Students find these Class 7 Sanskrit MCQ Chapter 6 क्रीडाम वयं श्लोकान्त्याक्षरीम् MCQ Questions with Answers helpful for self-assessment and preparation.
क्रीडाम वयं श्लोकान्त्याक्षरीम् Class 7 MCQ Questions Sanskrit Chapter 6
निम्नलिखितान् श्लोकान् पठित्वा प्रश्नान् उत्तरत-
(क) रूपयौवनसम्पन्ना विशालकुलसम्भवाः।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥१॥
विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय।
खलस्य साधोर्विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय ॥३॥
I. एकपदेन उत्तरत-
(i) कस्य विद्या विवादाय भवति?
उत्तराणि-
खलस्य
(ii) खलस्य शक्तिः किमर्थं भवति?
उत्तराणि-
परिपीडनाय
(iii) खलस्य धनं किमर्थं भवति?
उत्तराणि-
मदाय
(iv) के निर्गन्धाः किंशुकाः इव न शोभन्ते?
उत्तराणि-
विद्याहीना:
II. पूर्णवाक्येन उत्तरत-
(i) कीदृशा: विद्याहीना: किंशुकाः इव न शोभन्ते?
उत्तराणि-
रूपयौवनसम्पन्ना, विशालकुलसम्भवाः विद्याहीना: निर्गन्धाः किंशुकाः इव न शोभन्ते।
(ii) सज्जनस्य विद्या धनं शक्ति: च किमर्थं भवन्ति?
उत्तराणि-
सज्जनस्य विद्या ज्ञानाय धनं दानाय शक्ति: च रक्षणाय भवन्ति।
III. निर्देशानुसारम् उत्तरत-
(i) ‘खलस्य’ इति पदस्य विपरीतार्थकम् पदम् किम्?
(क) साधोः
(ख) शक्ति:
(ग) ज्ञानाय
(घ) दानाय
उत्तराणि-
(क) साधोः
(ii) ‘गर्वाय’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) मदाय
(ख) पीडनाय
(ग) धनाय
(घ) दानाय
उत्तराणि-
(क) मदाय
(iii) ‘रक्षणाय’ अत्र का विभक्तिः?
(क) षष्ठी
(ख) चतुर्थी
(ग) प्रथमा
(घ) द्वितीया
उत्तराणि-
(ख) चतुर्थी
(iv) ‘विद्याहीना:’ इति पदस्य क्रियापदं किम्?
(क) निर्गन्धाः
(ख) शोभन्ते
(ग) किंशुकाः
(घ) सम्भवाः
उत्तराणि-
(ख) शोभन्ते
(ख) येषां न विद्या न तपो न दानं,
ज्ञानं न शीलं न गुणो न धर्मः।
ते मर्त्यलोके भुवि भारभूता,
मनुष्यरूपेण मृगाश्चरन्ति ॥4॥
विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं,
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः।
विद्या बन्धुजनो विदेशगमने विद्या परा देवता?
विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः ॥६॥
I. एकपदेन उत्तरत-
(i) विद्या कस्य अधिकं रूपम् अस्ति?
उत्तराणि-
नरस्य
(ii) विद्या केषाम् गुरु:?
उत्तराणि-
गुरुणाम्
(iii) विद्या कुत्र पूज्यते?
उत्तराणि-
राजसु
(iv) विद्याविहीन: क:?
उत्तराणि-
पशुः
II. पूर्णवाक्येन उत्तरत-
(i) के मनुष्यरूपेण भुवि भारभूता: मृगाः चरन्ति?
उत्तराणि-
येषां न विद्या न तपः न दानम्, न ज्ञानं न शीलं न गुणः, न धर्मः ते भुवि भारभूताः मनुष्यरूपेण मृगाः चरन्ति।
(ii) प्रच्छन्नगुप्तं धनम् किम् अस्ति?
उत्तराणि-
प्रच्छन्नगुप्तं धनम् विद्या अस्ति।
III. निर्देशानुसारम् उत्तरत-
(i) ‘भूमौ’ इति पदस्य पर्यायः कः?
(क) भुवि
(ख) भार
(ग) भूताः
(घ) विदेश
उत्तराणि-
(क) भुवि
(ii) ‘राजसु’ अस्मिन् पदे का विभक्तिः?
(क) तृतीया
(ख) पच्चमी
(ग) षष्ठी
(घ) सप्तमी
उत्तराणि-
(घ) सप्तमी
(iii) ‘शत्रु’ इति पदस्य विपरीतार्थकं पदं किम्?
(क) बन्धुजन:
(ख) देवता
(ग) परा
(घ) गुरु:
उत्तराणि-
(क) बन्धुजनः
(iv) ‘विद्या राजसु पूज्यते न हि धनम्’ अत्र क्रियापदं किम्?
(क) विद्या
(ख) राजसु
(ग) पूज्यते
(घ) धनम्
उत्तराणि-
(ग) पूज्यते
(ग) न विद्यया विना सौख्यं नराणां जायते ध्रुवम्।
अतो धर्मार्थमोक्षेभ्यो विद्याभ्यासं समाचरेत् ॥८॥
न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि।
व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ॥१०॥
I. एकपदेन उत्तरत-
(i) सर्वधनप्रधानम् किम्?
उत्तराणि-
विद्याधनम्
(ii) चोरः किम् चोरयितुम् न शक्नोति?
उत्तराणि-
विद्याधनम्
(iii) राजा कस्य हरणं कर्तुम् न शक्नोति?
उत्तराणि-
विद्याधनस्य
(iv) व्यये कृते किम् वर्धते?
उत्तराणि-
विद्याधनम्
II. पूर्णवाक्येन उत्तरत-
(i) विद्यया विना किम् न जायते?
उत्तराणि-
विद्यया विना नराणाम् ध्रुवम् सौख्यम् न जायते।
(ii) विद्याभ्यासं किमर्थं समाचरेत्?
उत्तराणि-
धर्मार्थमोक्षेभ्यः विद्याभ्यासं समाचरेत्।
III. निर्देशानुसारम् उत्तरत-
(i) ‘दुःखम्’ इति पदस्य विपरीतार्थकं पदं किम्?
(क) हार्यम्
(ख) धर्मः
(ग) सौख्यम्
(घ) ध्रुवम्
उत्तराणि-
(ग) सौख्यम्
(ii) ‘स्थिरम्’ इत्यर्थे किं पदं प्रयुक्तम्?
(क) नित्यं
(ख) कृते
(ग) व्यये
(घ) ध्रुवम्
उत्तराणि-
(घ) ध्रुवम्
(iii) ‘नराणां’ अत्र का विभक्तिः?
(क) द्वितीया
(ख) पच्चमी
(ग) षष्ठी
(घ) सप्तमी
उत्तराणि-
(ग) षष्ठी
(iv) ‘सौख्यं नराणां जायते ध्रुवम्।’ अत्र क्रियापदं किम्?
(क) जायते
(ख) सौख्यं
(ग) नराणां
(घ) ध्रुवम्
उत्तराणि-
(क) जायते
The post Class 7 Sanskrit Chapter 6 MCQ क्रीडाम वयं श्लोकान्त्याक्षरीम् appeared first on Learn CBSE.