Quantcast
Channel: Learn CBSE
Viewing all articles
Browse latest Browse all 10130

NCERT Class 7 Sanskrit Chapter 5 Question Answer Solutions सेवा हि परमो धर्मः

$
0
0

Students rely on NCERT Solutions for Class 7 Sanskrit and Class 7th Sanskrit Deepakam Chapter 5 Question Answer सेवा हि परमो धर्मः to clarify their doubts after class.

Sanskrit Class 7 Chapter 5 Question Answer सेवा हि परमो धर्मः

Class 7 Sanskrit Chapter 5 NCERT Solutions सेवा हि परमो धर्मः

कक्षा 7 संस्कृत पाठ 5 के प्रश्न उत्तर सेवा हि परमो धर्मः

१. अधोलिखितानां प्रश्नानाम् एकपदेन पदद्वयेन वा उत्तराणि लिखन्तु ।

(निम्नलिखित प्रश्नों के उत्तर एक या दो पदों में लिखिए।)

(क) कः प्रसिद्ध: चिकित्सकः आसीत्?
(ख) अन्यस्मिन् दिवसे कौ आगतौ ?
(ग) कः खिन्नः आसीत्?
(घ) रुग्णस्य परिस्थितिः कथम् आसीत्?
(ङ) नागार्जुनः सहायकरूपेण कं चितवान्?
(च) कां विना चिकित्सकः न भवति ?
(छ) नागार्जुनः युवकौ केन मार्गेण गन्तुं सूचितवान्?
उत्तर:
(क) नागार्जुनः
(ख) द्वौ युवकौ
(घ) शोचनीया
(ङ) द्वितीयम्
(छ) राजमार्गेण
(ग) द्वितीयः युवक:
(च) सेवाभावनाम्

२. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु ।

(निम्नलिखित प्रश्नों के उत्तर पूर्णवाक्य में लिखिए।)

(क) अहोरात्रं नागार्जुनः कुत्र कार्यं करोति स्म ?
(ख) नागार्जुन: महाराजं किं निवेदितवान्?
(ग) प्रथमः युवकः कथं कार्यं कृतवान्?
(घ) द्वितीयः युवक: राजमार्गे रोगिणं दृष्ट्वा किं कृतवान्?
(ङ) सेवायाः भावनां विना किं न भवेत् ?
उत्तर:
(क) अहोरात्रं नागार्जुनः प्रयोगशालायां कार्यं करोति स्म ।
(ख) नागार्जुन: महाराजं निवेदितवान्- “महाराज ! मम चिकित्साकार्याय एक: सहायक: आवश्यक: इति ।
(ग) प्रथमः युवकः स्वनिष्ठां दर्शयितुं स्वगृहस्य समस्याः वर्णितवान्– “पितुः उदरवेदना, मातुः ज्वरः च आसीत्। तथापि अहं सर्वं परित्यज्य औषधं निर्मितवान्” इति उक्त्वा नागार्जुनाय रसायनं दत्तवान्।
(घ) द्वितीयः युवकः राजमार्गे रोगिणं दृष्ट्वा तं स्वगृहं नीतवान् | दिनद्वयस्य तस्य एव सेवायां निरतः आसीत्।
(ङ) सेवायाः भावनां विना चिकित्सकः न भवेत्।

NCERT Class 7 Sanskrit Chapter 5 Question Answer Solutions सेवा हि परमो धर्मः

३. उदाहरणानुसारम् अधोलिखितानां पदानां स्त्रीलिङ्ग रूपाणि लिखन्तु ।

(उदाहरण के अनुसार निम्नलिखित पदों के स्त्रीलिंग रूप लिखिए।)
NCERT Class 7 Sanskrit Chapter 5 Question Answer Solutions सेवा हि परमो धर्मः 1
उत्तर:
NCERT Class 7 Sanskrit Chapter 5 Question Answer Solutions सेवा हि परमो धर्मः 2

४. उदाहरणानुसारम् अधोलिखितानां पदानां पुंलिङ्गरूपाणि लिखन्तु ।

(उदाहरण के अनुसार निम्नलिखित पदों के पुल्लिंग रूप लिखिए।)
NCERT Class 7 Sanskrit Chapter 5 Question Answer Solutions सेवा हि परमो धर्मः 3
उत्तर:
NCERT Class 7 Sanskrit Chapter 5 Question Answer Solutions सेवा हि परमो धर्मः 4

५. उदाहरणानुसारं वाक्यानि परिवर्तयन्तु ।

(उदाहरणानुसार वाक्यों को बदलिए ।)

यथा- पिता कषायं पिबति । पिता कषायं पीतवान् ।
अहं पुस्तकं नयामि। अहं पुस्तकं नीतवान् / नीतवती ।
NCERT Class 7 Sanskrit Chapter 5 Question Answer Solutions सेवा हि परमो धर्मः 5
उत्तर:
(क) युवक: आपणं गतवान् ।
(ख) सः रोटिकां खादितवान्।
(ग) महिला वस्त्रं दत्तवती ।
(घ) बालकः द्विचक्रिकातः पतितवान् ।
(ङ) पितामही चलचित्रं दृष्टवती ।
(च) अहं गृहपाठं लिखितवान्/लिखितवती ।
(छ) त्वं कुत्र गतवान् / गतवती ?
(ज) अश्वाः वने धावितवन्तः ।
(झ) बालिकाः शीघ्रम् आगतवत्यः ।
(ञ) वयं समुद्रतीरे पयोहिमं खादितवन्तः ।

NCERT Class 7 Sanskrit Chapter 5 Question Answer Solutions सेवा हि परमो धर्मः

अत्र इदम् अवधेयम्

वर्तमानकाल-क्रियापदेन सह ‘स्म’ इति अव्ययस्य योजनेन भूतकालस्य अर्थः भवति ।
यथा- सः बाल्ये पुस्तकानि पठति ।
सः बाल्ये पुस्तकानि पठति स्म (अपठत्) ।

६. अनुच्छेदे कोष्ठकेषु केचन धातवः दत्ताः सन्ति । उपरि दत्तम् अवधेयांशं पठित्वा ‘स्म’ इति अव्ययपदम् उपयुज्य अनुच्छेदं पुनः लिखन्तु ।

(अनुच्छेद में कोष्ठकों में कुछ धातुएँ दी गई हैं। उपर दिए हुए अवधेयांश को पढ़कर ‘स्म’ अव्ययपद को जोड़कर अनुच्छेद पुन: लिखिए।)

……….. ( शीर्षकं लिखन्तु )

कृषक : प्रतिदिनं कृषिक्षेत्रं …………… (गच्छ्)। जलसेचनं’ ………… (कृ) । कीटानां निवारणार्थं जैवौषधं ………… ‘(स्थापय्)। सः कृषिकार्यं सम्यक् ……..(ज्ञा) । अतः अन्ये कृषकाः संशयेन …….. ‘(पृच्छ्)। सः स्वाभिमानेन ……. (जीव्)। अतः ‘अहं कृषकः भूमिपुत्रः’ इति साभिमानं …….. (वद्)। सः क्षेत्रे गोमयं ……… (योजय्), न तु कृतकान् पदार्थान्। अतः व्रीहेः गुणवत्ता अधिका …….. (भव्)। जनाः जालपुटमाध्यमेन तस्य तण्डुलं …….. (क्रीण) । एवं तस्य परिवारस्य सर्वे जनाः कृषिकार्येण ससुख ……… (जीव्) । सः सर्वान् ………. (वद्) “कृषकः न दीनः न च दरिद्रः, परं सर्वेषां पोषकः” इति ।
उत्तर:
कृषक : प्रतिदिनं कृषिक्षेत्रं गच्छति स्म जलसेचनं’ करोति स्म। कीटानां निवारणार्थं जैवौषधं स्थापयति स्म । सः कृषिकार्यं सम्यक् जानाति स्म। अतः अन्ये कृषकाः संशयेन पृच्छन्ति स्म । सः स्वाभिमानेन जीवति स्म । अतः ‘अहं कृषक : भूमिपुत्रः’ इति साभिमानं वदति स्म । सः क्षेत्रे गोमयं योजयति स्म, न तु कृतकान् पदार्थान् । अतः व्रीहेः गुणवत्ता अधिका भवति स्म । जनाः जालपुटमाध्यमेन तस्य तण्डुलं क्रीणाति स्म । एवं तस्य परिवारस्य सर्वे जनाः कृषिकार्येण ससुखं जीवन्ति स्म । स सर्वान् वदति स्म । “कृषकः न दीनः न च दरिद्रः । परं सर्वेषां पोषकः ” इति ।

शीर्षक:- सर्वेषां पोषकः कृषकः

NCERT Class 7 Sanskrit Chapter 5 Extra Questions and Answers सेवा हि परमो धर्मः

प्रश्न 1.
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत ।

(निम्नलिखित गद्यांश को पढ़कर प्रश्नों के उत्तर लिखिए |)

(क) नागार्जुन: प्रसिद्ध : रसायनशास्त्रज्ञः चिकित्सकः च आसीत्। सः अहोरात्रं प्रयोगशालायां कार्यं करोति स्म । एकदा सः महाराजं निवेदितवान्- “महाराज ! मम चिकित्साकार्याय एक: सहायक : आवश्यकः” इति । राजा एतद् अङ्गीकृतवान् उक्तवान् च- ‘अस्तु, अहं व्यवस्थां करोमि । श्वः केचन योग्याः युवकाः आगमिष्यन्ति । भवान् परीक्षां कृत्वा तेषु युवकेषु कमपि योग्यं स्वीकरोतु’ इति । अन्यस्मिन् दिने द्वौ युवकौ आगतवन्तौ । नागार्जुनः द्वयोः विद्याभ्यासविषये पृष्टवान् । द्वयोः अपि विद्याभ्यासविषयः समानः एव आसीत्। तदा नागार्जुनः तौ एक विशिष्टं रसायनं निर्माय आगच्छताम् इति सूचितवान् । तदर्थं दिनद्वयस्य अवसरं दत्तवान् । ” गमनसमये राजमार्गेण गच्छताम्” इत्यपि सूचितवान् ।

दिनद्वयानन्तरं नागार्जुनस्य समीपे प्रथमः युवकः आगतवान्। “ औषधनिर्माणे किमपि कष्टं न अभवत् खलु ?” इति नागार्जुनः पृष्टवान् । युवकः स्वनिष्ठां दर्शयितुं स्वगृहस्य समस्याः वर्णितवान्- “ पितुः उदरवेदना, मातुः ज्वरः च आसीत्। तथापि अहं तत्सर्वं परित्यज्य औषधं निर्मितवान् ” इति उक्त्वा नागार्जुनाय रसायनं दत्तवान् ।

I. एकपदेन उत्तरत।
(i) चिकित्सकः कः आसीत्?
उत्तर:
नागार्जुनः

(ii) सः कदा प्रयोगालायां कार्यं करोति स्म ? –
उत्तर:
अहोरात्रं

(iii) द्वौ कौ आगतवन्तौ ?
उत्तर:
युवकौ

II. पूर्णवाक्येन उत्तरत ।

(i) नागार्जुनः युवकौ किं पृष्टवान् ?
उत्तर:
नागार्जुन : द्वयोः विद्याभ्यासविषये पृष्टवान्।

(ii) द्वयोः युवकयोः किं समानः एव आसीत् ?
उत्तर:
द्वयोः युवकयोः विद्याभ्यासविषयः समानः एव आसीत् ।

III. भाषिककार्यम् ।

(i) ‘अहः च रात्रिः च’ इति अर्थे किं समानपदं प्रयुक्तम् ?
(क) अहोरात्रं
(ख) अहोरात्रे:
(ग) अर्हरात्रि:
उत्तर:
(क) अहोरात्रं

(ii) ‘अपृच्छत्’ इति अर्थे किं समानपदं प्रयुक्तम् ?
(क) वर्णितवान्
(ख) दत्तवान्
(ग) पृष्टवान्
उत्तर:
(ग) पृष्टवान्

(iii) ‘त्यक्त्वा’ इति अर्थे किं पर्यायपदं अत्र प्रयुक्तम् ?
(क) परित्यज्य
(ख) व्यवस्था
(ग) चिकित्सा
उत्तर:
(क) परित्यज्य

(iv) “एकदा सः महाराजं निवेदितवान् ” अत्र क्रियापदं किं प्रयुक्तम् ?
(क) एकदा
(ख) सः
(ग) निवेदितवान्
उत्तर:
(ग) निवेदितवान्

(ख) तदभ्यन्तरे द्वितीयः युवकः अपि आगतवान्। सः खिन्नः आसीत्। तमपि नागार्जुनः पृष्टवान्। तदा युवकः उक्तवान् “अहम् औषधं निर्मातुं न शक्तवान्” इति। “किमर्थं न शक्तवान्?” इति नागार्जुनः पृच्छति ।

युवक: उक्तवान्- “ राजमार्गे अहं कञ्चित् रोगिणं दृष्टवान्। तस्य परिस्थितिः शोचनीया आसीत्। अहं तं स्वगृहं नीतवान्। दिनद्वयं तस्य एव सेवायां निरतः आसम् । अद्य प्रातः सः स्वस्थः अभवत् । अहं ततः साक्षात् अत्र आगतवान्। रसायननिर्माणार्थं समयम् एव न प्राप्तवान् ” इति ।

तदनन्तरं नागार्जुन: द्वितीयं युवकं सहायकत्वेन स्वीकृतवान् । राजा एतं वृत्तान्तं श्रुत्वा आश्चर्यं प्रकटितवान्। सः नागार्जुनं पृष्टवान्– “प्रथमः युवक: औषधं कृत्वा आनीतवान्। द्वितीयः तथा न कृतवान् । तथापि भवान् किमर्थं द्वितीयं चितवान् ” ?

नागार्जुनः अवदत्- “द्वितीयः अपि औषधनिर्माणे कुशल: अस्ति। किन्तु तेन समयः न प्राप्तः । यतः सः सेवायां निरतः आसीत्। तं रोगिणम् अहं पूर्वमेव मार्गे दृष्टवान् । अतः ‘राजमार्गेण गन्तव्यम्’ इति अहं युवकद्वयं सूचितवान् । प्रथमः रोगिणं दृष्ट्वा अपि अग्रे गतवान्। सः यन्त्रवत् कार्यं करोति। तस्मिन् सेवायाः भावना नास्ति। सेवाभावनां विना चिकित्सकः कथं भवेत् ? अतः अहं द्वितीयस्य चयनं कृतवान्” इति ।

I. एकपदेन उत्तरत।

(i) द्वितीयः युवकः कीदृशः आसीत्?
उत्तर:
खिन्नः

(ii) राजा वृत्तान्तं श्रुत्वा किं प्रकटितवान् ?
उत्तर:
आश्चर्यम्

II. पूर्णवाक्येन उत्तरत।

(i) द्वितीयः युवकः राजमार्गे कं दृष्टवान् ?
उत्तर:
द्वितीयः युवक: राजमार्गे कञ्चित् रोगिणं दृष्टवान्।

(ii) नागार्जुनः कं सहायकत्वेन स्वीकृतवान् ?
उत्तर:
नागार्जुनः द्वितीयं युवकं सहायकत्वेन स्वीकृतवान्।

NCERT Class 7 Sanskrit Chapter 5 Question Answer Solutions सेवा हि परमो धर्मः

III. भाषिककार्यम्।

(i) ‘चयनं कृतवान्’ इति अर्थे किं पदं प्रयुक्तम् ?
(क) चितवान्
(ख) आनीतवान्
(ग) कृतवान्
उत्तर:
(क) चितवान्

(ii) ‘तं रोगिणम्’ अत्र विशेषणं पदं किं प्रयुक्तम् ?
(क) रोगिणम्
(ख) तम्
(ग) प्राप्तम्
उत्तर:
(ख) तम्

(iii) ‘सः यन्त्रवत् कार्यं करोति । ‘ अत्र कर्तृपदं किम् ?
(क) सः
(ख) कार्यम्
(ग) करोति
उत्तर:
(क) सः

(iv) ‘प्रसन्नः’ इति पदस्य विपर्ययपदं किं आगतवान्?
(क) युवक:
(ख) खिन्नः
(ग) स्वस्थः
उत्तर:
(ख) खिन्नः

प्रश्न 2.
‘स्म’ संयुज्य निम्नवाक्यानि पुनर्लिखत । (निम्न वाक्यों को ‘स्म’ लगाकर पुन: लिखिए |)
(क) अहम् अवदम् ।
(ख) त्वम् अभ्रमः।
(ग) तौ अचलताम्।
(घ) ते अवदन्।
(ङ) छात्रः पाठम् अपठत् ।
(च) सः पाठं विस्मरत् ।
उत्तर:
(क) अहं वदामि स्म ।
(ख) त्वं भ्रमसि स्म ।
(ग) तौ चलतः स्म ।
(घ) ते वदन्ति स्म ।
(ङ) छात्रः पाठं पठति स्म ।
(च) सः पाठं विस्मरति स्म ।

प्रश्न 3.
रेखांकितपदानि आधृत्य प्रश्ननिर्माण कुरुत।
(रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए |)
(क) नागार्जुनः प्रसिद्ध: चिकित्सकः आसीत् ।
(ख) नागार्जुनः अहोरात्रं कार्यं करोति स्म ।
(ग) अन्यस्मिन् दिने द्वौ युवकौ आगतवन्तौ ।
(घ) युवक: स्वनिष्ठां दर्शयितुं स्वगृहस्य समस्याः वर्णितवान्।
(ङ) द्वितीयः युवकः खिन्नः आसीत् ।
(च) रोगिणः परिस्थितिः शोचनीया आसीत् ।
(छ) अहं तं रोगिणं पूर्वमेव दृष्टवान् ।
उत्तर:
(क) कः प्रसिद्ध: चिकित्सकः आसीत्?
(ख) नागार्जुनः कदा कार्यं करोति स्म ?
(ग) अन्यस्मिन् दिने कति युवकौ आगतवन्तौ ?
(घ) युवक: कां दर्शयितुं स्वगृहस्य समस्याः वर्णितवान् ?
(ङ) द्वितीयः युवकः कीदृशः आसीत्?
(च) रोगिणः परिस्थितिः कीदृशी आसीत्?
(छ) अहं तं कं पूर्वमेव दृष्टवान् ?

प्रश्न 4.
निम्नलिखित वाक्यानि उदाहरणानुसारं परिवर्तयन्तु ।
(निम्नलिखित वाक्यों को उदाहरण के अनुसार बदलिए ।)
NCERT Class 7 Sanskrit Chapter 5 Question Answer Solutions सेवा हि परमो धर्मः 6
उत्तर:
(क) राजा उक्तवान्।
(ख) द्वौ युवकौ आगतवन्तौ ।
(ग) नागार्जुनः पृष्टवान्।
(घ) बालकः सूचितवान्।
(ङ) युवक: रसायनं दत्तवान ।
(च) खिन्नः युवकः उक्तवान्।
(छ) अहं रोगिणं दृष्टवान्।

NCERT Class 7 Sanskrit Chapter 5 Question Answer Solutions सेवा हि परमो धर्मः

प्रश्न 5.
कर्तृ-क्रिययोः मेलनं कुरुत ।
(कर्ता और क्रिया का मिलान कीजिए।)
NCERT Class 7 Sanskrit Chapter 5 Question Answer Solutions सेवा हि परमो धर्मः 7
उत्तर:
(क) – (v)
(ख) – (vii)
(ग) – (viii)
(घ) – (vi)
(ङ) – (iv)
(च) – (i)
(छ) – (iii)
(ज) – (ii)
(झ) – (ix)

६. प्रदत्तविकल्पेभ्यः उचितं उत्तरं चित्वा लिखन्तु ।
(दिए गए विकल्पों से उचित उत्तर चुनकर लिखिए।)

(क) नागार्जुन: महाराजं निवेदितवान् ।
(i) नि + विद् + क्तवतु
(ii) निवेदित + वान्
(iii) नि + विद् + तवान्।
उत्तर:
(i) नि + विद् + क्तवतु

(ख) राजा उक्तवान्।
(i) उक् + तवान्
(ii) वच् + क्तवतु
(iii) वच्+ तवान्
उत्तर:
(ii) वच् + क्तवतु

(ग) राजा एतद् अङ्गीकृतवान्।
(i) अङ्ग + कृ + क्तवतु
(ii) अङ्गी + कृ + क्तवतु
(iii) अङ्गीकार + तवतु
उत्तर:
(i) अङ्ग + कृ + क्तवतु

(घ) द्वौ युवकौ आगतवन्तौ ।
(i) आ + गम् + क्तवतुं
(ii) आगम् + तवतु
(iii) आ + गम् + तवन्तौ
उत्तर:
(i) आ + गम् + क्तवतुं

(ङ) नागार्जुनः युवकं पृष्टवान्।
(i) प्रच्छत् + वान्
(ii) प्रच्छ + क्तवतु
(iii) पृष्ट + वान्
उत्तर:
(ii) प्रच्छ + क्तवतु

(च) औषधं निर्मातुं न शक्तवान् ।
(i) शक् + क्तवतु
(iii) शक् + तवान्
(ii) शक्त + वान्
उत्तर:
(i) शक् + क्तवतु

NCERT Class 7 Sanskrit Chapter 5 Question Answer Solutions सेवा हि परमो धर्मः

(छ) राजमार्गे अहं रोगिणं दृष्टवान् ।
(i) दृष्ट + वान्
(ii) दृश् + क्तवतु
(iii) दृश्य + क्तवतु
उत्तर:
(ii) दृश् + क्तवतु

(ज) रसायननिर्माणार्थं समयं न प्राप्तवान्।
(i) प्र + आप् + क्तवतु
(ii) प्रा + आप्त + वान्
(iii) प्राप्य + क्तवतु
उत्तर:
(i) प्र + आप् + क्तवतु

(झ) भवान् किमर्थं द्वितीयं चितवान् ?
(i) चि + क्तवतु
(ii) ची + क्तवतु
(iii) चित + वान्
उत्तर:
(i) चि + क्तवतु

The post NCERT Class 7 Sanskrit Chapter 5 Question Answer Solutions सेवा हि परमो धर्मः appeared first on Learn CBSE.


Viewing all articles
Browse latest Browse all 10130

Trending Articles



<script src="https://jsc.adskeeper.com/r/s/rssing.com.1596347.js" async> </script>