Quantcast
Channel: Learn CBSE
Viewing all articles
Browse latest Browse all 10123

Class 7 Sanskrit Chapter 11 MCQ द्वीपेषु रम्यः द्वीपोऽण्डमानः

$
0
0

Students find these Class 7 Sanskrit MCQ Chapter 11 द्वीपेषु रम्यः द्वीपोऽण्डमानः MCQ Questions with Answers helpful for self-assessment and preparation.

द्वीपेषु रम्यः द्वीपोऽण्डमानः Class 7 MCQ Questions Sanskrit Chapter 11

अधोलिखिते गद्यांशे पठित्वा प्रश्नान् उत्तरत-

(क) अध्यापिका – (भारतस्य मानचित्रे अण्डमान द्वीपसमूहं दर्शयन्ती) एषः भारतस्य अष्टसु केन्द्रशासितप्रदेशेषु अन्यतमः अण्डमान द्वीपसमूहः अस्ति। एतस्य राजधानी ‘श्रीविजयपुरम् अस्ति।’ पूर्वम् आङ्ग्लशासकेन अस्य नाम ‘पोर्ट ब्लेयर्’ इति दत्तम् आसीत्।
सर्वे उत्साहिताः बालाः – महोदये! वयम् एतस्य विषये किञ्चित् अधिकं ज्ञातुम् इच्छामः।
अध्यापिका – अस्तु। भोः सूर्यांश! भवान् किमपि वक्तुम् इच्छति? इतिप्रतिभाति।
सूर्यांश: – सत्यं महोदये! ह्यः भवती एतस्य पाठस्य विषये सङ्केतं दत्तवती। तदा अहं गृहं गत्वा जालपुटे एतस्य अन्वेषणम् अकरवम्।

I. एकपदेन उत्तरत-

(i) अध्यापिका मानचित्रे किम् दर्शयति?
उत्तराणि-
अण्डमानद्वीपसमूहं

(ii) अण्डमानद्वीपस्य राजधानी का?
उत्तराणि-
श्रीविजयपुरम्

(iii) अण्डमानद्वीपस्य पूर्व नाम किम् आसीत्?
उत्तराणि-
पोर्ट ब्लेयर्

Class 7 Sanskrit Chapter 11 MCQ द्वीपेषु रम्यः द्वीपोऽण्डमानः

II. पूर्णवाक्येन उत्तरत-

(i) सूर्याश: गृहं गत्वा किम् अकरोत्?
उत्तराणि-
सूर्यांश: गृहम् गत्वा जालपुटे अण्डमान द्वीपस्य अन्वेषणम् अकरोत्।

(ii) अण्डमानद्वीपसमूहः केषु अन्यतमः अस्ति?
उत्तराणि-
अण्डमानद्वीपसमूहः भारतस्य अष्टसु केन्द्रशासितप्रदेशेषु अन्यतमः अस्ति।

(iii) अध्यापिका छात्रान् किम् दर्शयति?
उत्तराणि-
अध्यापिका छात्रान् भारतस्य मानचित्रे अण्डमानद्वीपसमूहं दर्शयति।

III. निर्देशानुसारम् उत्तरत-

(i) ‘अकरवम्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) तदा
(ख) अहं
(ग) गृहं
(घ) गत्वा
उत्तराणि-
(ख) अहं

(ii) ‘इच्छाम:’ इति क्रियापदे कः लकारः?
(क) लट्
(ख) लोट्
(ग) लृट्
(घ) लङ्
उत्तराणि-
(क) लट्

(iii) ‘विषये’ इति पदे का विभक्तिः?
(क) तृतीया
(ख) षष्ठी
(ग) सप्तमी
(घ) द्वितीया
उत्तराणि-
(ग) सप्तमी

(ख) दीपेश: – अहो! अस्य नाम्नः इतिहासः अद्भुतः अस्ति। किन्नु खलु भारतस्य इतिहासे अस्य द्वीपस्य काचित् विशिष्टा भूमिका अस्ति?
अध्यापिका – आम्, महती भूमिका अस्ति अस्य द्वीपस्य।
दीपा – कीदृशी भूमिका महोदये! कृपया सूचयतु।
अध्यापिका – अस्मिन् द्वीपे ‘सेल्युलर्’ इति कारागारम् अस्ति। अस्य कारागारस्य अपरं नाम ‘कालापानी’ इत्यपि अस्ति।
सुधीर: – (साश्चर्यम्) आचार्ये! अस्य कः अभिप्रायः?
सुरेखा – ‘कालापानी’ इति शब्दं श्रुत्वा एव भीतिः भवति।

I. एकपदेन उत्तरत-

(i) कस्य नाम्नः इतिहास: अद्भुतः अस्ति?
उत्तराणि-
अण्डमानद्वीपस्य

(ii) कारागारस्य अपरं नाम ‘किम्’ अस्ति?
उत्तराणि-
सेल्युलर्

(iii) ‘सेल्युलर’ इति कारागारं कुत्र अस्ति?
उत्तराणि-
अण्डमानद्वीपे

Class 7 Sanskrit Chapter 11 MCQ द्वीपेषु रम्यः द्वीपोऽण्डमानः

II. पूर्णवाक्येन उत्तरत-

(i) सुरेखा किम् श्रुत्वा भीतिः भवति?
उत्तराणि-
‘कालापानी’ इति शब्दं श्रुत्वा सुरेखा भीतिः भवति।

(ii) सुधीर कस्य अभिप्रायम् पृच्छति?
उत्तराणि-
सुधीर: ‘कालापानी’ इति शब्दस्य अभिप्रायम् पृच्छति।

(iii) भारतस्य इतिहासे कस्य विशिष्टा भूमिका अस्ति?
उत्तराणि-
भारतस्य इतिहासे अण्डमानद्वीपस्य विशिष्टा भूमिका अस्ति।

III. निर्देशानुसारम् उत्तरत-

(i) ‘सूचयतु’ इति क्रियापदे कः लकारः?
(क) लोट्
(ख) लट्
(ग) लृट्
(घ) तत्सर्वं
उत्तराणि-
(क) लोट्

(ii) ‘द्वीपस्य’ इति पदे का विभक्तिः?
(क) सप्तमी
(ख) षष्ठी
(ग) प्रथमा
(घ) द्वितीया
उत्तराणि-
(ख) षष्ठी

(iii) ‘भूमिका’ इति पदस्य विशेषणपदं किम्?
(क) अस्य
(ख) द्वीपस्य
(ग) आम्
(घ) विशिष्टा
उत्तराणि-
(घ) विशिष्टा

(ग) अध्यापिका – सत्यमेव। भारतस्य स्वातन्त्र्यार्थ युद्धरतानां क्रान्तिकारिणां दमनार्थं ब्रिटिशजनैः निर्मितं त्रितलात्मकम् एतत् कारागारम्। अत्रैव महान् देशभक्तः स्वातन्त्र्यवीरः सावरकर: मातृभूमेः रक्षणाय दश वर्षाणि यावत् कल्पनातीतं घोरं कष्टं सोढवान्।
मुकुन्दः – अहो! धन्याः ते स्वातन्त्र्यवीराः। तेषां बलिदानेन एव वयं सुखेन जीवामः।
सूर्यांश: – आचार्ये! एतत् स्थानं ‘यूनेस्को’-संस्थायाः वैश्विकसम्पदः सूच्याम् अपि संरक्षितम्।
ऋचा – महोदये! किंम् अस्मिन् द्वीपे जना: अप निवसन्ति?
अध्यापिका – आम्, तत्र काश्चन अण्डमानी, ओगी, जारवा, सेण्टिनली इत्यादयः विशिष्टाः जनजातयः निवसन्ति। अण्डमानी-ओङ्गी-जारवा-जनजातीनाम् आजीविकायै सर्वकारः नारिकेलस्य उद्यानानां निर्माणम् अकरोत्। सेणि टनली-जनजातीया: समाजात् दूरे तिष्ठन्ति। तेषां जनसंख्या अपि स्वल्पा एव।

I. एकपदेन उत्तरत-

(i) सावरकर: कति वर्षाणि कष्टं सोढवान्?
उत्तराणि-
दश वर्षाणि

(ii) क: नारिकेलस्य उद्यानानां निर्माणम् अकरोत्?
उत्तराणि-
सर्वकारः

(iii) केषाम् बलिदानेन एव वयं सुखेन जीवामः?
उत्तराणि-
स्वातन्त्र्यवीराणाम्

Class 7 Sanskrit Chapter 11 MCQ द्वीपेषु रम्यः द्वीपोऽण्डमानः

II. पूर्णवाक्येन उत्तरत-

(i) अण्डमानद्वीपे का जनजातय: निवसन्ति?
उत्तराणि-
अण्डमानद्वीपे अण्डमानी, ओङ्गी, जारवा, सेण्टिनली इत्यादयः जनजातयः निवसन्ति।

(ii) ब्रिटिशजनैः एतत् कारागारम् किमर्थं निर्मितम्?
उत्तराणि-
भारतस्य स्वातन्त्र्यार्थ युद्धरतानां क्रान्तिकारिणां दमनार्थं ब्रिटिशजनै: निर्मितम् एतत् कारागारम्।

(iii) एतत् स्थानं कस्मिन् संरक्षित?
उत्तराणि-
एतत् स्थानम् ‘यूनेस्को’ संस्थायाः वैश्विकसम्पदः सूच्याम् संरक्षितम्।

III. निर्देशानुसारम् उत्तरत-

(i) ‘घोरम्’ इति पदस्य कः अर्थः?
(क) दुःखम्
(ख) कष्टम्
(ग) भीषणम्
(घ) सहनं
उत्तराणि-
(ग) भीषणम्

(ii) ‘अकरोत्’ इति क्रियापदे कः धातुः?
(क) अकर
(ख) कृ
(ग) कर्
(घ) अकरत
उत्तराणि-
(ख) कृ

(iii) ‘सूच्याम्’ अत्र का विभक्ति:?
(क) द्वितीया
(ख) षष्ठी
(ग) सप्तमी
(घ) पञ्चमी
उत्तराणि-
(ग) सप्तमी

The post Class 7 Sanskrit Chapter 11 MCQ द्वीपेषु रम्यः द्वीपोऽण्डमानः appeared first on Learn CBSE.


Viewing all articles
Browse latest Browse all 10123

Trending Articles



<script src="https://jsc.adskeeper.com/r/s/rssing.com.1596347.js" async> </script>