्ठत् ।
- एक: बालः कन्दुकम् क्रीडति ।
अथवा
अनुच्छेद लेखनम्-
अयं विकल्पः सर्वेभ्यः अस्ति । छात्राः मञ्जूषायां प्रदत्तानां शब्दानां विभक्तिं परिवर्तनं कृत्वा अपि वाक्यनिर्माणं कर्तुं शक्नुवन्ति । अतः अङ्काः देयाः। अस्य मूल्याङ्कनाय अन्ये नियमाः चित्रवर्णनस्य अनुगुणं पालनीयाः ।
अनुच्छेद लेखनम्
- परिश्रमेण सह एव जनाः साफल्यम् प्राप्नुवन्ति ।
- सदैव आलस्यं परित्यजेत् ।
- अस्माकं स्व दिनचर्या नियमित कुर्युः ।
- अनुशासनस्य कृते दुर्गुणेभ्यः दूरं भवेयुः ।
- आत्मविश्वासेनसह स्वतजीवनस्य लक्ष्यं निर्धारितं कुर्यात् ।
प्रश्न 4.
मञ्जूषाप्रदत्तपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितसंवादं पुनः लिखत- (1 × 5 = 5)
मञ्जूषा
(i) अस्तु, अहं कार्यालयात् समयेन आगमिष्यामि।
(ii) अस्तु, धन्यवादः ।
(iii) शिक्षकं पृच्छ, कदा कार्यक्रमः भविष्यति ?
(iv) तत्र भवता सह गन्तुम् इच्छामि ।
(v) चिरञ्जीव ! वद सर्वं कुशलम् ?
पुत्रः – तात ! प्रणमामि !
पिता – (i) …….
पुत्रः – आम् तात ! सर्वं कुशलम् अस्ति ।
पिता – उत्तमम् । विद्यालये तव अध्ययनं कथं प्रचलति कापि समस्या तु नास्ति ?
पुत्रः – न कापि समस्या नास्ति परन्तु एकत्र भवताम् अनुमतिं सहाय्यं च इच्छामि ।
पिता – कस्मिन् सन्दर्भे, निस्सङ्कोचं वद ।
पुत्रः – श्वः मम प्रियशिक्षकस्य जन्मोत्सवः भविष्यति । (ii) अहम् ……. ।
पिता – शिक्षक तु सदैव पूज्यः । तस्मिन् सन्दर्भे सङ्कोचः न कर्तव्य: । (iii) ……..
पुत्रः – अहं पूर्वमेव पृष्टवान्, कार्यक्रमः सायं सप्तवादने भविष्यति । केवलं भवतां समयस्य आशङ्का आसीत् ।
पिता – चतुर ! सर्वं निश्चित्य मां पृच्छसि । (iv) …….. ।
पुत्रः – तात! किमपि उपायनं स्वीकरणीयम् अस्ति ।
पिता – अस्तु ! मात्रा सह आपणं गत्वा उत्तमम् उपायनं स्वीकुरु ।
पुत्र: – (v) ……. ।
उत्तर:
संवाद पूर्ति :
पुत्रः – तात ! प्रणमामि ।
पिता – (i) चिरञ्जीव ! वद सर्वं कुशलम् ?
पुत्रः – आम् तात ! सर्वं कुशलम् अस्ति ।
पिता – उत्तमम् । विद्यालये तव अध्ययनं कथं प्रचलति कापि समस्या तु नास्ति ?
पुत्रः – न, कापि समस्या नास्ति परन्तु एकत्र भवताम् अनुमतिं सहाय्यं च इच्छामि ।
पिता – कस्मिन् सन्दर्भे, निस्सङ्कोचं वद ।
पुत्रः – श्वः मम प्रियशिक्षकस्य जन्मोत्सवः भविष्यति ।
अहम् (ii) तत्र भवता सह गन्तुम् इच्छामि ।
पिता – शिक्षक तु सदैव पूज्यः । तस्मिन् सन्दर्भे सङ्कोचः न कर्तव्यः । (iii) शिक्षकं पृच्छ, कदा कार्यक्रमः भविष्यति ?
पुत्रः – अहं पूर्वमेव पृष्टवान, कार्यक्रम: सायं सप्तवादने भविष्यति । केवलं भवतां समयस्य आशङ्का आसीत् ।
पिता – चतुर ! सर्वं निश्चित्य मां पृच्छसि । (iv) अस्तु, अहं कार्यालयात् समयेन आगमिष्यामि ।
पुत्रः – तात! किमपि उपायनं स्वीकरणीयम् अस्ति ।
पिता – अस्तु ! मात्रा सह आपणं गत्वा उत्तमम् उपायनं स्वीकुरु ।
पुत्रः – (v) अस्तु, धन्यवादः ।
अथवा
मञ्जूषा
निर्माणम्, चटका, भवतः स्वनीडे, महती, आश्रयार्थम्, इव तिष्ठति, वृक्षम्, कोपेन ।
मञ्जूषायाः सहायतया अधोलिखितां कथां पूरयित्वा पुनः लिखत-
एकदा एका चटका आसीत् । सा वनस्य एकस्मिन् उन्नतवृक्षे (i) …… वसति स्म। एकदा वने (ii) ………… वृष्टिः अभवत् । तदा पीडितः एकः वानर: (iii) ………… तत्वृक्षस्य अधः आगच्छत् । वानरं दृष्ट्वा (iv) ………. अवदत् – “भोः वानर ! भवान् किमर्थं व्यर्थमेव दुःखी भवति ? (v) …….. शरीरं मनुष्य – शरीरम् (vi) …………. अस्ति । हस्तौ पादौ च सम्यक् सन्ति । भवान् उत्तम-गृहस्य (vii) ………. किमर्थं न करोति ? ” तत् श्रुत्वा वानरः कुपितः अभवत् । वानर : (viii) …….. चटकाम् अवदत्-“किमर्थं भवती तूष्णीं न (ix) ……..? किमर्थं मम उपहासं करोति ?” इति उक्त्वा सः वानर : (x) ………………. आरोहत् चटाकायाः च नीडम् अनाशयत् । अतः कथ्यते – मूर्खेभ्यः सदुपदेशाः न हिताय ।
उत्तर:
कथा पूर्ति :
एकदा एका चटका आसीत् । सा वनस्य एकस्मिन् उन्नतवृक्षे (i) स्वनीडे वसति स्म । एकदा वने (ii) महती वृष्टिः अभवत् । तदा पीडितः एकः वानर : (iii) आश्रयार्थम् तत्वृक्षस्य अधः आगच्छत् । वानरं दृष्ट्वा (iv) चटका अवदत् – “भोः वानर ! भवान् किमर्थं व्यर्थमेव दुःखी भवति ? (v) भवतः शरीरं मनुष्य- शरीरम् (vi) इव अस्ति । हस्तौ पादौ च सम्यक् सन्ति । भवान् उत्तम-गृहस्य (vii) निर्माणम् किमर्थं न करोति ? ” तत् श्रुत्वा वानरः कुपितः अभवत्। वानरः (viii) कोपेन चटकाम् अवदत् – “किमर्थं भवती तूष्णीं न (ix) तिष्ठति ? किमर्थं मम उपहासं करोति ?” इति उक्त्वा सः वानर: (x) वृक्षम् आरोहत् चटकायाः च नीडम् अनाशयत् । अतः कथ्यते- मूर्खेभ्यः सदुपदेशाः न हिताय ।
खण्ड -‘ग’ : अनुप्रयुक्तव्याकरणम्
प्रश्न 5.
अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत । (केवलं प्रश्नचतुष्टयम्)– (1 × 4 = 4)
(i) केन प्रयुक्तः + अयं पापं चरति पुरुषः ।
उत्तर:
प्रयुक्तोऽयम्
(ii) नैतत् मनुष्येषु प्रयोक्तव्यम् ।
उत्तर:
न + एतत्
(iii) आसीत् प्रच्छन्नभाग्यः कश्चित् कुमारः ।
उत्तर:
कः + चिद्
(iv) पापिनाञ्च सदा दुःखम् ।
उत्तर:
पापिनां + च
(v) अत्र संस्कृत + छात्राः पठन्ति ।
उत्तर:
संस्कृतच्छात्राः
प्रश्न 6.
अधोलिखितवाक्येषु रेखाङ्कितपदानां समस्तपदं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत- (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
(i) सर्वदा शारदा अस्माकं वदनाम्बुजे सन्निधिं कुर्यात् ।
(अ) सर्वेभ्यः ददाति इति
(ब) सर्वं ददाति इति
(स) सर्वै: दीयते
(द) सर्वं आददाति इति
उत्तर:
(ब) सर्व ददाति इति
(ii) युधिष्ठिरार्जुनौ रथारोहणं नाटयतः ।
(अ) युधिष्ठिर: अर्जुनः द्वौ
(ब) युधिष्ठिरः अर्जुनौ च
(स) युधिष्ठिरः च अर्जुन: च
(द) युधिष्ठिरौ अर्जुनौ च
उत्तर:
(स) युधिष्ठिरः च अर्जुन: च
(iii) अरुणाचले अनेकानि पर्यटनाय स्थलानि सन्ति ।
(अ) पर्यटनस्थला:
(ब) पर्यटनस्थलम्
(स) पर्यटनास्थलानि
(द) पर्यटनस्थलानि
उत्तर:
(द) पर्यटनस्थलानि
(iv) सः अपि तत् नेत्रं स्थानम् अनतिक्रम्य अस्थापयत् ।
(अ) यथास्थानम्
(ब) अनुस्थानम्
(स) प्रतिस्थानम्
(द) उपस्थानम्
उत्तर:
(अ) यथास्थानम्
(v) को भेद: पिकस्य च काकस्य च ?
(अ) पिककाकस्य
(ब) पिककाकानाम्
(स) पिककाकयोः
(द) पिककाक
उत्तर:
(स) पिककाकयोः
प्रश्न 7.
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृति – प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत- (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
(i) देहल्याम् अनेकानि ऐतिहासिकानी स्थलानि सन्ति ।
(अ) इतिहास + मतुप्
(ब) इतिहास + ठक्
(स) इतिहास + ङीप्
(द) इतिहास + टाप्
उत्तर:
(ब) इतिहास + ठक्
(ii) अधुना रमणीय + टाप् हि सृष्टिः एषा ।
(अ) रमणी
(ब) रमणीयता
(स) रमणीयः
(द) रमणीया
उत्तर:
(द) रमणीया
(iii) केचन पञ्चत्वं गताः ।
(अ) पञ्च + त्व
(ब) पञ्च + त्वम्
(स) पञ्च + तल्
(द) पञ्च + टाप्
उत्तर:
(अ) पचि + त्व
(iv) विद्वांसः एव लोकेऽस्मिन् चक्षुस् + मतुप् प्रकीर्तिताः ।
(अ) चक्षुस्मन्तः
(ब) चक्षुष्मान्
(स) चक्षुष्मन्तः
(द) चक्षुस्मतुप्
उत्तर:
(स) चक्षुष्मन्तः
(v) व्यवहारे सदा सरल + तल् भवेत् ।
(अ) सरलता
(ब) सरलत्वम्
(स) सरला
(द) सरलतायाः
उत्तर:
(अ) सरलता
प्रश्न 8.
वाच्यानुसारम् उचितपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुनः लिखत – (केवलं प्रश्नत्रयम्) – (1 × 3 = 3)
मञ्जूषा
प्रार्थनाम्, त्वया, अहम्, क्रियते ।
वेदांशी – कपिल ! (i) ……. कस्यां कक्षायां पठ्यते ?
कपिलः- अहम् अष्टमी – कक्षायां पठामि ।
वेदांशी – तव विद्यालये छात्रैः सर्वप्रथमं किं (ii) …….. ?
कपिल :- सर्वप्रथमं छात्रा : (iii) …….. कुर्वन्ति । अधुना त्वया किं क्रियते ?
वेदांशी – अधुना (iv) ……. विडियो -क्रीडां क्रीडामि ।
कपिल :- एतत् उचितं न अस्ति । अधुना परीक्षाकालः अस्ति अतः त्वया पठनीयम् ।
उत्तर:
(i) त्वया
(ii) क्रियते
(iii) प्रार्थनाम्
(iv) अहम्
प्रश्न 9.
कालबोधकशब्दैः अधोलिखित- दिनचर्यां पूरयत – (केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(i) कृषकः जगदीशः प्रातः ………. (7:30) वादने क्षेत्रं गच्छति ।
उत्तर:
सार्ध – सप्तवादने
(ii) तत्र ……… (12:15) वादनपर्यन्तं सः शस्यं सिञ्चति ।
उत्तर:
सपाद- द्वादशवादने
(iii) मध्याह्ने………(1:00) वादने सः विश्रामं करोति ।
उत्तर:
एक वादने
(iv) ……. (2:45) वादने सः पुनः कृषिकार्येषु संलग्नः भवति ।
उत्तर:
पादोन- त्रिवादने
प्रश्न 10.
मञ्जूषायां प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्येषु रिक्तस्थानानि पूरयत – (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
मञ्जूषा
तु, नूनम्, तथा, सहसा, इदानीम्
(i) कदापि …… कार्यं न करणीयम् ॥
उत्तर:
सहसा
(ii) …… विषादं त्यक्त्वा उद्यमः क्रियताम् ।
उत्तर:
इदानीम्
(iii) एष: कलह: ……. भवतां विनाशकारणं भविष्यति ।
उत्तर:
नूनम्
(iv) अवक्रता यथा चित्ते ……… वाचि भवेत् ।
उत्तर:
तथा
(v) अर्थिन: ……… धनलाभमात्रेण सन्तोषं भजन्ते ।
उत्तर:
तु
प्रश्न 11.
अधोलिखितवाक्येषु रेखाङ्कित – अशुद्धपदाय उचितपदं चित्वा वाक्यानि पुनः लिखत- (केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(i) कपयः प्रहस्य अवदत् ।
(अ) अवदत
(ब) अवदताम्
(स) अवदन्
(द) अवदः
उत्तर:
(स) अवदन्
(ii) कीदृश: तव मैत्री ?
(अ) कीदृशं
(ब) कीदृशी
(स) कीदृशी:
(द) कीदृशाः
उत्तर:
(ब) कीदृशी
(iii) त्वं द्रौणे: चपलां प्रकृतिं न जानाति ।
(अ) भवन्तः
(ब) वयम्
(स) भवान्
(द) युवाम्
उत्तर:
(स) भवान्
(iv) श्वः त्वं किं करोषि ?
(अ) करिष्यसि
(ब) अकरोत्
(स) अकरो:
(द) करिष्यति
उत्तर:
(अ) करिष्यसि
खण्ड – ‘घ’ : पठित अवबोधनम्
प्रश्न 12.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत-
कदाचित् दानशालासु विचरन् स राजा बहुधनलाभेन सन्तुष्टानाम् अर्थिनां विरलसंख्यां विलोक्य अचिन्तयत् – मम अर्थिनः तु धनलाभमात्रेण सन्तोषं भजन्ते । राज्ञि एवं विचारयति सति तस्य दानशीलतां परीक्षितुं देवाधिपतिः शक्रः नेत्रहीनयाचकस्य रूपं धारयित्वा तत्पुरतः अवदत् – हे राजन् ! भवतः दानवीरताम् आकर्ण्य आशान्वितः भवत्समीपम् आगतोऽस्मि । देव ! रवि-शशि- -तारा- मण्डलभूषितं जगत् एतत् कथमिव पश्येयं चक्षुर्हीन: !
राजा उवाच- भगवन्! भवन्मनोरथं पूरयित्वा आत्मानम् अनुगृहीतं कर्तुम् इच्छामि । आदिश्यताम्, किं करवाणि ? विप्रः उवाच-यदि भवान् प्रीतः, तदा त्वत्तः एकस्य चक्षुषः दानम् इच्छामि येन मम लोकयात्रा निर्बाधा भवेत् । तत् श्रुत्वा राजा अचिन्तयत्, “लोके चक्षुर्दानं दुष्करमेव” ।
(अ) एकपदेन उत्तरत (केवलं प्रश्नद्वयम्) (1/2 × 2 = 1)
(i) अर्थिनः केन सन्तुष्टाः आसन् ?
उत्तर:
धनलाभमात्रेण
(ii) लोके किम् दुष्करम् अस्ति ?
उत्तर:
चक्षुर्दानम्
(iii) चक्षुषा विप्रस्य का निर्बाधा भवेत् ?
उत्तर:
लोकयात्रा
(आ) पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(i) शक्र: नेत्रहीनयाचकस्य रूपं धारयित्वा राज्ञः पुरतः किमवदत् ?
उत्तर:
शक्र: नेत्रहीनयाचकस्य रूपं धारयित्वा राज्ञः पुरतः अवदत् हे राजन् ! भवतः दानवीरताम् आकर्ण्य आशान्वितः भवत्समीपम् आगतोऽस्मि । देव! रवि-शशि- तारा- मण्डलभूषितं जगत् एतत् कथमिव पश्येयं चक्षुर्हीन: !
(ii) शक्रः किं परीक्षितुम् आगत: ?
उत्तर:
शक्र: राज्ञः दानशीलतां परीक्षितुम् आगतः ।
(iii) विप्रः किमर्थं चक्षुषः दानम् इच्छति स्म ?
उत्तर:
विप्रः स्वलोकयात्रां निर्बाधं कर्तुं चक्षुषः दानम् इच्छति स्म ।
(इ) निर्देशानुसारम् उत्तरत- (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(i) ‘श्रुत्वा’ इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम् ?
उत्तर:
आकर्ण्य
(ii) ‘अर्थिनः’ इत्यस्य क्रियापदं किं प्रयुक्तम् ?
उत्तर:
भजन्ते
(iii) ‘ईदृशं दानम्’ अत्र विशेष्यपदं किम् ?
उत्तर:
दानम्
प्रश्न 13.
अधोलिखितपद्ये पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत-
असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥
कलहान्तानि हर्म्याणि कुवाक्यान्तं च सौहृदम् ।
कुराजान्तानि राष्ट्राणि कुकर्मान्तं यशो नृणाम् ॥
(अ) एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्) (1/2 × 2 = 2)
(i) मनुष्याणां यशः कीदृशः भवति ?
उत्तर:
कुकर्मान्तम्
(ii) कुवाक्यान्तं किं भवति ?
उत्तर:
सौहृदम्
(iii) कलहेन कानि नश्यन्ति ?
उत्तर:
हर्म्याणि
(आ) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(i) मनः कीदृशं भवति ?
उत्तर:
मनः चलं दुर्निग्रहं च अस्ति ।
(ii) मन: कथं गृह्यते ?
उत्तर:
मनः अभ्यासेन वैराग्येण च गृह्यते ।
(iii) कुराजान्तानि कानि भवन्ति ?
उत्तर:
कुराजान्तानि राष्ट्राणि भवन्ति ।
(इ) निर्देशानुसारम् उत्तरत- (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(i) ‘मित्रता’ इत्यस्य किं पर्यायपदं प्रयुक्तम् ?
उत्तर:
सौहृदम्
(ii) ‘चलम’ इत्यस्य विशेष्यपदं चित्वा लिखत ।
उत्तर:
मनः
(iii) अत्र पद्ययोः क्रियापदं किम् अस्ति ?
उत्तर:
गृह्यते
प्रश्न 14.
अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत-
(ततः पुत्रशोकसन्तप्ताः युधिष्ठिरः भीमः द्रौपदी च रणभूमौ प्रविशन्ति ।)
द्रौपदी – (दीर्घं निःश्वस्य) हा हन्त । किम् इदं घोरम् आपतितम् । पापकर्मणा द्रौणिना मे पुत्राः भ्रातरः च हताः। अग्निः इव दहति माम् अयं शोकः ।
युधिष्ठिरः – शुभे ! धैर्यं धारय । नूनं तव पुत्राः वीरगतिम् एव प्राप्ताः । वीरजननी त्वं शोचितुं न अर्हसि ।
द्रौपदी – कथं मन्दभाग्या अहं धैर्यं धारयामि । यावत् असौ क्रूरकर्मा न दण्ड्यते, तावत् अहम् इतः न गमिष्यामि, अत्रैव प्राणत्यागं च करिष्यामि ।
युधिष्ठिरः- प्रिये! मा एवं ब्रूयाः । स पापकर्मा कुत्र गतः इति न जानीमः । अतिदूरं किञ्चिद् दुर्गमवनं प्रविष्टः भवेत् ।
द्रौपदी – (भीमं प्रति) आर्यपुत्र ! क्षत्रधर्मम् अनुस्मरन् मां शोकसागरात् रक्ष । अस्मिन् संसारे कश्चित् अपि त्वया सदृशः पराक्रमी नास्ति। पुरा वारणावते त्वमेव पाण्डवान् रक्षितवान् । विराट – नगरे अपि त्वं मां प्राणसङ्कटात् उद्धृतवान् ।
भीमः – (युधिष्ठिरं प्रति) भ्रातः ! द्रौणिम् अनुगन्तुं मह्यम् अनुमतिं ददातु भवान्।
युधिष्ठिर:- गच्छ वत्स ! विजयी भव, नकुलः तव सारथिः भवतु ।
(भीमसेनः निर्गच्छति, श्रीकृष्ण : अर्जुनेन सह प्रविशति ।)
(अ) एकपदेन उत्तरत (केवलं प्रश्नद्वयम्) (1/2 × 2 = 1)
(i) का आत्मानं मन्दभाग्या इति कथयति ?
उत्तर:
द्रौपदी
(ii) पुरा कुत्र भीमः पाण्डवान् रक्षितवान् ?
उत्तर:
वारणावते
(iii) युधिष्ठिरः भीमः द्रौपदी कुत्र प्रविशन्ति ?
उत्तर:
रणभूमौ
(आ) पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयम्)
(i) द्रौपदी दीर्घं निःश्वस्य किं कथयति ?
उत्तर:
द्रौपदी दीर्घं निःश्वस्य कथयति – हा हन्त । किम् इदं घोरम् आपतितू, पापकर्मणा द्रौणिना मे पुत्राः भ्रातरः च हताः । अग्निः इव दहति माम् अयं शोकः ।
(ii) भीमः कदा पाण्डवान् रक्षितवान् ?
उत्तर:
भीम: वारणावते पाण्डवान् रक्षितवान् ।
(iii) भीमः किमर्थम् अनुमतिम् इच्छति ?
उत्तर:
भीम: द्रौणिम् अनुगन्तुम् अनुमतिम् इच्छति ।
(इ) निर्देशानुसारम् उत्तरत- (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(i) ‘निर्गच्छति’ इत्यस्य किं विपर्यय-पदम् अत्र प्रयुक्तम् ?
उत्तर:
प्रविशति
(ii) ‘श्रीकृष्णः अर्जुनेन सह प्रविशति ।’ अत्र कर्तृपदं किम् प्रयुक्तम् ?
उत्तर:
श्रीकृष्णः
(iii) ‘घोरम् आपतितम्’ अनयोः पदयोः विशेषणपदं किम् ?
उत्तर:
घोरम्
प्रश्न 15.
रेखाङ्कित पदानि आधृत्य प्रश्ननिर्माणं कुरुत (केवलं पञ्चप्रश्नाः) (1 × 5 = 5)
(i) अरुणाचलप्रदेशे पञ्चाशदधिकाः नद्यः प्रवहन्ति ।
उत्तर:
कुत्र पञ्चाशदधिकाः नद्यः प्रवहन्तिं ?
(ii) चपलबालकेभ्यः भीषणानाम् अस्त्राणां प्रदानं न उचितम् ।
उत्तर:
चपलबालकेभ्यः कीदृशाणानाम् अस्त्राणां प्रदानं न उचितम् ?
(iii) मनसः नियन्त्रणं वायोः इव सुदुष्करम् मन्यते।
उत्तर:
मनसः नियन्त्रणं कस्य इव सुदुष्करम् मन्यते ?
(iv) मेष: दाहवेदनया भूमौ लुठति ।
उत्तर:
मेष: दाहवेदनया कुत्र / कस्यां लुठति ?
(v) शिष्यः एकचतुर्थांशं स्वमेधया आदत्ते ।
उत्तर:
शिष्य: एकचतुर्थांशं कया आदत्ते ?
(vi) राजहंसः वर्षर्तौ मानसं पलायते ।
उत्तर:
राजहंसः कदा मानसं पलायते ?
प्रश्न 16.
मञ्जूषातः समुचितपदानि चित्वा अधोलिखित- श्लोकस्य अन्वयं पूरयित्वा पुनः लिखत- (1/2 × 4 = 2)
मञ्जूषा
शीतला, वाणी, न, तथा ।
न तथा शीतलसलिलं न चन्दनरसो न शीतला छाया ।
प्रह्लादयति च पुरुषं यथा मधुरभाषिणी वाणी ॥
अन्वयः – यथा मधुरभाषिणी (i) ……….पुरुषम् प्रह्लादयति (ii) …….. शीतलसलिलम् न चन्दनरसः न (iii) ……. छाया च (iv) …… (प्रह्लादयति) ।
उत्तर:
अन्वयः – यथा मधुरभाषिणी (i) वाणी पुरुषम् प्रह्लादयति (ii) तथा शीतलसलिलम् न चन्दनरसः न (iii) शीतला छाया च (iv) न (प्रह्लादयति) ।
अथवा
मञ्जूषा
सुखमयम्, कुर्यात्, जन:, कदापि ।
मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत- (1/2 × 4 = 2)
य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च ।
न कुर्यादहितं कर्म स परेभ्यः कदापि च ॥
भावार्थ: यदि कश्चित् (i) ………स्वस्य कल्याणं (ii) …….. जीवनम् च इच्छति तर्हि सः (iii) …… परेभ्यः अहितं कर्म न (iv) …..। अर्थात् यथा व्यवहारं सः अन्यैः सह करिष्यति तथा एव अन्ये तेन सह व्यवहरिष्यन्ति ।
उत्तर:
भावार्थे रिक्तस्थानपूर्तिः
यदि कश्चित् (i) जन: स्वस्य कल्याणं (ii) सुखमयम् जीवनम् च इच्छति तर्हि सः (iii) कदापि परेभ्यः अहितं कर्म न (iv) कुर्यात् । अर्थात् यथा व्यवहारं सः अन्यैः सह करिष्यति तथा एव अन्ये तेन सह व्यवहरिष्यन्ति ।
प्रश्न 17.
अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत- (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
(i) शैलानां पारं द्रष्टुं समर्थः भव ।
(अ) नदीनाम्
(ब) वृक्षाणाम्
(स) पर्वतानाम्
(द) मेघानाम्
उत्तर:
(स) पर्वतानाम्
(ii) भवता साधु उक्तम् ।
(अ) संन्यासी
(ब) शुद्धम्
(स) अनुचितम्
(द) सम्यक्
उत्तर:
(द) सम्यक्
(iii) सर्वदा शारदा अस्माकं वदने सन्निधिं क्रियात् ।
(अ) गृहे
(ब) वने
(स) मुखे
(द) सर्वत्र
उत्तर:
(स) मुखे
(iv) यूथप: रहसि अवदत् ।
(अ) रहस्यम्
(ब) एकान्ते
(स) उच्चैः
(द) मनसि
उत्तर:
(ब) एकान्ते
(v) स विवेक : इति ईरितः ।
(अ) कथितः
(ब) श्रुतः
(स) लिखित:
(द) दृष्टः
उत्तर:
(अ) कथितः
प्रश्न 18.
मञ्जूषाप्रदत्तपदानां सहायतया रिक्तस्थानानि पूरयित्वा अधोलिखित कथाम् उत्तरपुस्तिकायां लिखत- (1/2 × 8 = 4)
मञ्जूषा
मृताः, मेषः, वानराः, बालवाहनयोग्यम्, मदोद्धताः, वयम्, वानराणाम्, महानसम् ।
चन्द्रनामकस्य राजपुत्राः राजगृहे वानरान् पालयन्ति स्म । तस्मिन् राजगृहे (i) ……. एकं मेषयूथम् अपि आसीत्। तेषु एकः उद्दण्डः मेष: अहर्निशं (ii) …… प्रविश्य यत् पश्यति स्म तत् खादति स्म । अतः तेन सह सूपकाराणां कलहः भवति स्म । मेषस्य सूपकाराणां च कलहं दृष्ट्वा वानराणां बुद्धिमान् यूथपतिः तान् अवदत् – एतेषां कलहो वानराणां विनाशकारणं भविष्यति अतः (iii) ….. राजभवनं त्यक्तवा वनं गच्छाम । किन्तु (iv) …… वानराः तस्य वचनम् अश्रद्धेयं मत्वा वनं न अगच्छन् । एकदा सः उद्दण्डः (v) …… सूपकारैः ज्वलितकाष्ठेन ताडितः । ऊर्णाप्रचुर : मेष : जाज्वल्यमानशरीर: निकटस्थाम् अश्वशालां प्राविशत् । तेन अश्वशालायाम् अपि अग्निज्वालाः समुत्थिताः । अतः केचित् अश्वाः दग्धा: केचित् च (vi) …… । राजवैद्यः नृपम् अवदत् यत् अश्वानां वह्निदाहसमुद्भवः दोष: (vii) ……. मेदसा नाशमभ्येति। राजा आदिशत् – यथोचितं क्रियताम् । राजादेशं श्रुत्वा भयत्रस्ताः (viii) ….. .अचिन्तयन्-अवधीरिताः अस्माभिः गुरुजनोपदेशाः ।
उत्तर:
चन्द्रनामकस्य राजपुत्राः राजगृहे वानरान् पालयन्ति स्म । तस्मिन् राजगृहे (i) बालवाहन-योग्यम् एकं मेषयूथम् अपि आसीत् तेषु एकः उद्दण्डः मेष: अहर्निशं (ii) महानसम् प्रविश्य यत् पश्यति स्म तत् खादति स्म । अतः तेन सह सूपकाराणां कलहः भवति स्म । मेषस्य सूपकाराणां च कलहं दृष्ट्वा वानराणां बुद्धिमान् यूथपतिः तान् अवदत् – एतेषां कलहो वानराणां विनाशकारणं भविष्यति अत : (iii) वयम् राजभवनं त्यक्त्वा वनं गच्छाम । किन्तु (iv) मदोद्धताः वानराः तस्य वचनम् अश्रद्धेयं मत्वा वनं न अगच्छन् । एकदा सः उद्दण्डः (v) मेषः सूपकारैः ज्वलितकाष्ठेन ताडितः । ऊर्णाप्रचुर : मेष : जाज्वल्यमानशरीर: निकटस्थाम् अश्वशालां प्राविशत् । तेन अश्वशालायाम् अपि अग्निज्वालाः समुत्थिताः । अतः केचित् अश्वा: दग्धा: केचित् च (vi) मृताः । राजवैद्य : नृपम् अवदत् यत् अश्वानां वह्निदाहसमुद्भवः दोष: (vii) वानराणाम् मेदसा नाशमभ्येति । राजा आदिशत्- यथोचितं क्रियताम् । राजादेशं श्रुत्वा भयत्रस्ताः (viii) वानराः अचिन्तयन्-अवधीरिताः अस्माभिः गुरुजनोपदेशाः ।
The post CBSE Sample Papers for Class 10 Sanskrit Communicative Set 1 with Solutions appeared first on Learn CBSE.