Students must start practicing the questions from CBSE Sample Papers for Class 10 Sanskrit Communicative with Solutions Set 3 are designed as per the revised syllabus.
CBSE Sample Papers for Class 10 Sanskrit Communicative Set 3 with Solutions
समय: 3 होराः
पूर्णांका: 80
सामान्यनिर्देशाः
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 18 प्रश्नाः सन्ति ।
- अस्मिन् प्रश्नपत्रे चत्वारः खण्डा सन्ति ।
- प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि ।
- उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्क अवश्यं लेखनीयः ।
- प्रश्नस्य क्रमाङ्क प्रश्नपत्रानुसारम् अवश्यमेव लेखनीयः ।
- सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि ।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः ।
प्रश्नपत्रस्वरूपम् –
- ‘क’ खण्डः : अपठितावबोधनम् 10 अङ्काः
- ‘ख’ खण्ड: : रचनात्मककार्यम् 15 अङ्काः
- ‘ग’ खण्ड: : अनुप्रयुक्तव्याकरणम् 25 अङ्काः
- ‘घ’ खण्डः : पठितावबोधनम् 30 अङ्काः
खण्ड – ‘क’ : अपठितावबोधनम् (10 अङ्काः)
प्रश्न 1.
अधोलिखितं गद्याशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृतेन लिखत-
दीपावलिः प्राचीनतमं पर्व । अस्मिन् दिने सर्वाधिकम् आकर्षकं मनोरञ्जनं भवति स्फोटकानाम् आस्फोटनम् । विचित्राणि वर्णयुक्तानि स्फोटकानि आकाशे भूमौ च विविध रूपाणि दर्शयन्ति । जनाः तानि दृष्ट्वा तुष्यन्ति । परन्तु अति सर्वत्र वर्जयेत् । रात्रौ आस्फोटकानां शब्दः कर्णौ बधिरीकरोति वायुमण्डलं च दूषयति । पूर्वं तु जनसंख्यासीमिता आसीत् । वृक्षाः वायुं शुद्धं कुर्वन्ति स्म । इदानीम् जनसंख्या प्रवृद्धाः, वृक्षसंख्याक्षीणा । विस्फोटकेभ्यः निर्गत: धूमः रुग्णान् पीडयति, नवजातशिशुभ्यः हानिकरः सिध्यति । दीपावलि समये शरदि आकाशः निर्मलः भवति । सर्वत्र पवित्रता विराजते । अतः वयम् आनन्देन दीपावलिम् मानयेम, वसुन्धरां भूषितां कुर्यामन तुदूषिताम् । सर्वेषां जीवनं सुखमयं भवेत् । किं तेन उत्सवेन यः कस्मैंश्चित् अपि कष्टकरः भवेत् ? मा कश्चिद् दुःखभाग् भवेत् इति अस्माकम् आदर्शः ।
प्रश्ना:
(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम् )
(i) केषाम् आस्फोटनम् सर्वेभ्यः आकर्षकम् मनोरञ्जकम् च ?
उत्तर:
स्फोटकानाम्
(ii) दीपावलिः कस्मिन् ऋतौ भवति ?
उत्तर:
शरदि
(iii) मा कश्चिद् दुःखभाग् भवेत् इति केषाम् आदर्श: ?
उत्तर:
अस्माकं
(आ) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) (2 × 2 = 4)
(i) अस्माकं कः आदर्श: ?
उत्तर:
‘मा कश्चिद् दुःखभाग् भवेत्’ इति अस्माकम् आदर्शः ।
(ii) स्फोटकानां धूमः कान् पीडयति ?
उत्तर:
स्फोटकानां धूमः रुग्णान् पीडयति ।
(iii) वयम् केन दीपावलि मानयेम ?
उत्तर:
वयं आनन्देन दीपावलिम् मानयेम् वसुन्धरां भूषितां कुर्याम न तु दूषितम् ।
(इ) अस्य अनुच्छेदस्य कृते एकं समुचितं शीर्षकं लिखत । (1 × 1 = 1)
उत्तर:
शीर्षकं – दीपावलिः स्फोटकानि च / दीपावली पर्वं ।
(ई) प्रदत्तविकल्पेभ्यः उचितम् उत्तरम् निर्देशानुसारं चित्वा लिखत – (केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(i) ‘प्रवृद्धा’ इत्यस्य किं विलोमपदम् अत्र प्रयुक्तम् ?
(अ) हानिकारः
(ब) वसुन्धरा
(स) पवित्रता
(द) क्षीणा
उत्तर:
(द) क्षीणा
(ii) ‘सर्वत्र पवित्रता विराजते’ अत्र किं कर्तृपदम् ?
(अ) पवित्रता
(ब) सर्वत्र
(स) आकर्षकम्
(द) निर्मल:
उत्तर:
(अ) पवित्रता
(iii) ‘पर्व’ इत्यस्य किं विशेषणम् अत्र प्रयुक्तम् ?
(अ) दीपावलिः
(ब) प्राचीनतमम्
(स) आकर्षकम्
(द) मनोरञ्जनम्
उत्तर:
(ब) प्राचीनतमम्
(iv) ‘पृथिवीम्’ इत्यस्य किं पर्यायपदं प्रयुक्तम् ?
(अ) वसुन्धरां
(ब) भूषिताम्
(स) धूमः
(द) वायुमण्डलं
उत्तर:
(अ) वसुन्धराम्
खण्ड-‘ख’ : रचनात्मकं कार्यम्
प्रश्न 2.
भवान् मनोजः । भवतः विद्यालये डॉ. ए. पी. जे. अब्दुलकलाम महाभागस्य शुभागमनम् अभवत् । अतः भवान् अस्मिन् विषये मित्रं राघवं प्रति पत्रं लिखति । अस्मिन् पत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तशब्दैः पूरयित्वा पत्रं पुनः लिखत- (1/2 × 10 = 5)
चन्द्रलोकः
मञ्जूषा
दिल्लीनगरतः, अवसरः, कामये, शुभागमनम्, उत्साहिताः, वैज्ञानिकः, प्रेरितवान्, मित्रम्, अकरोत्, शीघ्रम्
(i)
तिथि : …….
प्रिय मित्र राघव !
सुमधुराः स्मृतयः ।
अत्र कुशलं तत्रापि कुशलं (ii) । मित्र! मम विद्यालये गत सोमवासरे डॉ. ए. पी. जे. अब्दुलकलाम महाभागस्य (iii) अभवत्। सर्वे छात्राः शिक्षकाः च अति (iv) आसन्। सः सर्वान् छात्रान् जीवनस्य लक्ष्यं निर्धारयितुं परिश्रमेण च तं प्राप्तुं (v) । सः अनेकानां वैज्ञानिकानाम् उदाहरणम् अपि प्रस्तुतम् (vi) । तस्य भाषणं श्रुत्वा सर्वे अतीव प्रभाविताः अभवन्। मम कृते अयम् एकः स्वर्णिम: (vii) आसीत् । अहम् अपि एकः (viii) भवितुम् इच्छामि। मित्र! त्वया मम प्रणामाः मातृपितृभ्यां निवेदनीयाः पत्रोत्तरं च (ix) अपेक्षितम्।
तव अभिन्नं
(x)
मनोज:
उत्तर:
चन्द्रलोकः
दिल्लीनगरतः
तिथि : ………
प्रिय मित्र राघव !
सुमधुराः स्मृतयः ।
अत्र कुशलं तत्रापि कुशलं कामये । मित्र ! मम विद्यालये गत सोमवासरे डॉ. ए.पी.जे. अब्दुलकलाम महाभागस्य शुभागमनम् अभवत्। सर्वे छात्राः शिक्षकाः च अति उत्साहिताः आसन् । सः सर्वान् छात्रान् जीवनस्य लक्ष्यं निर्धारयितुं परिश्रमेण च तं प्राप्तुं प्रेरितवान् । सः अनेकानां वैज्ञानिकानाम् उदाहरणम् अपि प्रस्तुतम् अकरोत् । तस्य भाषणं श्रुत्वा सर्वे अतीव प्रभाविताः अभवन्। मम कृते अयम् एकः स्वर्णिम : अवसरः आसीत्। अहम् अपि एक: वैज्ञानिकः भवितुम् इच्छामि । मित्र ! त्वया मम प्रणामाः मातृपितृभ्यां निवेदनीयाः पत्रोत्तरं च शीघ्रम्, अपेक्षितम्।
तव अभिन्नं
मित्रम्
मनोज:
प्रश्न 3.
मञ्जूषायां प्रदत्तशब्दानां सहायतया चित्रं दृष्ट्वा पञ्चवाक्यानि संस्कृतेन लिखत ।
मञ्जूषा
ग्रामीणजनाः कष्टेन, गावः, स्वच्छं, नयति, जीवन्ति, वातावरणं, परिश्रमेण, पादाभ्यां शकटम्, चलन्ति, उटजाः, सन्ति, घटं शिरसि
उत्तर:
चित्रवर्णनम् –
(i) इदम् चित्रम् ग्राम्यजीवनस्य अस्ति ।
(ii) अस्मिन् चित्रे अनेके उटजाः सन्ति ।
(iii) ग्रामीणजनाः परिश्रमेणं कार्येषु सफलतां प्राप्नुवन्ति ।
(iv) एषा महिला शिरसि घटं नयति ।
(v) ग्रामस्य वातावरणं स्वच्छं भवति ।
अथवा
मञ्जूषा
सुन्दरं भवनम्, विविधविषयाणाम्, अनेकानि पुस्तकानि क्रमेण, पुस्तकालयकक्षः, ज्ञानवर्धकानि, विषयसम्बद्धानि, मनोरञ्जकानि, विविधाः, पालिका:, आसन्दिकाः, उपविशन्ति जनाः, शान्त्या
‘अस्माकं पुस्तकालयः’ इति विषयम् अधिकृत्य मञ्जूषापदानां सहायतया संस्कृतेन पञ्चवाक्यानि लिखत । (1 × 5 = 5)
उत्तर:
अनुच्छेद लेखनम्-
(i) मम विद्यालये एक : विशाल: पुस्तकालयकक्षः अस्ति ।
(ii) पुस्तकालये अनेकानि पुस्तकानि सन्ति ।
(iii) अत्र जना: आसन्दिकासु उपविशन्ति ।
(iv) पुस्तकालये ज्ञानवधकानि, मनोरञ्जकानि, विविधानि च पुस्तकानि सन्ति ।
(v) पुस्तकालयस्य सुन्दरं भवनं दर्शनीयं अस्ति ।
प्रश्न 4.
अधोलिखितसंवादे रिक्तस्थानानि पूरयित्वा संवादं पुनः लिखत- (1/2 × 10 = 5)
मञ्जूषा
धन्यवादा:, उदरेपीड़ा, किंकटुः, कतिवारं ग्रहीतव्यम्, आपणे आलुकस्य पिष्टिकाः खादिताः, औषधि कृते, पुनः कदा आगन्तव्यम्, आरोग्यं परमं सुखम्, उष्णजलेन, स्वास्थ्यंप्रति
वैद्यः – आगच्छ पुत्रि । किं जातम् ? ज्वरः अस्ति किम् ?
सूनृता: – महोदय । (i) ……… वर्तते ।
वैद्यः – एवम्। ज्वरः न अस्ति। उदरे पीडा वर्तते । ह्यः किं भक्षितम् ?
सूनृता: – (ii) ……..
वैद्यः – अहो ! आपणे आलुकस्य पिष्टिकाः खादिताः किं न जानासि ? वर्षर्ती आपणे खाद्यवस्तूनि न खादितव्यानि । एतत् चूर्णं स्वीकरोतु ।
सूनृता: – (iii) ……. अस्ति ?
वैद्यः – अरे, नहि । कटु न अस्ति । पुनरपि (iv) ……. स्वादः न गणनीयः ।
सूनृता: – (v) ……..?
वैद्यः – दिने त्रिवारम् एकचमसमात्रम (vi) …… ग्रहीतव्यम् ।
सूनृता: – (vii) ……..?
वैद्यः – पुनः आगमनस्य आवश्यकता एव न भविष्यति । (viii) …….. भविष्ये सावधाना भव । (ix) ….. ।
सूनृता: – (x) ……..। प्रणमामि ।
उत्तर:
संवादपूर्तिः
वैद्यः – आगच्छ पुत्रि । किं जातम् ? ज्वरः अस्ति किम् ?
सूनृता: – महोदय । उदरे पीड़ा वर्तते ।
वैद्यः – एवम्। ज्वरः न अस्ति । उदरे पीडा वर्तते । यः किं भक्षितम् ?
सूनृता: – आपणे आलुकस्य पिष्टिकाः खादिताः ।
वैद्य: – अहो! आपणे आलुकस्य पिष्टिकाः खादिता: किं न जानासि ? वर्षर्तो आपणे खाद्यवस्तूनि न खादितव्यानि । एतत् चूर्णं स्वीकरोतु ।
सूनृता: – किं कटुः अस्ति ?
वैद्यः – अरे, नहि । कटु न अस्ति । पुनरपि औषधिकृते स्वादः न गणनीयः।
सूनृता: – कतिवारं ग्रहीतव्यम् ?
वैद्यः – दिने त्रिवारम् एकचमसमात्रम उष्णजलेन ग्रहीतव्यम् ।
सूनृता: – पुनः कदा आगन्तव्यम् ?
वैद्यः – पुनः आगमनस्य आवश्यकता एव न भविष्यति । स्वास्थ्यप्रति भविष्ये सावधाना भव । आरोग्यं परमं सुखम् ।
सूनृता: – धन्यवादाः। प्रणमामि ।
अथवा
एकः संस्कृताध्यापकः छात्रान् ‘वर्तमान युगे संस्कृताध्ययनस्य महत्त्व’ विषये कथयति । तस्य कथनं मञ्जूषातः शब्दान् विचित्य पूरचित्वा पुनः लिखत- (1/2 × 10 = 5)
मञ्जूषा
सर्वप्राणि-कल्याण-कामना, दुःखभाग्, जायन्ते, सर्वे, शिष्टता, ईदृशी, भद्राणि, स्वार्थान्धता, परमावश्यकम्, जायमाना ।
वर्तमान युगे न केवलं भारतेऽपितु संपूर्णेऽपि विश्वस्मिन् सहिष्णुता – उदारता- दयालुता – सद्भावनादिभावा: विलुप्ताः इव प्रतीयन्ते । मानवाः मानवीय गुण विरहिता: (i) ……।
संस्कृत-भाषैव (ii) …….. भाषा यस्याः साहित्ये सुव्यवस्थित – आचारपद्धति: त्यागौदार्यदयापूर्णा विचारसरणि: (iii) …… च विद्यते यथोक्तम्–
सर्वे भवन्तु सुखिन: (iv) ……. सन्तु निरामयाः ।
सर्वे (v) …… पश्यन्तु मा कश्चिद् (vi) …… भवेत्॥
संस्कृताध्ययनेन न केवलं पारस्परिकविद्वेषः एव विनश्यति अपितु (vii) ……. प्राबल्यात् (viii) …. क्षीयते । संतोष – वृत्तेः
अभ्युदयात् धनलिप्सा । अथ तत्कारणात् (ix) ……… हिंसापि दूरमेति ।
कंप्यूटर विशेषज्ञमते संस्कृतम् एव कंप्यूटर – यन्त्रे सर्वोपयोगिनी भाषा अस्ति । अतः वैज्ञानिकेऽस्मिन् युगे, हिंसाविनाशाय, आचार-संरक्षणाय, सौहार्द – वृद्धयै राष्ट्रीयैकतायै च संस्कृत भाषायाः अध्ययनम् (x) …… इति ।
उत्तर:
वर्तमान युगे न केवलं भारतेऽपितु संपूर्णेऽपि विश्वस्मिन् सहिष्णुता – उदारता- दयालुता – सद्भावनादिभावा: विलुप्ताः इव प्रतीयन्ते । मानवाः मानवीय गुण विरहिता: जायन्ते । संस्कृत भाषैव ईदृशी भाषा यस्याः साहित्ये सुव्यवस्थित- आचारपद्धतिः त्यागौदार्यदयापूर्णा विचारसरणिः सर्वप्राणि कल्याण-कामना च विद्यते यथोक्तम्-
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग् भवेत् ॥
संस्कृताध्ययनेन न केवलं पारस्परिकविद्वेषः एव विनश्यति अपितु शिष्टता प्राबल्यात् स्वार्थान्धता क्षीयते । संतोष – वृत्तेः अभ्युदयात् धनलिप्सा । अथ तत्कारणात् जायमाना हिंसापि दूरमेति ।
कंप्यूटर विशेषज्ञमते संस्कृतम् एव कंप्यूटर – यन्त्रे सर्वोपयोगिनी भाषा अस्ति । अतः वैज्ञानिकेऽस्मिन् युगे, हिंसाविनाशाय, आचार-संरक्षणाय, सौहार्द – वृद्धयै राष्ट्रीयैकतायै च संस्कृत-भाषायाः अध्ययनम् परमावश्यकम् इति ।
खण्ड-‘ग’ : अनुप्रयुक्तव्याकरणम्
प्रश्न 5.
अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं संधिविच्छेदं वा कुरुत । (केवलं प्रश्नचतुष्टयम्)
(i) एतयोः जननी तेनावमानिता ।
उत्तर:
एतयोर्जननी
(ii) अद्य + एव अहं तत्र गमिष्यामि ।
उत्तर:
अद्यैव
(iii) अस्य नाटकस्य नै+ अक: कः अस्ति ?
उत्तर:
नायक:
(iv) मेघं दृष्ट्वा मयूरो नृत्यति ।
उत्तर:
मयूर: + नृत्यति
(v) गजधरः शब्दोऽयम् केषुचिद्भागेषु अधापि प्रचलित ।
उत्तर:
शब्द + अयम्
प्रश्न 6.
अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत । (केवलं प्रश्नचतुष्टयम्)
(i) गुरोः वचनम् अश्रद्धेयं मत्वा कपयः प्राहसन् । (1 × 4 = 4)
(अ) अति श्रद्धेयम्
(ब) अदेयम्
(स) न श्रद्धेयम्
(द) अध्येयम्
उत्तर:
(स) न श्रद्धेयम्
(ii) सरोवरे सरोज: विकसिति ।
(अ) सरस जायते
(ब) सरसि जायते इति
(स) सरसिजं इति
(द) सरसि निर्माति
उत्तर:
(ब) सरसि जायते इति
(iii) एतद् आचरणं साधुजनस्य रूपस्य योग्यं नास्ति ।
(अ) रूपयोग्यं
(ब) रूपस्य निकटे
(स) अनुरूपम्
(द) रूपः योग्यं
उत्तर:
(स) अनुरूपम्
(iv) माता-पितरौ प्रणम्य परीक्षाभवनं गच्छ ।
(अ) माता च पितरौ च
(ब) माता च पिता च
(स) मातरौ च पितरौ च
(द) मातश्च पिताश्च
उत्तर:
(ब) माता च पिता च
(v) वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति ।
(अ) वृक्ष उपरि
(ब) वृक्षस्य उपरि
(स) वृक्षे उपरि
(द) वृक्षं उपरि
उत्तर:
(ब) वृक्षस्य उपरि ।
प्रश्न 7.
अधोलिखितवाक्येषु रेखाङ्कितपदेषु प्रकृति प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरम् विकल्पेभ्यः चित्वा लिखत ।
(केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
(i) सूर्यस्य उष्ण + त्व तीप्रतं भवति ।
(अ) उष्णत्व
(ब) उष्णता
(स) उष्णत्वा
(द) उष्णत्वम्
उत्तर:
(द) उष्णत्वं
(ii) वाल्मीकेः कालात् लोक + ठक् संस्कृतं प्रारब्धम्।
(अ) लौकिक:
(ब) लौकिकम्
(स) लौकिकी
(द) लौकिक
उत्तर:
(ब) लौकिकम्
(iii) एषा बाला श्रेष्ठा गायक + टाप् अस्ति ।
(अ) गायका
(ब) गायिका
(स) गायकी
(द) गायिकी
उत्तर:
(ब) गायिका
(iv) सैनिका: बल + मतुप् सन्ति ।
(अ) बलवान्
(ब) बलवन्तः
(स) बलवत्
(द) बलमान्
उत्तर:
(ब) बलवन्त:
(v) कुलवस्त्रता शुभ्रतया विराजते ।
(अ) शुभ्रता + हान्
(स) शुभ्र + शत्
(ब) शुभ्र + तल्
(द) शुभ्र + तया
उत्तर:
(ब) शुभ्र + तल् ।
प्रश्न 8.
चेटी वसन्तसेना च वार्तालापं कुरुत: । चेटी कर्तृवाच्ये वसन्तसेना कर्मवाच्ये वदति । वाच्यानुसारं रिक्तस्थानानि पूरयत। (केवलं प्रश्नत्रयम्) (1 × 3 = 3)
मञ्जूषा
अस्ति, गम्यते, मया, भवती
(i) चेटी- वसन्तसेने ! गच्छतु …… (i) …….।
उत्तर:
चेटी–वसन्तसेने! गच्छतु भवती ।
(ii) वसन्तसेना – कुत्र ……. (ii) …… गन्तव्यम् ?
उत्तर:
वसन्तसेना – कुत्र मया गन्तव्यम् ?
(iii) चेटी- यत्र चारुदत्तः ….. (iii) ……।
उत्तर:
चेटी – यत्र चारुदत्तः अस्ति ।
(iv) वसन्तसेना – चेटीमया अपि तत्र ……. (iv) …… ।
उत्तर:
वसन्तसेना – चेटी ! मया अपि तत्र गम्यते ।
प्रश्न 9.
भित्तौ भोजनालयस्य समय सारिणी लिखिता । अङ्कानां स्थाने संस्कृतपदैः समयं लिखत । (केवलं प्रश्नत्रयम्)
(i) प्रात: (6:00) …….. वादने भोजनालय उद्घाटयते ।
उत्तर:
षट्
(ii) मध्याह्ने (12:30) ……. वादने सूपकारैः भोजनं पच्यते ।
उत्तर:
(ब) सार्द्धद्वादश
(iii) सायं (5:15) ……. वादने जना: चायपानं कुर्वन्ति ।
उत्तर:
सपादपञ्च
(iv) रात्रौ (7:45) ……. ‘वादने जना: भोजनाय आगच्छन्ति ।
उत्तर:
पादोनअष्ट ।
प्रश्न 10.
मञ्जूषायाः उचितम् अव्ययपदं चित्वा वाक्येषु रिक्तस्थानानि पूरयत। (केवलं प्रश्नचतुष्टयम्) (1 × 4 = 4)
मञ्जूषा
अधुना, वृथा, अपि, पुरा, कुतः
(i) ……. छात्राः गुरुणाम् अत्यधिकं सम्मानं कुर्वन्ति स्म ।
उत्तर:
पुरा
(ii) कमला …… शोभना बालिका अस्ति ।
उत्तर:
अपि
(iii) ……. जना: अनुशासिताः न सन्ति ।
उत्तर:
अधुना
(iv) बालकेन …….. न वदनीयम् ।
उत्तर:
वृथा
(v) पुष्प: बिना उपवनस्य शोभा …….. ?
उत्तर:
कुतः ।
प्रश्न 11.
अधोलिखितवाक्येषु रेखांकितपदस्य शुद्धम् उत्तरं प्रदत्त विकल्पेभ्यः चित्वा वाक्यं पुनः उत्तरपुस्तिकायां लिखत । (केवलं प्रश्नत्रयम्)
(i) नद्यां जल: नास्ति ।
(अ) जले
(ब) जलस्य
(स) जलम्
(द) जलाय
उत्तर:
नद्यां (स) जलम् नास्ति ।
(ii) श्यामः तव मित्रः अस्ति ।
(अ) मित्रान्
(ब) मित्रेण
(स) मित्रस्य
(द) मित्रम्
उत्तर:
श्यामः तव (द) मित्रम् अस्ति ।
(iii) अहं गीतां पठिष्यामः ।
(अ) पठिष्यामि
(ब) पठिष्यति
(स) पठिष्यावः
(द) पठिष्यथ
उत्तर:
अहं गीतां (अ) पठिष्यामि ।
(iv) ते अत्र भोजनम् अकुर्वः ।
(अ) अकरोत्
(ब) अकरो:
(स) अकुर्वन्
(द) अकुरुताम्
उत्तर:
ते अत्र भोजनम् (स) अकुर्वन् ।
खण्ड -‘घ’ : पठितावबोधनम् (30 अङ्काः)
प्रश्न 12.
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नान् संस्कृतेन उत्तरत । (5)
अथ व्रजन्तौ तौ गर्तसंकुले मार्गे क्रीडतः कांश्चित् बालकान् प्रेक्ष्य अवदताम् – भो भो बालकाः ! कथमत्र नतोन्नते विषमे मार्गे क्रीडथ ? यदि कश्चिद् गर्ते पतेत् तर्हि स विकलाङ्गो भूत्वा चिरं क्लेशम् अनुभवेत्। तच्छ्रुत्वा तेषु उद्दण्डः बालकः उवाच— अयि भो! यद्येवं तर्हि कथं भवन्तौ सुपथं परित्यज्य अनेन कुपथेन गन्तुं प्रवृत्तौ ? अपि इदम् श्रेयस्करम् ? अनेन वचसा प्रतिहतान्तःकरणः प्रच्छन्नभाग्यः अचिन्तयत्—- किम् इदं वचनं विशेषेण माम् एव लक्ष्यीकरोति ? अहो ! कुमार्गम् आश्रितस्य मम कीदृशी इयं क्लेशपरम्परा। गुरूपदेशेन इव अनेन बालवचसा मम चक्षुषी समुन्मीलिते। अद्यप्रभृति पापपथं त्यजामि इति विचिन्त्य मित्रं दुष्टबुद्धिम् अवदत् ‘सखे ! यदि माम् मित्रस्थाने परिगणयसि, तर्हि साधुजनगर्हितम् इमं पन्थानं त्यजतु भवान् ।’
प्रश्ना:
(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (1/2 × 2 = 1)
(i) बालवचसा केन इव प्रच्छन्नभाग्यस्य चक्षुषी उन्मीलिते ?
उत्तर:
गुरूपदेशेन
(ii) कीदृशः बालकान् प्रेक्ष्य अवदताम् ?
उत्तर:
क्रीडत:
(iii) कीदृश: प्रच्छन्न भाग्यः अवदत् ?
उत्तर:
प्रतिहतान्त: करणः
(आ) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्)
(i) कम् आश्रित्य क्लेशपरम्परा भवति ?
उत्तर:
कुमार्गम् आश्रित्य क्लेशपरम्परा भवति ।
(ii) तौ बालकान् प्रेक्ष्य किम् अवदताम् ?
उत्तर:
तौ बालकान् प्रेक्ष्य अवदताम् – भो – भो बालकः ! कथमत्र नतोन्नते विषमे मार्गे क्रीडथ ? यदि कश्चिद् गर्ते पतेत तर्हि सः विकलाङ्गो भूत्वा चिरं क्लेशं अनुभवेत् ।
(iii) सः दुष्टबुद्धिं किम् अवदत् ?
उत्तर:
सः दुष्टबुद्धिम् अवदत् – सखे! यदि मां मित्र स्थाने परिगणयसि, तर्हि साधुजनगर्हितम् इमम् पन्थानं त्यजतु भवान्।
(इ) निर्देशानुसारम् उत्तरत। (केवलं प्रश्नद्वयम्)
(i) ‘त्यजतु’ इति क्रियापदस्य कर्तृपदं किं प्रयुक्तम् ?
उत्तर:
भवान्
(ii) ‘दृष्टवा’ शब्दस्य पर्यायपदं किं प्रयुक्तम् ?
उत्तर:
प्रेक्ष्य
(iii) ‘विषमे मार्गे’ इति अनयोः पदयोः विशेष्यः पदम् किम् ?
उत्तर:
मार्गे
प्रश्न 13.
अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत ।
ध्यायतः विषयान् पुंसः संगस्तेषूपजायते ।
सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते । ।
प्रश्नाः
(अ) एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्) (1⁄2 × 2 = 1)
(i) नरः कान् ध्यायति ?
उत्तर:
विषयान्
(ii) पुंसः विषयेषु कः जायते ?
उत्तर:
संग:
(iii) कामः कम् जनयति ?
उत्तर:
क्रोधं
(आ) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)
(i) कामः क्रोधः च कस्मात् अभिजायते ?
उत्तर:
कामः सङ्गात् सञ्जायते कामात् च क्रोधोऽभिजायते ।
(ii) विषयेषु नरस्य सङ्गः कदा जायते ?
उत्तर:
विषयान् ध्यायतः नरस्य तेषु सङ्गः जायते।
(iii) कः एव क्रोधं जनयति ?
उत्तर:
कामः एव क्रोधं जनयति ।
(इ) निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत- (केवलं प्रश्नद्वय) (1 × 2 = 2)
(i) ‘विषयान्’ इति विशेष्यस्य किं विशेषणपदम् अत्र श्लोके प्रयुक्तम् ?
उत्तर:
ध्यायतः
(ii) ‘वैराग्यः’ इत्यस्य कः विपर्ययः श्लोके प्रयुक्तः ?
उत्तर:
संग:
(iii) ‘नरः विषयान् ध्यायति’ इत्र किं क्रियापदं प्रयुक्तं ?
उत्तर:
ध्यायति
प्रश्न 14.
अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत ।
याचक – हे राजन्! भवतः दानवीरताम् आकर्ण्य आशान्वितः भवत्समीपम् आगतोऽस्मि । रवि-शशि- तारा मण्डलभूषितं जगत् एतत् कथमिव पश्येयम् – चक्षुर्हीनः ।
राजा – भगवन्! भवन्मनोरथं पूरयित्वा आत्मानम् अनुगृहीतं कर्तुम् इच्छामि । आदिश्यताम् किं करवाणि ?
विप्रः – यदि भवान् प्रीतः, तदा त्वत्तः एकस्य चक्षुषः दानमिच्छामि अनेन मम लोकयात्रा निर्बाधा भवेत् ।
राजा – “लोके चक्षुर्दानं दुष्करमेव । नूनम् इदृशं दानम् इच्छन् अयं याचकः केनापि प्रेरितः स्यात् ।
प्रश्ना:
(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम् )
(i) लोके कीदृशं दानम् अतिकठिनं भवति ?
उत्तर:
चक्षुर्दानम्
(ii) विप्रः कस्य दानवीरतां श्रुत्वा आगत: ?
उत्तर:
राज्ञ:
(iii) आत्मनः अनुग्रहीतं कः कर्तुम् इच्छति ?
उत्तर:
राज्य
(आ) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)
(i) विप्रः किमर्थं चक्षुषः दानम् इच्छति ?
उत्तर:
येन तस्य लोकयात्रा निर्बाधा भवेत् अतः विप्रः चक्षुषः दानम् इच्छति ।
(ii) जगत् कथम् आसीत् ?
उत्तर:
जगत् रवि – राशि – तारा मण्डल भूषितम् आसीत् ।
(iii) राजा किम् उवाच ?
उत्तर:
राजाउवाच-भव-मनोरथं पूरयित्वा आत्मनम् अनुग्रहीतं कर्तुम् इच्छामि ।
(इ) निर्देशानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत – (केवल प्रश्नद्वयम्) (1 × 2 = 2)
(i) ‘पश्येयम्’ इति क्रियापदस्य कर्तृपदं किम् ?
उत्तर:
अहम्
(ii) ‘मम लोकयात्रा निर्वाधाभवेत्’ अत्र किं क्रियापदं प्रयुक्त ?
उत्तर:
भवेत्
(iii) ‘लोके चक्षुर्दानं दुष्करमेवं’ अत्र किं विशेषणपदं प्रयुक्त ?
उत्तर:
दुष्करं
प्रश्न 15.
रेखाङ्कित पदानि आधृत्य प्रश्ननिर्माणं कुरुत – (केवल पञ्चप्रश्नाः) (1 × 5 = 5)
(i) अहमेव सुप्तान् कर्मसु विनियोजयामि ।
उत्तर:
अहमेव कान् कर्मसु विनियोजयामि ?
(ii) तत्र अश्वत्थमूलं खनित्वा तं सुवर्ण कलशः प्राप्तवान्।
उत्तर:
तत्र किम् खनित्वा तं सुवर्णकलशं प्राप्तवान् ?
(iii) संसारे विद्वांसः ज्ञानचक्षुर्भिः नेत्रवन्तः कथ्यन्ते।
उत्तर:
संसारे विद्वांसः काभिः नेत्रवन्तः कथ्यन्ते ?
(iv) पूर्वे महारथ: ब्रह्मास्त्रं न प्रयुक्तवन्तः ।
उत्तर:
पूर्वे के ब्रह्मास्त्रं न प्रयुक्तवन्तः ?
(v) जना: कपोले शालिचूर्णं लिभ्यन्ति ।
उत्तर:
जनाः कपोले किम् लिभयन्ति ?
(vi) शिष्याः आचार्यात् चतुर्थोशम् आदत्ते।
उत्तर:
शिष्य: कास्मात् चतुर्थांशम् आदत्ते ?
प्रश्न 16.
निम्नलिखितश्लोकस्य अन्वयं मञ्जूषायाः पदानि चित्वा ‘पुनः लिखत-
मञ्जूषा
सर्वदा, सन्निधिम्, अम्भोज, वदनाम्बुजे ।
शारदा शारदाम्भोजवदना वदनाम्बुजे ।
सर्वदा सर्वदाऽस्माकं सन्निधिं सन्निधिं क्रियात् ।
अन्वयः – शारदा (i) वदना (ii) शारदा अस्माकं (iii) सन्निधिं (iv) क्रियात् ।
उत्तर:
अन्वयपूर्तिः
अन्वयः-शारदा अम्भोज वदना वदनाम्बुजे शारदा अस्माकं सर्वदा सन्निधिं सन्निधिं क्रियात् ।
अथवा
मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानपूरयित्वा तं पुनः लिखत- (1/2 × 4 = 2)
मञ्जूषा
मनुष्याणाम्, मैत्री, विवादैः, अप भाषणेन
कलहान्तानि हर्म्याणि कुवाक्यान्तं च सौहृदम्।
कुराजान्तानि राष्ट्राणि कुकर्मान्त यशो नृणाम् ।
भावार्थ:- अस्य श्लोकस्य भावार्थः इदम् अस्ति यत् (i) राजप्रसादाः नश्यन्ते। कुवाक्यैः (ii) वा (iii) नश्यते । एवमेव दुष्टनृपैः राष्ट्रापि नश्यन्ते कुकर्मणा च (iv) यशः विनष्टं गच्छति ।
उत्तर:
अस्य श्लोकस्य भावार्थ: इदम् अस्ति यत् विवादै: राजप्रसादाः नश्यन्ते । कुवाक्यैः अपभाषणेन वा मैत्री नश्यते । एवमेव दुष्टनृपै: राष्ट्रापि नश्यन्ते कुकर्मणा च मनुष्याणाम् यशः विनष्टं गच्छति ।
प्रश्न 17.
रेखाङ्कित पदानां प्रसंङ्गानुसारम् उचितम् अर्थम् चित्वा लिखत- (केवलं प्रश्न चतुष्टयम्) (1 × 4 = 4)
(i) त्वम् इदं चक्रं वाञ्छसि ।
(अ) इच्छसि
(ब) इच्छां करोषि
(स) अवाप्नोषि
(द) करोषि
उत्तर:
(अ) इच्छसि
(ii) शुश्रुषा श्रवणं चैव ग्रहणं धारणं तथा ।
(अ) सेवा
(ब) श्रोतुमिच्छा
(स) श्वश्रुः
(द) दीनसेवा
उत्तर:
(ब) श्रोतुमिच्छा
(iii) अहर्निश: महानसं प्रविश्य यत् पश्यति तत् भक्षयति ।
(अ) मानसम्
(ब) भारतदेशः
(स) मानसरोवरम्
(द) पाकशालाम्
उत्तर:
(द) पाकशालाम्
(iv) आत्रा॑नाम् परित्राणायएव में निश्चयः ।
(अ) प्रसानाम्
(ब) याचकानम्
(स) अमात्यानाम्
(द) दुखीनाम्
उत्तर:
(द) दुखीनाम्
(v) इन्द्रियाण्यादौ नियम्य भरतर्षभ ।
(अ) नियमपालनम्
(ब) योगाभ्यासम्
(स) नियमेनव्यायामम्
(द) नियन्त्रणं कृत्वा
उत्तर:
(द) नियन्त्रणं कृत्वां
प्रश्न 18.
अधोलिखितां कथां मञ्जूषापदैः रिक्तस्थानानि पूरयित्वा पुनः लिखत- (1/2 × 8 = 4)
मञ्जूषा
दिव्यं चक्रं, ब्रह्मास्त्रप्रयोगं, सव्येन वाणिना, त्वत्तः, चक्रम्, दिव्यां शक्ति, द्वारिकापुरीम्, मनोवृत्तिं
सम्प्रति आश्वस्तः अस्मि । मन्ये सः (i) न करिष्यति । तर्हि न जानासि तस्य (ii) पितुः उपदेशेन असन्तुष्टः स एकदा (iii) आगच्छत् । ब्रह्मास्त्रं दत्वा सः सुदर्शनचक्रम् अवाञ्छत् । (साश्चर्यम्) कथं चक्रम् इति । आम् ! मया कथितम् । नाहं (iv) ब्रह्मास्त्रं इच्छामि । यदि त्वं मम गदां शक्तिं, धनुः चक्रं वा इच्छसि तुभ्यं ददामि । ततस्ततः स तु (v) एव अयाचत् । गृहाण चक्रम् इति उक्तः । सः (vi) चक्रम् गृहीतवान्, किन्तु सः तत् चक्रं स्वस्थानात् संचालयितुम् अपि समर्थः न अभवत् । जानीमः भवतः (vii) । तदा अहं नैराश्येन खिन्न द्रौणि पृष्टवान्, वत्स! किमर्थं त्वम् इदं (viii) वाञ्छसि ।
उत्तर:
पठितकथापूर्तिः
सम्प्रति आश्वस्तः अस्मि । मन्ये सः ब्रहमास्त्रप्रयोगं न करिष्यति । तर्हि न जानासि तस्य मनोवृत्तिं पितुः उपदेशेन असन्तुष्टः स एकदा द्वारिकापुरीम् आगच्छत् । ब्रह्मास्त्रं दत्वा सः सुदर्शनचक्रम् अवाञ्छत् । (साश्चर्यम्) कथं चक्रम् इति । आम् ! मया कथितम्। नाहं त्वत्तः ब्रह्मास्त्रं इच्छामि । यदि त्वं मम गदां शक्तिं धनुः चक्रं वा इच्छसि तुभ्यं ददामि । ततस्तत: स तु चक्रम् एव अयाचत् । गृहाण चक्रम् इति उक्तः । सः सव्येन वाणिना चक्रम् गृहीतवान्, किन्तु सः तत् चक्रं स्वस्थानात् संचालयितुम् अपि समर्थः न अभवत् । जानीमः भवत: दिव्यां शक्ति । तदा अहं नैराश्येन खिन्न द्रौणि पृष्टवान्, वत्स ! किमर्थं त्वम् इदं दिव्यं चक्रं वाञ्छसि ।
The post CBSE Sample Papers for Class 10 Sanskrit Communicative Set 3 with Solutions appeared first on Learn CBSE.