Quantcast
Channel: Learn CBSE
Viewing all 9305 articles
Browse latest View live

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 7 समासा:

$
0
0

Students can easily access the NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 7 समासा: Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 7 समासा:

1. अव्ययीभावः
अभ्यासः (पृष्ठ 49)

प्रदत्त-तालिकायां समस्तपदं विग्रहं वा लिखत
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 7 समासा 1.1

2. तत्पुरुषः
अभ्यासः (पृष्ठ 51)
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 7 समासा 1.2
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 7 समासा 1.3
कर्मधारयः
(विशेषण-विशेष्यौ)
अभ्यासः (पृष्ठ 52)

1. समस्तपदं विग्रह वा लिखत
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 7 समासा 1.4
द्विगु-समासः

अधोलिखित-तालिकायाम् समस्तपदं विग्रह वा लिख्यन्ताम्
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 7 समासा 1.5

3. द्वन्द्व-समासः

(i) इतरेतरद्वन्द्वः
(ii) समाहार द्वन्द्वः
(iii) एकशेषद्वन्द्वः

अभ्यासः (पृष्ठ 54)
अधोलिखिततालिकायां समस्तपदे भ्यः विग्रहं विग्रहेभ्यः च समस्तपदानि लिख्यन्ताम्
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 7 समासा 1.6

4. बहुव्रीहिः

अभ्यासः (पृष्ठ 55)

अधोलिखितसमस्तपदेभ्यः विग्रहाः, विग्रहेभ्यः च समस्तपदानि लिख्यन्ताम्
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 7 समासा 1.7

मिश्रिताभ्यासः (पृष्ठ 56)
अधोलिखितसमस्तपदेभ्यः विग्रहान् विग्रहेभ्यः च समस्तपदानि निर्माय तेषां नामानि अपि लिख्यन्ताम्
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 7 समासा 1.8

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 7 समासा 1.9

The post Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 7 समासा: appeared first on Learn CBSE.


Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया:

$
0
0

Students can easily access the NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया: Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया:

अभ्यासः (पृष्ठ 60)

1. शतृप्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत
(i) धावन्तः धावकाः यशः प्राप्नुवन्ति। (धाव्शत)
(ii) वस्त्राणि नयन् रजकः श्रान्तः भवति। (नी+शत)
(iii) जलं पिबन्तौ तृषार्ती सन्तुष्टौ स्तः। (पिब्+शतृ)
(iv) कथां शृण्वन्ती महिला शिशुं शाययति। (श्रुशतृ)
(v) कार्यं कुर्वन्त्यः स्त्रियः गीतं गायन्ति। (कृ+शतृ)

2. शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत
(i) गुरुं सेव्+शानच् सेवमानाः छात्राः सफलतां लभन्ते।
(ii) कष्टं सह + शानच् सहमानाः जनाः दुःखिनः भवन्ति।
(ii) सत्यं ब्रू+शानच् ब्रुवाणाः नराः सम्मानं प्राप्नुवन्ति।
(iv) तस्य वृध्+शानच् वर्धमाना प्रगतिः पितरं हृष्यति।
(v) मुद्+शानच् मोदमाना बालिका नृत्यति।

3. अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तर प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत
(क) कथां श्रु + शतृ महिलाः ज्ञानं लभन्ते।
शृण्वन्
शृण्वन्ती
शृण्वन्त्यः

(ख) गम् + शतृ बालिके चिन्तयतः।
गच्छन्ती
गच्छन्त्यौ
गच्छन्तौ

(ग) वद् + शतृ बालकम् आकारय।
वदन्
वदन्तौ
वदन्तम्

(घ) धाव् + शतृ क्रीडकेन पथिक: आहतः।
धावन्
धावन्तम्
धावता

(ङ) श्रान्तः भू + शतृ अरुणः स्वपिति।
भवन्
भवन्तौ
भवन्तः
उत्तराणि-
(क) शृण्वन्त्यः
(ख) गच्छन्त्यौ
(ग) वदन्तम्
(घ) धावता
(ङ) भवन्

अभ्यासः (पृष्ठ 62-63)

1. रिक्तस्थानानि पूरयत
(i) रामेण पाठः लेखितव्यः। (लिख्+तव्यत्)
(ii) लतया पुष्पाणि न त्रोटितव्यानि। (त्रुट+तव्यत्)
(iii) त्वया जलं वृथा न कर्त्तव्यम्। (कृ+तव्यत्)
(iv) त्वया उच्चैः न वदितव्यम्। (वद्+तव्यत्)
(v) अस्माभिः बहिः भ्रमितव्यम्। (भ्रम्+तव्यत्)
(vi) सर्वैः सत्यं वदितव्यम्। (वद्+तव्यत्)
(vii) युष्माभिः सन्तुलितभोजनम् एव खादितव्यम्। (खाद्+तव्यत्)
(viii) अमितेन अवश्यमेव तत्र गन्तव्यम्। (गम्+तव्यत्)
(ix) नकुलेन पाठाः पठितव्याः । (पठ्+तव्यत्)
(x) तैः धर्मः पालयितव्यः। (पाल्+तव्यत्)

2. कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत
(i) मया एतत् कार्यं कर्त्तव्यम्। (अस्मद्)
(ii) त्वया खगाः रक्षणीयाः। (युष्मद)
(iii) नमितेन पाठाः पठितव्याः । (नमित)
(iv) सर्वैः अनुशासनं पालयितव्यम्। (सर्व)
(v) सैनिकैः देशरक्षा कर्तव्या। (सैनिक)
(vi) जनैः मधुरं वक्तव्यम्। (जन)
(vii) श्रमिकैः परिश्रमः कर्त्तव्यः। (श्रमिक)
(viii) अध्यापकेन नियमाः पालयितव्याः। (अध्यापक)
(ix) शिक्षकेन मनसा पाठयितव्यम्। (शिक्षक)
(x) तेन लेखौ लिखितव्यौ। (तत्)

3. कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत
(i) न्यायाधीशेन न्यायः कर्त्तव्यः। (न्याय)
(ii) त्वया पौष्टिक भोजनम् खादितव्यम्। (पौष्टिक भोजन)
(iii) सर्वैः प्रातः भ्रमणम् कर्त्तव्यम्। (भ्रमण)
(iv) तेन कथाः पठितव्याः। (कथा)
(v) अस्माभिः पाठाः स्मर्तव्याः। (पाठ)
(vi) युष्माभिः सुचरितानि एव सेवितव्यानि। (सुचरित)
(vii) जनैः सुकार्याणि एव कर्त्तव्यानि। (सुकार्य)
(vii) छात्रैः प्रश्नाः प्रष्टव्याः। (प्रश्न)
(ix) बालैः जलम् न दूषयितव्यम्। (जल)
(x) युष्माभिः पुष्पाणि न त्रोटयितव्यानि। (पुष्प)

अभ्यासः (पृष्ठ 64)

1. अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत
पदानि — अनीयर
(i) अस्माभिः धर्मः आचरणीयः। — आचरणीयः
(ii) जनैः परिश्रमः करणीयः। — करणीयः
(iii) सर्वैः पर्यावरणस्य रक्षा करणीया। — करणीया
(iv) बालैः नियमाः पालनीयाः। — पालनीयाः
(v) त्वया एषः पाठः पठनीयः। — पठनीयः
(vi) सर्वैः समयस्य अनुपालनं कर्त्तव्यम्। — कर्तव्यम्
(vii) त्वया कदापि वृथा न वदनीयम्। — वदनीयम्
(viii) अनेन एतत् न करणीयम्। — करणीयम्
(ix) अस्माभिः दूषितं जलं न पानीयम्। — पानीयम्
(x) युष्माभिः पर्युषितम् अन्नं न खादनीयम्। — खादनीयम्

2. कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत (पृष्ठ 65)
(i) युष्माभिः प्रातः उत्थाय पठनीयम्। (पठ्+अनीयर्)
(ii) जनैः सर्वदा सर्वेषां कल्याणं करणीयम्। (कृ+अनीयर्)
(iii) अस्माभिः सुकार्याणि करणीयानि। (कृ+अनीयर्)
(iv) सर्वैः ईशवन्दना स्मरणीया। (स्मृ+अनीयर्)
(v) त्वया मधुराणि वचनानि वदनीयानि। (वद्+अनीयर्)
(vi) सैनिकैः दु:खं न गणनीयम्। (गण+अनीयर्)
(vii) अस्माभिः धर्मः आचरणीयः। (आ+ चर्+अनीयर्)
(vii) त्वया वृथा न वक्तव्यम्। (वच्+अनीयर्)
(ix) जनैः प्रातः जागरणीयम्। (जागृ+अनीयर्)

3. उदाहरणानुसारं लिखत — (पृष्ठ 66)
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया 1

अभ्यासः — (पृष्ठ 68)

1. अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्ति कुरुत
(i) (बल + इन्) बलिनः जनाः निर्बलेषु बलप्रयोग न कुर्युः।
(ii) रथिनम् (रथ + इन्) जनम् वार्तायां मग्नं न कर्तव्यम्।
(iii) शिल्पिन्यः (शिल्प + इन्) बालिकाः कुत्र गताः?
(iv) दण्डिनि (दण्ड + इन्) जने न विश्वसिहि।
(v) (कर + इन्) करी वने वसति।
(vi) धनिनः (धन + इन्) गर्विताः न भवेयुः।
(vii) सीता अवदत् – अहम् कुशली (कुशल + इन्) अस्मि।
(viii) बलिनौ (बल + इन्) अपमानं न सहेते।
(ix) (गुण + इन्) गुणिना जनेन एतत् कार्यं सुष्ठु कृतम्।
(x) दण्डिनः (दण्ड + इन्) दण्डं धारयन्ति।

2. प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य/वियुज्य लिखत
(i) बुद्धिमती (बुद्धि + मतुप्) नारी प्रशस्यते।
(ii) एतौ छात्रौ (शक्ति + मतुप्) शक्तिमानौ स्तः।
(iii) ताः कन्याः गुणवत्यः (गुण+ मतुप्) सन्ति।
(iv) लक्ष्मीवान् (लक्ष्मी + मतुप्) लक्ष्म्याः आदरं कुर्यात्।
(v) धनवन्तः (धन + वतुप्) जनाः दरिद्राणां सहायतां कुर्वन्तु।
(vi) सत्यवत्यै (सत्य + मतुप्) नार्थे पुस्तकं यच्छ।
(vii) (सत्य + वतुप्) सत्यवद्भिः जनैः सदा सत्यभाषणं क्रियते।
(vii) बलवता (बल + मतुप्) जनेन निर्बलेषु बलं न प्रयोक्तव्यम्।
(ix) (शक्ति + मतुप्) शक्तिमती नार्या इदं कार्यं कृतम्।
(x) गुणवद्भिः (गुण + मतुप्) छात्रैः ध्यानेन पठ्यते।

इदानीमस्याः तालिकायाः माध्यमेन अवगच्छामः (पृष्ठ 70)

लघु — लघुता लघुत्वम्
महत् — महत्ता महत्त्वम्
दीर्घ – दीर्घता दीर्घत्वम्
गुरु – गुरुता गुरुत्वम्
पवित्र – पवित्रता पवित्रत्वम्
छात्राः – तालिकां पूरयन्ति।
शिक्षकः – अधुना वाक्येषु एतयोः अभ्यासं कुर्मः।

(पृष्ठ 70)
अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
(i) कृष्णसुदाम्नोः मित्रता (मित्र + तल्) विश्वप्रसिद्धा।
(ii) विद्वत्वम् (विद्वस् + त्व) च नृपत्वम् (नृप + त्व) च नैव तुल्यम्।
(iii) कार्येषु दीर्घसूत्रता (दीर्घसूत्र + तल्) कदापि न कर्तव्या।
(iv) आकारस्य (लघु + त्व) लघुत्वम् कार्यबाधकः न भवेत्।
(v) पशवः स्वपशुत्वम् (स्वपशु + त्व) तु दर्शयन्ति एव।
(vi) वेदानां (महत् + त्व) महत्त्वम् को न जानाति।
(vii) गङ्गायाः पवित्रता (पवित्र + तल्) जगत्प्रसिद्धा।
(viii) मूर्खः स्वमूर्खतां (स्वमूर्ख + तल्) सभायां न प्रदर्शयेत्।
(ix) नदीनां (दीर्घ + तल) दीर्घता चिन्तनात् परः विषयः।
(x) मित्रेण सह मित्रत्वम् (मित्र + त्व) कदापि न त्याज्यम्।

अभ्यासः — (पृष्ठ 72)

1. अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत
(i) धार्मिकाः (धर्म + ठक्) जनाः धर्मम् एव आचरन्ति।
(ii) अद्य वार्षिक: (वर्ष + ठक्) परीक्षापरिणामः प्राप्स्यते।
(iii) अद्य वयं ऐतिहासिकानि (इतिहास + ठक्) स्थलानि द्रष्टुं गच्छामः।
(iv) प्राथमिकी (प्रथम + ठक्) शिक्षा बाल्यतः एव भवति।
(v) सैनिकाः (सेना + ठक्) देशं रक्षन्ति।
(vi) अधुना आध्यात्मिकी (अध्यात्म + ठक्) शिक्षा अनिवार्या।
(vii) नागरिकाः (नगर + ठक्) एव देशम् उन्नयन्ति।
(viii) एताः वैज्ञानिकाः (विज्ञान + ठक्) चिन्तायां मग्नाः सन्ति।

2.’ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत
(i) भौतिकी उन्नतिरपि अनिवार्या। — भौतिकी
(ii) अधुना वार्षिक कार्य सम्पन्नम्। — वार्षिकं
(iii) सैनिकाः देशम् उन्नयन्ति। — सैनिकाः
(iv) दैविकी विपदा कष्ठकरी भवति। — दैविकी
(v) एषः सार्वभौमिकः सिद्धान्तोऽस्ति। — सार्वभौमिकः
(vi) सार्वकालिकाः उपदेशाः एते। — सार्वकालिकाः
(vii) सामाजिक कार्यम् एव एतत्। — सामाजिकं
(viii) वैज्ञानिकाः अन्वेषणे रताः भवन्ति। — वैज्ञानिकाः
(ix) भारतस्य भौगोलिकी स्थितिः सुन्दरा अस्ति। — भौगोलिकी
(x) एषा कवेः मौलिकी कृतिः। — मौलिकी

अभ्यासः (पृष्ठ 74)

1. शुद्धं विकल्पं चित्वा रिक्तस्थानानि पूरयत
(1) इयं छात्रा पठति। (छात्रः/छात्रा)
(ii) बालिकासु प्रथमा अध्ययनशीला अस्ति। (प्रथमः/प्रथमा)
(iii) शोभनानां भोजनानां दात्री भव। (दातृ/दात्री)
(iv) एषा तपस्विनी हवनं करोति। (तपस्वी/तपस्विनी)
(v) गङ्गा एका नदी अस्ति। (नद/नदी)

2. कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः/कुर्वन्त्यः रिक्तस्थानानि पूरयत
मञ्जूषा- श्रीमती, प्राध्यापिका, नदी, तपस्विन्या, नदीम्, प्रथमा, मातुलानी, बालिकाः, गच्छन्ती, मेधाविनी, छात्राः
(i) इयम् एका नदी अस्ति।
(ii) नदीम् परितः वृक्षाः सन्ति।
(iii) तपस्विन्या सह तस्य पुत्रः अपि प्रवचनं करोति।
(iv) एताः बालिकाः सन्ति।
(v) ताः सर्वाः छात्राः सन्ति।
(vi) प्रथमा वाचाला अस्ति।
(vii) ग्रामं गच्छन्ती श्रमिका श्रान्ता अस्ति।
(viii) एषा बालिका मेधाविनी अस्ति।
(ix) मम मातुलानी विदेशं गच्छति।
(x) श्रीमती रमा एका प्राध्यापिका अस्ति।

3. अधोलिखिते अनुच्छेदे रेखाङ्कितपदानि स्त्रीलिङ्गे परिवर्त्य अनुच्छेदं पुनः लिखत (पृष्ठ 75)
एक: बालकः ग्रामे वसति। सः विद्यालयं गच्छति। तेन सह तस्य भ्राता अपि गच्छति।
तस्य शिक्षकः तं प्रेम्णा पाठयति। विद्यालये अनेके छात्राः सन्ति। तेषु एकः अत्यधिक: मेधावी अस्ति।

एका बालिका ग्रामे वसति। सा विद्यालयं गच्छति।
तया सह तस्याः भ्राता अपि गच्छति।
तस्याः शिक्षिका ताम् प्रेम्णा पाठयति।
विद्यालये अनेकाः छात्राः सन्ति।
तासाम् एका अत्यधिका मेधाविनी अस्ति।

The post Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 8 प्रत्यया: appeared first on Learn CBSE.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि

$
0
0

Students can easily access the NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि

अभ्यासः
अव्ययपदानि — (पृष्ठ 78)

1. अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत
वाक्यानि — अव्ययपदानि
(i) एकदा तस्य भार्या पितुर्गृहं प्रति चलिता। — एकदा
(ii) भवान् कुतः भयात् पलायितः। — कुतः
(iii) तत्र गम्यताम्। — तत्र
(iv) त्वं सत्वरं चल। — सत्वरं
(v) तेन सदृशं न अस्ति। — सदृशं न
(vi) गीता सुगीता च वदतः। — च
(vii) यदा सः पठति तदा एव शोभते। — यदा, तदा, एव
(viii) तापसौ लवकुशौ ततः प्रविशतः। — ततः
(ix) अलम् अतिदाक्षिण्येन। — अलम्
(x) अहम् अपि श्रावयामि। — अपि

2. उचिताव्ययपदैः रिक्तस्थानानि पूरयत
मञ्जूषा- सर्वत्र, एव, इति, ननु, एवम्, तत्र, उच्चैः,तथापि, बहुधा, मा
(i) मम गुरुः ननु भगवान् वाल्मीकिः।
(ii) कः एवम् भणति?
(iii) कुपिता सा उच्चैः वदति।
(iv) त्वं तत्र गच्छ।
(v) यूयं चापलं मा कुरुत।
(vi) कृषीवल: बहुवारं प्रयत्नमकरोत् तथापि वृषः नोत्थितः।
(vii) कृषक: बलीव बहुधा पीडयति।
(viii) बहूनि अपत्यानि मे सन्ति इति सत्यम्।
(ix) सर्वेषु अपत्येषु जननी तुल्यवत्सला एव ।
(x) सर्वत्र जलोपप्लवः सञ्जातः।

3. विपर्ययाव्ययपदैः सह योजयत (पृष्ठ 79)
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि 1

4. उचिताथैः सह मेलनं कुरुत
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि 2

5. उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत–
मञ्जूषा- यथा-तथा, यदि-तर्हि, यथैव-तथैव, यावत्-तावत्, यत्र-तत्र।
(1) यथा लवः तथा कुशः।
(ii) यदि अहं कृष्णवर्णः तर्हि त्वं किं गौराङ्गः!
(iii) यथैव गुरुः वदति तथैव शिष्यः करोति।
(iv) यत्र वृक्षाः तत्र खगाः।
(v) यावत् लता आगच्छति तावत् त्वं तिष्ठ।

6. उदाहरणानुसारं लिखत
(i) श्वः सोमवासरः
(ii) परश्वः मंगलवासरः
(iii) अद्य रविवासरः
(iv) ह्यः शनिवासरः
(v) अधुना अवकाशः

7. पर्यायाव्ययपदानि लिखत
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि 3

The post Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 9 अव्ययानि appeared first on Learn CBSE.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 10 समय:

$
0
0

Students can easily access the NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 10 समय: Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 10 समय:

अभ्यासः (पृष्ठ 82)

1. अधोलिखितवाक्येषु उदाहरणानुसारं समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत
उदाहरणम् द्वितलीयरेलवाहनं ……………….. (10:15) वादने जयपुरं प्राप्नोति।
द्वितलीयरेलवाहनं सपाददशवादने जयपुरं प्राप्नोति।
(i) पुरुषोत्तम-एक्सप्रेस इति रेलयानं सार्धनव (9:30) वादने पुरीतः प्रस्थानं करोति।
(ii) चेतक-एक्सप्रेस इति रेलयानं पादोनपञ्च (4:45) वादने दिल्लीम् आगच्छति।
(iii) हावड़ा-एक्सप्रेस एकादश (11:00) वादने हावड़ास्थानकं प्राप्नोति।
(iv) रेलयानमेकं सपादाष्ट (8:15) वादने उत्तराञ्चलं प्रति गच्छति।

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 10 समय 1

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 10 समय 2

2. अधोलिखितवाक्येषु उदाहरणानुसारं समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत
उदाहरणाम्
माता प्रातः पञ्च (5:00) वादने उत्तिष्ठति।
माता प्रातः पञ्चवादने उत्तिष्ठति।
(i) राहुल: प्रातभ्रमणाय सपादषड् (6:15) वादने उद्यानं गच्छति।
(ii) मल्लिका सार्धसप्त (7:30) वादने प्रातराशं करोति।
(iii) अनन्या पादोनषड् (5:45) वादने क्रीडति।
(iv) सर्वे दश (10:00) वादने शयनं कुर्वन्ति।

3. अधोलिखितवाक्येषु समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत(पृष्ठ 83)
उदाहरणम्
प्रातः सप्त (7:00) वादनतः पादोनाष्ट (7:45) वादनपर्यन्तं विद्यालये प्रार्थनासभा भवति।
प्रातः सप्तवादनतः पादोनाष्टवादनपर्यन्तं विद्यालये प्रार्थनासभा भवति।
(i) सपादाष्ट (8:15) वादनतः नव (9:00) वादनपर्यन्तं विज्ञानविषयस्य कालांशः भवति।
(ii) वयं नव (9:00) वादनतः पादोनदश (9:45) वादनपर्यन्तं गणितविषयं पठामः।
(iii) पादोनत्रि (2:45) वादनतः सार्धत्रि (3:30) वादनपर्यन्तं हिन्दीभाषाकालांशः भवति।
(iv) संस्कृतशिक्षकः सपाददश (10:15) वादने अध्यापयति।

4. अधोलिखितवाक्येषु समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत- ‘
उदाहरणम्
छात्रः पञ्च (5:00) वादने उत्तिष्ठति सपादषड् (6:15) वादने व्यायाम करोति।
छात्रः पञ्चवादने उत्तिष्ठति सपादषड्वादने व्यायामं करोति।
(i) छात्रः सार्धसप्त (7:30) वादने प्रातराशं कृत्वा पादोनदश (9:45) वादने विद्यालयं गच्छति।
(ii) चतुर् (4:00) वादने गृहमागत्य सार्धचर्तु (4:30) वादनपर्यन्तं विश्रामं करोति।।
(iii) पञ्च (5:00) वादने भोजनं कृत्वा सार्धनव (9:30) वादनपर्यन्तम् अध्ययनं करोति।
(iv) रात्रौ पादोनदश (9:45) वादनतः पञ्च (5:00) वादनपर्यन्तं शयनं करोति।

The post Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 10 समय: appeared first on Learn CBSE.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 11 वाच्यम्

$
0
0

Students can easily access the NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 11 वाच्यम् Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 11 वाच्यम्

अभ्यासः (पृष्ठ 86-87)

प्रश्न 1.
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत

(i) बालकः पायसं खादति।
उत्तर:
बालकेन पायसः खाद्यते।

(ii) अहं फलं खादामि।
उत्तर:
मया फलं खाद्यते।

(ii) त्वं किं शृणोषि?
उत्तर:
त्वया किं श्रूयते?

(iv) आवां चित्राणि पश्यावः।
उत्तर:
आवाभ्याम् चित्राणि दृश्यन्ते।

(v) वयं पाठं स्मरामः।
उत्तर:
अस्माभिः पाठः स्मर्यते।

(vi) बालकौ धावतः।
उत्तर:
बालकाभ्याम् धाव्यते।

(vii) कुक्कुराः इतस्ततः भ्रमन्ति।
उत्तर:
कुक्कुरैः इतस्ततः भ्रम्यते।

(viii) गजः शनैः शनैः चलति।
उत्तर:
गजेन शनैः शनैः चल्यतेः।

(ix) वानरः कूर्दति।
उत्तर:
वानरेन कूद्यते।

(x) अहं शाटिकां क्रीणामि।
उत्तर:
मया शाटिका क्रीयते।

प्रश्न 2.
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत

(i) श्रमिकः भारं वहति।
उत्तर:
श्रमिकेण भारः उह्यते।

(ii) सः पाषाणं त्रोटयति।
उत्तर:
तेन पाषाणं त्रोट्यते।

(iii) सा गीतं गायति।
उत्तर:
तया गीतं गीयते।

(iv) माता रोटिकां पचति।
उत्तर:
मात्रा रोटिका पच्यते।

(v) पिता फलानि आनयति।
उत्तर:
पित्रा फलानि आनीयन्ते।

(vi) सेवकः सेवां करोति।
उत्तर:
सेवकेन सेवा क्रियते।

(vii) चिकित्सकः उपचारं करोति।
उत्तर:
चिकित्सकेन उपचारः क्रियते।

(viii) नीलिमा पाठं स्मरति।
उत्तर:
नीलिमया पाठः स्मर्यते।

(ix) अहं गृहं गच्छामि।
उत्तर:
मया गृहं गम्यते।

(x) आवां लेखान् लिखावः।
उत्तर:
आवाभ्यां लेखाः लिख्यन्ते।

प्रश्न 3.
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत

(i) अहं जलं पिबामि।
उत्तर:
मया जलं पीयते।

(ii) आवां विद्यालयं गच्छावः
उत्तर:
आवाभ्यां विद्यालयः गम्यते।

(iii) वयं ग्रामं गच्छामः।
उत्तर:
अस्माभिः ग्रामः गम्यते।

(iv) त्वं फलानि खादसि।
उत्तर:
त्वया फलानि खाद्यन्ते।

(v) छात्रः अध्ययनं करोति।
उत्तर:
छात्रेण अध्ययनं क्रियते।

(vi) अहं श्रान्तः भवामि।
उत्तर:
मया श्रान्तः भूयते।

(vii) बालकः क्रीडति।।
उत्तर:
बालकेन क्रीड्यते।

(vii) शिष्यः गुरुं सेवते।
उत्तर:
शिष्येण गुरुः सेव्यते।

(ix) पाचकः भोजनं पचति।
उत्तर:
पाचकेन भोजनं पच्यते।

(x) धावकः धावति।
उत्तर:
धावकेन धाव्यते।

The post Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 11 वाच्यम् appeared first on Learn CBSE.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 12 अशुद्धिसंशोधना

$
0
0

Students can easily access the NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 12 अशुद्धिसंशोधना Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 12 अशुद्धिसंशोधना

1. अधोलिखितानि वाक्यानि शुद्धानि कुरुत

(i) वयं चित्रं पश्यन्ति। — ते चित्रं पश्यन्ति।
(ii) भवान् भोजनं खाद। — भवान् भोजनं खादतु।
(iii) त्वं पाठं स्मरतु। — त्वं पाठं स्मर। सः पीतं वस्त्रं धारयति।
(iv) सः पीतः वस्त्रं धारयति। — सः पीतं वस्त्रं धारयति।
(v) त्रीणि वृक्षाः तत्र शोभन्ते। — त्रयः वृक्षाः तत्र शोभन्ते।
(vi) ताः महिलाः न गमिष्यति। — ताः महिलाः न गमिष्यन्ति।
(vii) त्वम् किं क्रियते? — त्वया किं क्रियते?
(viii) पिता श्वः आगच्छति। — पिता श्वः आगमिष्यति।
(ix) युष्माभिः किं पठन्ति? — ते/ताः किं पठन्ति?
(x) सः तत्र न सन्ति। — ते तत्र न सन्ति।
(xi) अमितेन एतत् कार्यं करोति। — अमितेन एतत् कार्य क्रियते।
(xii) यूयं तत्र न गन्तव्यम्। — युष्माभिः तत्र न गन्तव्यम्।
(xiii) मया एतानि फानि खादितव्यम्। — मया एतानि फलानि खादितव्यानि।
(xiv) कन्याः पाठं पठति। — कन्या पाठं पठति।
(xv) अम्बा भोजनं पचन्ति। — अम्बा भोजनं पचति।
(xvi) तेन भोजनं खादनीयानि। — तेन भोजनं खादनीयम्।
(xvii) अम्बा तत्र सन्ति। — अम्बा तत्र अस्ति।
(xviii) त्वम् जलं पानीयम्। — त्वया जलं पानीयम्।
(xix) ते लेखान् लिखति। — सः लेखान् लिखति।
(xx) अस्माभिः फलानि खाद्यते। — अस्माभिः फलम् खाद्यते।

The post Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 12 अशुद्धिसंशोधना appeared first on Learn CBSE.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 13 मिश्रिताभ्यासः

$
0
0

Students can easily access the NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 13 मिश्रिताभ्यासः Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 13 मिश्रिताभ्यासः

अभ्यासः-I (पृष्ठ 94-95)

प्रश्न 1.
अधोलिखितम् अनुच्छेद पठित्वा प्रश्नान् उत्तरत

I. एकपदेन उत्तरत
(क) कः हतोत्साहः अभवत्?
(ख) असफलतायाः कारणात् सुवीरस्य मनसि कस्य भावना जागृता?
(ग) पिपीलकः भित्तौ किं प्राप्नोति?
(घ) सुवीरः पुनः पुनरभ्यासेन किं स्थान प्राप्तवान्?
उत्तर:
(क) सुवीरः
(ख) आत्मघातस्य
(ग) मिष्टान्नम्
(घ) विशिष्टम्

II. पूर्णवाक्येन उत्तरत
(क) सुवीरः आत्मघातस्य भावनां निन्दयन् किं चिन्तयति?
(ख) के वसुधायां वसूनि प्राप्नुवन्ति?
उत्तर:
(क) सुवीरः आत्मघातस्य भावनां निन्दयन् चिन्तयति यत् यदि एषः पिपीलक: सततप्रयासेन सफल: भवितुम् शक्नोति तर्हि न किमपि असम्भवं जगति।
(ख) परिश्रमशीला: वीराः एव वसुधायां वसूनि प्राप्नुवन्ति।

III. यथानिर्देशम् उत्तरत
(क) ‘सः अन्ततः भित्तिम् आरोहति’- अत्र किम् अव्यय-पदम्?
(ख) ‘संसारे’ इति पदस्य किं समानार्थकपदम् अनुच्छेदे प्रयुक्तम्?
(ग) ‘तस्य विवेकः जागृतः अभवत्’-अत्र किं कर्तृपदम्?
(घ) ‘वसुधायां बहूनि वसूनि सन्ति’-अत्र किं विशेषणपदम्?
उत्तर:
(क) अन्ततः
(ख) जगति
(ग) विवेकः
(घ) बहूनि

प्रश्न 2.
‘आत्मघातः कस्याः अपि समस्यायाः समाधानं न भवति’ एतद्विषयम् अधिकृत्य एकम् लघुम् अनुच्छेदं लिखत (पृष्ठ 95)
उत्तर:
आत्मघातः कस्याः अपि समस्यायाः समाधानं न भवति मानवस्य जीवने असफलतायाः कारणात् आत्मघातस्य भावना जागृता भवति। परम् आत्मघातः कस्याः अपि समास्यायाः समाधानं न भवति बल्कि अनेन समस्या वर्धते। ईश्वरेण प्रदत्तम् अमूल्यं सुन्दरं जीवनं किमर्थं नैराश्यणेन समाप्तम् करणीयम्? यदि जीवने काऽपि समस्या भवेत् तर्हि तस्याः निवारणाय जीवने च साफल्यं लब्धुम् अधिकतराः प्रयासाः कर्तव्याः। जगति किमपि असम्भवं नास्ति। एतद् विचार्य सततप्रयासेन सफलः भवितुम् शक्नोति।

प्रश्न 3.
“पठनस्य के लाभाः’ इति वर्णनं कुर्वन्तः मित्रं प्रति पत्रमेकं लिखत (पृष्ठ 95)
उत्तर:

दिल्लीतः
दिनाङ्कः 16-7-2020

प्रिय मित्र शंकर!
सस्नेहं नमोनमः।
अत्र कुशलं तत्रास्तु। तव पत्रेण मया ज्ञातम् यत् गतपरीक्षायां तव परीक्षाफलम् उत्तमम् नासीत्। एतद् ज्ञात्वा अहम् चिन्ताकुलः अस्मि। अस्मिन् पत्रे अहम् तुभ्यं पठनस्य अभ्यासस्य च महत्त्वम् वर्णयामि। मित्र! जीवने शिक्षायाः अतिमहत्त्वम् अस्ति।
त्वम् मनोयोगेन पठनं कुरु। कक्षायाम् पाठितस्य पाठस्य प्रतिदिनं पुनरावृतिः अत्यावश्यकी। पठनस्य सुरुचिं पोषयितुम्, ज्ञानपिपासां शमयितुं ज्ञानविज्ञानस्य विकासाय च योग्यं साहित्यं साहाय्यं भवति। त्वया महापुरुषाणाम् उपदेशपूरकानि पुस्तकानि पठितव्यानि। तेषाम् पठनेन त्वम् न केवलं जीवने सफलः भवे: अपितु सदाचारी देशभक्तः चापि। अतः सुरुचिकरं पठनं अवश्यमेव कर्त्तव्यम्। त्वम् दृढनिश्चयेन कठोरपरिश्रमेण अध्ययनेन च भविष्ये शोभनान् अङ्कान् एव प्राप्स्यसि इति मे आशा अस्ति। गृहे सर्वेभ्यः मम प्रणामाञ्जलिः निवेदनीया।
भवतः
मित्रम् वासुदेवः

प्रश्न 4.
सन्धिच्छेदः सन्धिः वा क्रियताम् (पृष्ठ 95)
(i) हतोत्साहः — हत + उत्साहः
(ii) विवेक:+जागृतः — विवेको जागृतः
(iii) स:+अन्ततः — सोऽन्ततः
(iv) एतद्विचिन्त्य — एतत् + विचिन्त्य

प्रश्न 5.
समासं विग्रहं वा कृत्वा वाक्यानि पुनः लिखत

(i) सुवीरः हतः उत्साहः यस्य सः भूत्वा एकस्मिन् कोणे तिष्ठति।
उत्तर:
सुवीरः हतोत्साहः भूत्वा एकस्मिन् कोणे तिष्ठति।

(ii) तस्य मनसि आत्मघातस्य भावना जागृता।
उत्तर:
तस्य मनसि आत्मनः घातस्य भावना जागृता।

(iii) सः अभ्यासं कुर्वन् कक्षायां विशिष्ट स्थान प्राप्तवान्।
उत्तर:
सः अभ्यासं कुर्वन् कक्षायां विशिष्टस्थान प्राप्तवान्।

(iv) वत्स! वीरैः भोग्या वसुन्धरा।
उत्तर:
वत्स! वीरभोग्या वसुन्धरा।

प्रश्न 6.
उचित-प्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत
(i) पठनम् अरुचिकर मनमानाः (मन्+शानच्) छात्राः सफलाः न भवन्ति।
(ii) सततप्रयासेन मन्दोऽपि सफलः भवितुम् (भू+तुमुन्) शक्नोति।
(iii) अस्मिन् वर्षे अहम् कक्षायां विशिष्ट स्थान प्राप्तवान् । -(प्र+आप+क्तवतु)
(iv) पुनः पुनः पतित्वा अपि हतोत्सहितः न भवितव्यम् । (भू+तव्यत्)

प्रश्न 7.
प्रदत्तवाक्यानां वाच्यपरिवर्तनम् कृत्वा लिखत
(i) सुवीरः एकस्मिन् कोणे तिष्ठति। — सुवीरेन एकस्मिन् कोणे स्थीयते।
(ii) पिपीलक: अन्तत: भित्तिम् आरोहति। — पिपीलकेन अन्ततः भित्तिम् आरोह्यते
(ii) शिक्षकेण तस्य प्रशंसा क्रियते। — शिक्षकः तस्य प्रशंसां करोति।
(iv) परिश्रमशीलैः वीरैः एव वसूनि प्राप्यन्ते। — परिश्रमशीला: वीराः एव वसूनि प्राप्नुवन्ति।

प्रश्न 8.
प्रदत्तवाक्यानां संस्कृतभाषया अनुवादं कुरुत
(i) उसका विवेक जागृत हो जाता है। — तस्य विवेकः जागृतः भवति।।
(ii) उसने वृक्ष पर चढ़ते हुए साँप को देखा। — सः वृक्षम् आरोहन्तम् सर्पम् अपश्यत्।
(ii) हमें पुनः पुनः पाठों का अभ्यास करना चाहिए। — वयम् पुनः पुनः पाठानाम् अभ्यासं कुर्याम।
(iv) मुझे पढ़ना अच्छा लगता है। — मह्यम् पठनम् रोचते।

प्रश्न 9.
प्रदत्तानि वाक्यानि शुद्धानि कृत्वा पुनः लिखत (पृष्ठ 97)
(i) बालकः एकस्मिन् कोणे तिष्ठति। — बालक: कक्षस्य एकस्मिन् कोणे तिष्ठति।
(ii) सः भित्तिम् आरोहन्तं पिपीलकं पश्यति। — सः भित्तिम् आरोहन्तं एकं पिपीलकं पश्यति।
(iii) वसुधायां बहूनि वसूनि सन्ति। — वसुधायां बहूनि वस्तूनि सन्ति।
(iv) अहम् उत्साहितः भूत्वा तत्रागच्छम्। — उत्साहितः भूत्वा अहम् तत्र अगच्छम्।

अभ्यासः-II (पृष्ठ 97-98)

प्रश्न 1.
लिखितमनुच्छेद पठित्वा निर्देशानुसारं प्रश्नान उत्तरत
I. एकपदेन उत्तरत
(क) प्रसादे केषां हानिः भवति?
(ख) ये समस्यायां प्राप्तायां केवलं हाहाकारं कुर्वन्ति तेषां दुःखेषु किं भवति?
उत्तर:
(क) सर्वदुःखानाम्
(ख) वृद्धिः

II. पूर्णवाक्येन उत्तरत
(क) प्रतिकूलपरिस्थिती: विरुध्य के विजयम् अधिगच्छन्ति?
(ख) किं कदापि न कर्तव्यं किम् च न त्याज्यम्?
उत्तर:
(क) विपरीतपरिस्थितिषु ये धैर्य न त्यजन्ति ते सर्वदा आन्तरिकप्रसन्नतायाः माध्यमेन प्रतिकूल-परिस्थिती: विरुध्य विजयम् अधिगच्छन्ति।
(ख) विषादः कदापि न कर्त्तव्यः, प्रसन्नता च कदापि न त्याज्या।

III. निर्देशानुसारम् उत्तरत (पृष्ठ 98)
(क) ‘पराजयम्’ इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
(ख) ‘तेषाम् दुःखेषु वृद्धिः भवति’ इति वाक्यांशे ‘भवति’ इति क्रियापदस्य कर्तृपदं किम् अस्ति?
(ग) ‘सर्वेषाम्’ इति सर्वनामपदम् अत्र केभ्यः प्रयुक्तम्?
(घ) ‘स्वस्य’ इति पदस्य किं पर्यायपदम् अत्र आगतम्?
उत्तर:
(क) विजयम्
(ख) वृद्धिः
(ग) दु:खेभ्यः
(घ) आत्मनः

IV. गद्यांशस्य कृते समुचितं शीर्षकं लिखत।
उत्तर:
‘मनसः प्रसन्नता अत्यावश्यकी’

प्रश्न 2.
प्रसन्नतायाः महत्त्वविषये पञ्चवाक्यमितम् अनुच्छेदं सरलसंस्कृतेन लिखत (पृष्ठ 98)
उत्तर:
अनुच्छेदः-मानवः जीवने सर्वविधं सुखं वाञ्छति। यदि मनः प्रसन्नं भवति तदैव सुखं भवति। मनः सन्तोषेण प्रसन्न भवति अन्यथा लालसा वर्धते सुखम् च नश्यति। अस्माकं वाण्याम् यदि माधुर्यम् भवेत् तदा मनः अपि प्रसन्नं भवति। परितुष्टे मनसि जीवन सुखमयं प्रसन्नमयं आनन्दमयं च भवति। सर्वेषाम् दुःखानाम् अभावस्य कृते मनसः प्रसन्नता
अनिवार्या अस्ति। सदाचारं पालनेन, अन्येषां सेवाभावनया सकारात्मकविचारैः मनः प्रसन्नं भवति।

प्रश्न 3.
गृहे पितुः रुग्णतायाः कारणेन भवतः/भवत्याः मित्रम् दुःखितः अस्ति। तं सान्त्वयन् पत्रमेकं सरलसंस्कृतेन लिखत
दिल्लीत:
दिनाङ्कः ………………
प्रिय मित्र माधव।
सप्रेम नमोनमः
अत्र सर्वविधं कुशलम्, तत्र कुशलम् ईश्वरं प्रार्थये। अद्यैव भवतः पत्रात् मया ज्ञातम् यत् गृहे तव पिता रुग्णः अस्ति अतः त्वम् पितुः रुग्णतायाः कारणेन दुःखितः असि। त्वम् जानासि यत् मम पितृमहोदयः प्राकृतिक: चिकित्सकः अस्ति। अहम् तेन सह तव पितुः रुग्णतायाः विषये चर्चा कृतवान्। तेन स्वास्थ्यरक्षणाय ये निर्देशाः दत्ताः, तान् अहम् संक्षेपेण लिखामि।
(1) प्रातः सूर्योदयात् पूर्वं उत्थाय प्रतिदिनं भ्रमणं व्यायामः च करणीयः।
(2) पौष्टिकं स्वल्पं च आहारं कर्त्तव्यम्।
(3) प्रतिदिनं पर्याप्तम् जलं पातव्यम् परम् भोजनेन सह जलं न पानीयम्।
(4) भोजनं शनैः शनैः चर्वणपूर्वकम् प्रसन्नमनसा भक्षणीयम्।
(5) रात्रौ दशवादने शयितव्यम्।
आशा अस्ति तव पित्रा एताः नियमाः पालनीयाः। एवमेव सः शीघ्रमेव स्वस्थः भविष्यति चिन्ता मा करणीया। समये-समये पितः स्वास्थ्यविषये त्वया अवश्यमेव सूचनीयम्। सर्वेभ्यः मम प्रणामाः कथनीयाः।
भवत: मित्रम्
शिवः

प्रश्न 4.
अधोलिखितवाक्येषु रेखांकितपदानि अधिकृत्य सन्धिं/सन्धिविच्छेद कुरुत (पृष्ठ 99)
(i) हाहाकारेण तु दु:खेषु वृद्धिः+एव भवति। — वृद्धिरेव
(ii) मनसः प्रसन्नता तु अत्यावश्यकी। — अति + आवश्यकी
(iii) कः + अपि दु:खं नैव इच्छति। — कोऽपि
(iv) विषादः कदापि न कर्तव्यः। — कदा + अपि
(v) वृद्धानां सेवां कृत्वा प्रसन्नो भव। — सेवाम् + कृत्वा
(vi) वयं सर्वे सुखम्+इच्छामः। — सुखमिच्छामः

प्रश्न 5.
रेखांकितपदानां समस्तपदं विग्रहं वा कृत्वा वाक्यानि पुनः लिखत
(i) दु:खानां विनाशः कथं भवति इति ज्ञातव्यम्।
उत्तर:
दुःखविनाशः कथं भवति इति ज्ञातव्यम्।

(ii) नीतिषु लाभालाभौ न विचारणीयौ।
उत्तर:
नीतिषु लाभः च अलाभः च न विचारणीयौ।

(iii) दुःखानाम् अभावः मनसः प्रसन्नतायै आवश्यकः।
उत्तर:
निर्दुःखम् मनसः प्रसन्नतायै आवश्यकः।

प्रश्न 6.
उचितप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत
(i) दु:खानां विनाशस्य उपायं ज्ञा+तव्यत्। — ज्ञातव्यम्
(ii) प्रियजनस्य रुग्णता दु:खदायिका। — रुग्ण + तल्
(iii) रोगं दृष्ट्वा केवलं हाहाकारं न कर्त्तव्यम्। — दृश् + क्त्वा
(iv) त्वं प्रतिकूलपरिस्थिती वि + रुध् + ल्यप् विजयं प्राप्नुहि। — विरुध्य

प्रश्न 7.
प्रदत्तवाक्यानां वाच्यपरिवर्तनं कृत्वा लिखत (पृष्ठ 99)
(i) गीतायां श्रीकृष्णः अर्जुनं प्रति कथयति।
उत्तर:
गीतायां श्रीकृष्णेन अर्जुनः कथ्यते।

(ii) वयं सर्वे सुखम् इच्छामः।
उत्तर:
अस्माभिः सर्वैः सुखम् इष्यते।

(iii) विनम्रजनः पितरं सेवते।
उत्तर:
विनम्रजनेन पिता सेव्यते।

(iv) पुत्रेण औषधिना पितुः रोगविनाशस्य प्रयत्न क्रियते।
उत्तर:
पुत्रः औषधिना पितुः रोगविनाशस्य प्रयत्नं करोति।

प्रश्न 8.
प्रदत्तवाक्यानां संस्कृतभाषया अनुवादं कुरुत
(i) हम सभी सुख चाहते हैं।
उत्तर:
वयम् सर्वे सुखम् वाञ्छामः।

(ii) मन की प्रसन्नता कभी नहीं छोड़नी चाहिए।
उत्तर:
मनसः प्रसन्नता कदापि न त्यक्तव्या।

(iii) गीता में श्रीकृष्ण ने अर्जुन से कहा।
उत्तर:
गीतायाम् श्रीकृष्णाः अर्जुनम् अकथयत्।

(iv) वह प्रियजन की रुग्णता में सेवा करके प्रसन्न होता है।
उत्तर:
सः प्रियजनस्य रुग्णतायाम् सेवित्वा प्रसीदति।

प्रश्न 9.
प्रदत्तानि वाक्यानि शुद्धानि कृत्वा पुनः लिखत

(i) मूर्खाः जनाः दुखं दृष्ट्वा केवलं हाहाकारं करोति।
उत्तर:
मूर्खाः जनाः दु:खं दृष्ट्वा केवलं हाहाकारं कुर्वन्ति।

(ii) दु:खानाम् अभावस्य कृते मनसः प्रसन्नता अत्यावश्यकी वर्तते।
उत्तर:
सर्वेषाम् दु:खानाम् अभावस्य कृते मनसः प्रसन्नता अत्यावश्यकी वर्तते।

(iii) रोगं समस्यां वा दृष्ट्वा तस्य समाधानं कुरु।
उत्तर:
रोगं समस्यां वा दृष्ट्वा तस्याः समाधानं कुरु।

(iv) विषादः कदापि न कर्तव्यः।
उत्तर:
विषादः कदापि न कर्त्तव्यः।

 

The post Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 13 मिश्रिताभ्यासः appeared first on Learn CBSE.

Class 10 Sanskrit Grammar Book Solutions सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्

$
0
0

Students can easily access the NCERT Solutions for Class 10 Sanskrit Grammar Book सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम् Questions and Answers which include important questions and deep explanations provided by our experts.

Sanskrit Vyakaran Class 10 Solutions सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्

I. अनौपचारिक-पत्राणि

प्रश्न 1.
भवती कृपा। मातुः अस्वस्थताविषये लिखिते पत्रे रिक्तस्थानानि पूरयित्वा पत्रं पुनः लिखतु (CBSE 2014)

छात्रावासतः ………
तिथि: ………

आदरणीयाः …….(i)……. सादरं ……..(ii)………। अहम् अत्र कुशलिनी। भवतः पत्रात् …….(iii) ……. अस्वस्थताविषये ज्ञात्वा (iv) …. अस्मि। आगामिमासे (v) …….परीक्षाः भविष्यन्ति इति कारणेन गृहम् आगन्तुम् (vi) ……. अस्मि। समये-समये मात्रे (vii) ……. यच्छन्तु इति प्रार्थये। परीक्षायाः अनन्तरं (viii) …… गृहम् आगमिष्यामि। …….. (ix)…… मम प्रणामाः

भवदीया ..(X.)…….
कृपा

मञ्जूषा- मातुः, पितृचरणाः, चिन्ताकुला, औषधं, अशक्तः, अहं, सुता, प्रणामाः, विद्यालये, मातृचरणयोः

उत्तर:

छात्रावासतः ………..
तिथि: ………..

आदरणीयाः (i) पितृचरणाः, सादरं (ii) प्रणामाः। अहम् अत्र कुशलिनी। भवतः पत्रात् (iii) मातुः अस्वस्थताविषये ज्ञात्वा (iv) चिन्ताकुला अस्मि। आगामिमासे (v) विद्यालये परीक्षाः भविष्यन्ति इति कारणेन गृहम् आगन्तुम् (vi) अशक्तः अस्मि। समये-समये मात्रे (vii) औषधं यच्छन्तु इति प्रार्थये। परीक्षायाः अनन्तरं (viii) अहम् गृहम् आगमिष्यामि। (ix) मातृचरणयोः मम प्रणामाः

भवदीया (x) सुता
कृपा

More Resources for CBSE Class 10

प्रश्न 2.
भवान् ललितः। भवान् गत-परीक्षायाम् उत्तीर्णः। एतम् उपलक्ष्य पुस्तकं प्रेषितवते मित्राय लिखिते धन्यवाद-पत्रे रिक्तस्थानानि मञ्जूषास्थ-पदैः पूरयत (CBSE 2015)

त्यागनगरम्
मुम्बईतः
तिथि: ………..

प्रियमित्र ……………(i) सप्रेम नमस्कारः। अत्र सर्वं (ii) .. … । तत्राप्यस्तु इति प्रार्थये। अहं गतपरीक्षायां समीचीनान् (iii) ……… प्राप्य उत्तीर्ण इत्युपलक्ष्ये बहूनि विविधानि पारितोषिकानि (iv)……… । तेन अहं तुष्टः तथापि भवता प्रेषितं (v)………इति पुस्तकं न केवलं मम बुद्धयै अपितु (vi) .. ….. अपि उपकारकं भविष्यति इत्यत्र नास्ति कोऽपि सन्देहः। अस्मिन् (vii) ……… भवत्सदृशमित्राणि विरलानि सन्ति। (viii) ……….. आत्मानं भाग्यवन्तं मन्ये। भवतः (ix) ……… मम प्रणामाः। भूयोभूयो धन्यवादः।

भवतः प्रियमित्रम्
…..(x)………

मञ्जूषा- अङ्कान्, जीवनाय, प्रियव्रत, मातापितृभ्यां, ललितः, कुशलम्, आगतानि, अहम्, काले, नीतिकथाः।

उत्तर:

त्यागनगरम्
मुम्बईतः
तिथिः …………..

प्रियमित्र (i) प्रियव्रत!
सप्रेम नमस्कारः।
अत्र सर्वं (ii) कुशलम् । तत्राप्यस्तु इति प्रार्थये। अहं गतपरीक्षायां समीचीनान् (iii) अकान् प्राप्य उत्तीर्ण इत्युपलक्ष्ये बहूनि विविधानि पारितोषिकानि (iv) आगतानि । तेन अहं तुष्टः तथापि भवता प्रेषितं (v) नीतिकथाः इति पुस्तकं न केवलं मम बुद्धयै अपितु (vi) जीवनाय अपि उपकारकं भविष्यति इत्यत्र नास्ति कोऽपि सन्देहः। अस्मिन् (vii) काले भवत्सदृशमित्राणि विरलानि सन्ति। (viii) अहम् आत्मानं भाग्यवन्तं मन्ये। भवतः (ix) मातापितृभ्यां मम प्रणामाः। भूयोभूयो धन्यवादः।

भवतः प्रियमित्रम्
(x) ललितः

प्रश्न 3.
भवान् अरविन्दः। ग्रीष्मावकाशे भ्रमणाय स्वमित्रं प्रति लिखितम् इदं पत्रं मञ्जूषायां प्रदत्तैः उचितैः शब्दैः पूरयित्वा पुनः लिखतु। (CBSE 2015)
आनन्दविहारः
नवदिल्लीतः
प्रिय मित्र (i)………

तिथि: ………

नमोनमः।
अत्र कुशलं (ii) …………..। भवतः पत्रम् पठित्वा चित्तम् प्रासीदत्। अधुना (iii) ………… अस्ति यत् अहं (iv) …………उत्तीर्णः अभवम्। आशास्ति त्वमपि उत्तमश्रेण्यां (v) ………… भविष्यसि। अहं (vi………… भवतां समीपम् आगन्तुम् इच्छामि। अहं (vii) ………… सह ग्रीष्मावकाशं मसूरीनगरे यापयिष्यामि। तत्र हिमाच्छादिताः (viii)………… जनान् आकर्षयन्ति। अहमपि तत्र प्राकृतिकदृश्यस्य (ix) .. . कर्तुम् इच्छामि। गृहे माता-पित्रोः (x) …… मम प्रणामाः।
भवदीयं मित्रम्
अरविंदः

मञ्जूषा- | मित्रैः, गौरव, प्रथमश्रेण्यां, ग्रीष्मावकाशे, उत्तीर्णः, पर्वतशृंखलाः, अवलोकनं, तत्रास्तु, समाचारः, चरणयोः |

उत्तर:
आनन्दविहारः
नवदिल्लीतः
प्रिय मित्र (i) गौरव!

तिथिः ……….

नमोनमः।

अत्र कुशलं (ii) तत्रास्तु। भवतः पत्रम् पठित्वा चित्तम् प्रासीदत्। अधुना (iii) समाचारः अस्ति यत् अहं (iv) प्रथमश्रेण्यां उत्तीर्णः अभवम्। आशास्ति त्वमपि उत्तमश्रेण्या (v) उत्तीर्णः भविष्यसि। अहं (vi) ग्रीष्मावकाशे भवतां समीपम् आगन्तुम् इच्छामि। अहं (vii) मित्रैः सह ग्रीष्मावकाशं मसूरीनगरे यापयिष्यामि। तत्र हिमाच्छादिताः (viii) पर्वत श्रृंखलाः जनान् आकर्षयन्ति। अहमपि तत्र प्राकृतिकदृश्यस्य (ix) अवलोकनं कर्तुम् इच्छामि। गृहे माता-पित्रोः (x) चरणयोः मम प्रणामाः।
भवदीयं मित्रम्
अरविंदः

प्रश्न 4.
पितरं प्रति लिखितम् अध:पत्रं मञ्जूषाप्रदत्तशब्दैः पूरयित्वा पुनः लिखत (CBSE 2016)

ब्रह्मपुत्र-छात्रावासः,
(i) ……………….
तिथि: ……………….

पूज्याः (ii)……….. !
सादरं प्रणामाः।
अत्र कुशलं तत्रास्तु। इदं विज्ञाय भवान् अतिप्रसन्नः भविष्यति यद् गतदिवसे अन्तर्विद्यालयीयभाषणप्रतिस्पर्धायां मया (iii) …………. स्थानं लब्धम्। क्रीडादिवसे (iv)………. अहमेव प्रथमः आसम्। अस्मिन् वर्षे वार्षिकोत्सवे अहं नाट्याभिनयं (v) ……………….। अयं वार्षिकोत्सवः आगामि-शुक्रवासरे (vi) ………। विद्यालयस्य पक्षतः ह्य एव (vii) …………. प्रेषितम्। अहमपि (vii) ……… सूचयामि यद् भवान् मात्रा सह अवश्यम् आगच्छतु। मम (ix) ……….. भविष्यति। मातृचरणयोः मम प्रणामाः।

भवतः पुत्रः
(x)………

मञ्जूषा – निमन्त्रणपत्रम्, धावनप्रतियोगितायाम्, नीरज: उत्साहवर्धनम्, भवन्तम्, नवदिल्लीतः, प्रथमम्, करिष्यामि, पितृमहोदयाः,आयोजयिष्यते।

उत्तर:

ब्रह्मपुत्र-छात्रावासः,
(i) नवदिल्लीतः
तिथिः …………….

पूज्याः (ii) पितृमहोदयाः !
सादरं प्रणामाः।
अत्र कुशलं तत्रास्तु। इदं विज्ञाय भवान् अतिप्रसन्नः भविष्यति यद् गतदिवसे अन्तर्विद्यालयीयभाषणप्रतिस्पर्धायां मया (iii) प्रथमम् स्थानं लब्धम्। क्रीडादिवसे (iv) धावनप्रतियोगितायाम् अहमेव प्रथमः आसम्। अस्मिन् वर्षे वार्षिकोत्सवे अहं नाट्याभिनयं (v) करिष्यामि।। अयं वार्षिकोत्सवः आगामि-शुक्रवासरे (vi) आयोजयिष्यते। विद्यालयस्य पक्षतः ह्य एव (vii) निमन्त्रणपत्रम् प्रेषितम्। अहमपि (viii) भवन्तम् सूचयामि यद् भवान् मात्रा सह अवश्यम् आगच्छतु। मम (ix) उत्साहवर्धनम् भविष्यति। मातृचरणयोः मम प्रणामाः।

भवतः पुत्रः,
(x) नीरजः

प्रश्न 5.
भवान् निखिलः। भवता स्वपित्रा सह ‘स्वामि-विवेकानन्दः’ इति चलचित्रं दृष्टम्। तद्विषये स्वमित्रम् अखिलं प्रति लिखितं पत्रं मञ्जूषास्थपदैः पूरयित्वा उत्तरपुस्तिकायां लिखतु। [CBSE 2012]

जवाहरनगरम्
चेन्नईतः
तिथि: …………….

अभिन्नहृदय (i) …………….
नमो नमः।
अत्र कुशलं तत्रापि स्यात् इति चिन्तयामि। विगतशुक्रवासरे स्वपितृमहोदयैः सह ‘स्वामि-विवेकानन्दः’ इति (ii) …………. द्रष्टुं गतवान्। चलचित्रं संस्कृतभाषायाम् (iii) ………. | नास्तिकः नरेन्द्रः स्वामिनः श्रीरामकृष्णस्य (iv) ………. परम-आस्तिकः सञ्जातः। पश्चात् सः संन्यासम् अपि (v) ……….. । अमेरिकादेशे तस्य स्वागतस्य दृश्यं तु (vi) ………. एव आसीत्। सर्वे अभिनेतारः अपि सुष्ठु (vii) …. .. कृतवन्तः। गीतानि अपि (viii) ………. आसन्। त्वमपि अवश्यं पश्य।
सर्वेभ्यः (ix) ……….. नमो नमः।

भवतः सुहृद्
(x) ……………………..

मञ्जूषा- | सान्निध्येन, आसीत्, अखिल, मित्रेभ्यः, शोभनानि, निखिलः, स्वीकृतवान्, अभिनयं, अपूर्वम्, चलचित्रम्।

उत्तर:
जवाहरनगरम्
चेन्नईतः
तिथि: मार्च 15, 2018
अभिन्नहृदय (i) अखिल!
नमो नमः।
अत्र कुशलं तत्रापि स्यात् इति चिन्तयामि। विगतशुक्रवासरे स्वपितृमहोदयैः सह ‘स्वामि-विवेकानन्दः’ इति (ii) चलचित्रम् द्रष्टुं गतवान्। चलचित्रं संस्कृतभाषायाम् (iii) आसीत्। नास्तिकः नरेन्द्रः स्वामिनः श्रीरामकृष्णस्य (iv) सान्निध्येन परम-आस्तिकः सञ्जातः। पश्चात् सः संन्यासम् अपि (v) स्वीकृतवान्। अमेरिकादेशे तस्य स्वागतस्य दृश्यं तु (vi) अपूर्वम् एव आसीत्। सर्वे अभिनेतारः अपि सुष्ठु (vii) अभिनयम् कृतवन्तः। गीतानि अपि (viii) शोभनानि आसन्। त्वमपि अवश्यं पश्य। सर्वेभ्यः (ix) मित्रेभ्यः नमो नमः।

भवतः सुहृद्
(x) निखिलः

प्रश्न 6
भवान् राकेशः। भवता विद्यालये आयोजितस्य पर्यावरण-दिवसस्य वर्णनम् कुर्वता मित्रम् मोहितम् प्रति लिखिते पत्रे रिक्त-स्थानानि मञ्जूषातः पदानि चित्वा प्रपूर्य तत्पत्रं पुनः उत्तरपुस्तिकायां लिखतु। [CBSE 2012]

इलाहाबादतः
तिथि: …………

प्रिय मोहित!
(i)…….
अत्र कुशलम् तत्रास्तु। गतसप्ताहे अस्माकम् विद्यालये पर्यावरण-दिवसस्य (ii) …………
अभवत्। श्रीमती शीला दीक्षितः अस्माकम् मुख्यातिथि: (iii). …….. । अस्मिन् दिवसे छात्राः विद्यालयस्य प्रांगणे अनेकानि (iv)… …. अवपन्। “पर्यावरण रक्षणे वृक्षाणाम् महत्ता” इत्यस्मिन् विषये भाषण-प्रतियोगिता अपि अभवत्। यस्यां मया द्वितीयम् स्थानम्
प्राप्तम्। शाकानाम् फलानाम् (v)… ………… प्रदर्शयितुम् एका खाद्य-प्रदर्शनी अपि आयोजिता यत्र छात्रैः (vi) ………….. आनन्दः अनुभूतः। सर्वः विद्यालयः हरितैः पादपैः सुसज्जितः आसीत्। अयं दिवसः अतीव (vii) ………… आनन्ददायकः चासीत्। भवता अपि स्व-विद्यालये (viii) ………… आयोजनम् कर्तुम् शक्यते। (ix)… कुशलम्।

भवतः अभिन्नम् मित्रम्
(x)…..

मञ्जूषा- | राकेशः, बीजानि, शेषं, व्यञ्जनानाम्, शिक्षाप्रदः, आयोजनम्, नमोनमः, ईदृशम्, महत्ताम्, आसीत्

उत्तर:

इलाहाबादतः
तिथि: 19 मई, 2019

प्रिय मोहित!
(i) नमोनमः
अत्र कुशलम् तत्रास्तु। गतसप्ताहे अस्माकम् विद्यालये पर्यावरण-दिवसस्य (ii) आयोजनम् अभवत्। श्रीमती शीला दीक्षितः अस्माकम् मुख्यातिथिः (iii) आसीत् । अस्मिन् दिवसे छात्राः विद्यालयस्य प्रांगणे अनेकानि (iv) बीजानि अवपन्। “पर्यावरण-रक्षणे वृक्षाणाम् महत्ता” इत्यस्मिन् विषये भाषण-प्रतियोगिता अपि अभवत्। यस्यां मया द्वितीयम् स्थानम् प्राप्तम्। शाकानाम् फलानाम् (v) महत्ताम् प्रदर्शयितुम् एका खाद्य-प्रदर्शनी अपि आयोजिता यत्र छात्रैः (vi) व्यञ्जनानाम् आनन्दः अनुभूतः। सर्वः विद्यालयः हरितैः पादपैः सुसज्जितः आसीत्। अयं दिवसः अतीव (vii) शिक्षाप्रदः आनन्ददायकः चासीत्। भवता अपि स्व-विद्यालये (viii) ईदृशम् आयोजनम् कर्तुम् शक्यते। (ix) शेषं कुशलम्।

भवतः अभिन्नम् मित्रम्
(x) राकेशः

प्रश्न 7
मित्रस्य कुशलतां ज्ञातुं तं प्रति लिखिते पत्रे रिक्तस्थानानि पूरयत (CBSE 2017)
दिल्लीतः
तिथि…..
मित्रवर श्री रमेश!
सप्रेम नमोनमः

………. (i)…… दिनानि व्यतीतानि परं भवताम् ……….(ii)………. पत्रं मम हस्तगतं न जातम्। अतएव् ……….. (iii)……….न केवलम् अहम् एव प्रत्युत मम ………..(iv)……….. सर्वे जनाः अपि ………. (v)………. सन्ति। गृहस्य ………..(vi) ….. च सर्वः ………. (vii)………. समीचीनः एव अस्ति। भवता …. (viii)………. पारिवारिकं च सर्वं वृत्तम् अविलम्बितं …………(ix)……, येन अस्माकं …… (x)……. अपगता स्यात्।

तव कुशलकांक्षी सुहृद्
वरुणः

 

मञ्जूषा- | चिन्ताकुलाः, लेखनीयं, परिवारस्य, बहूनि, परिवारस्य, चिन्ता, एकमपि, समाचारः, सम्प्रति, स्वकीयं।

उत्तर:
दिल्लीत:
तिथि ………………
मित्रवर श्री रमेश!
सप्रेम नमोनमः
(i) बहूनि दिनानि व्यतीतानि परं भवताम् (ii) एकमपि पत्रं मम हस्तगतं न जातम्। अतएव (iii) सम्प्रति न केवलम् अहम् एव प्रत्युत मम (iv) परिवारस्य सर्वे जनाः अपि (v) चिन्ताकुलाः सन्ति। गृहस्य (vi) परिवारस्य च सर्वः (vii)समाचारः समीचीनः एव अस्ति। भवता (viii) स्वकीयं पारिवारिकं च सर्वं वृत्तम् अविलम्बितं (ix) लेखनीयं, येन अस्माकं (x) चिन्ता अपगता स्यात्।

तव कुशलकांक्षी सुहृद्
वरुणः

प्रश्न 8.
अनुजं प्रति लिखितम् अध: पत्रं मञ्जूषाप्रदत्तशब्दैः पूरयित्वा पुनः लिखत।। त्वा पुनः लिखत। (CBSE 2018)

…………(i)……….।
तिथिः……….

प्रिय ……….(ii)……..
शुभाशिषः।
अहमत्र …..(iii)……… भवान् अपि तत्र कुशली अस्ति इति मन्ये। मातापितरौ त्वां सर्वदा ……(iv)…….. | तवाग्रजा आगामि-सप्ताहे गृहम् .(v)…… । त्वम् अपि यदि …. (vi). इच्छसि तर्हि आगच्छ। अस्मिन् विषये तवाग्रजा अपि त्वां पत्रं ………. (vii)……….. तव अध्ययनं ………. (viii)………. चलति इति वयं चिन्तयामः। अन्यत् सर्वं ……….(ix)………. सर्वेभ्यः मित्रेभ्यः मदीयाः शुभकामनाः।

तव ……..(x)……..
सुधांशुः।

मञ्जुषा लेखिष्यति, दिल्लीतः, सम्यक्, कुशली, अनुज!, आगमिष्यति, कुशलम्, अग्रजः, स्मरतः, आगन्तुम्।

उत्तर:


(i) दिल्लीतः

तिथि: ………..

प्रिय (ii) अनुज!

शुभाशिषः।
अहमत्र (iii) कुशली भवान् अपि तत्र कुशली अस्ति इति मन्ये। मातापितरौ त्वां सर्वदा (iv) स्मरतः। तवाग्रजा आगामि-सप्ताहे गृहम् (v) आगमिष्यति। त्वम् अपि यदि (vi) आगन्तुम् इच्छसि तर्हि आगच्छ। अस्मिन् विषये तवाग्रजा अपि त्वां पत्रं (vii) लेखिष्यति। तव अध्ययनं (viii) सम्यक् चलति इति वयं चिन्तयामः। अन्यत् सर्वं (ix)कुशलम्। सर्वेभ्यः मित्रेभ्यः मदीयाः शुभकामनाः।

तव (x) अग्रजः
सुधांशुः।

प्रश्न 9.
स्वविद्यालयस्य वर्णनम् कुर्वन् मित्रम् प्रति लिखितम् पत्रम्। (CBSE 2017)

परीक्षाभवनात्
………(i)………..

प्रिय राघव! … (ii)…………
अत्र सकुशलम् …. (iii)… अद्येव तव पत्रम् प्राप्तम्। अहम् अस्मिन् पत्रे …..(iv)…………. वर्णनम् कर्तुम् इच्छामि। मम ……(v)……. अतीव शोभनः अस्ति। सर्वे …. (vi…… योग्याः सन्ति। सर्वे अध्यापका: … (vii)…… पाठयन्ति प्रश्नानां समाधानं च कुर्वन्ति। विद्यालये छात्राः .(viii)……… सन्ति। न केवलम् अध्ययने क्रीडाकार्यक्रमे अपि मम विद्यालयः ……..(ix)…………… अस्ति। अस्मिन् विद्यालये सर्वे छात्राः . (x)….. माध्यमेन वार्तालापं कुर्वन्ति।
गृहे सर्वगुरुजनेभ्यः नमः।

तवमित्रम्
धनेश:

मञ्जूषा- | मनोयोगेन, योग्याः, प्रथमः, अध्यापकाः, आंग्लभाषायाः, नमोनमः, तत्रास्तुः, विद्यालयस्य, मुजफ्फरपुरम्, विद्यालयः

उत्तर:

परीक्षाभवनात्
(i) मुजफ्फरपुरम्

प्रिय राघव!
(ii) नमोनमः
अत्र सकुशलम् (iii) तत्रास्तु अद्येव तव पत्रम् प्राप्तम्। अहम् अस्मिन् पत्रे (iv) विद्यालयस्य वर्णनम् कर्तुम् इच्छामि। मम (v) विद्यालयः अतीव शोभनः अस्ति। सर्वे (vi) अध्यापकाः योग्याः सन्ति। सर्वे अध्यापकाः (vii) मनोयोगेन पाठयन्ति प्रश्नानां समाधानं च कुर्वन्ति। विद्यालये छात्राः (viii) योग्याः सन्ति। न केवलम् अध्ययने क्रीडाकार्यक्रमे अपि मम विद्यालयः (ix) प्रथमः अस्ति। अस्मिन् विद्यालये सर्वे छात्राः (x) आंग्लभाषायाः माध्यमेन वार्तालापं कुर्वन्ति।
गृहे सर्वगुरुजनेभ्यः नमः।

तवमित्रम्
धनेशः

प्रश्न 10
सिद्धार्थः दिल्लीनगरे वसति। अनुजं प्रति अध: लिखितं पत्रं मञ्जूषायां प्रदत्तपदैः पूरयत। (CBSE 2018)

दिल्लीतः
तिथि:……………..

……… (i)………।
शुभाशिषः।
अद्यैव तव पत्रं प्राप्तम्। परिवारस्य सर्व सदस्याः ……(ii)…..? इति विज्ञाय अहं प्रसन्नः अस्मि। अत्रापि ..(iii)…….. कुशलम् अस्ति। मम परीक्षा समाप्ता जाता। अतः ह्यः वयं मैट्रोरेलयानेन भ्रमणाय . (iv)….. । तीव्रगतियुक्तम इदं रेलयानम्। अस्य कक्षाः .. (v)…. । प्रचण्डेतापे .(vi)… इदम् उपयुक्तमेव। इदं कुत्रचित् भूमेः अधः गच्छति तु कुत्रचित् भूमेः उपरि। ..(vii)… कृते तु अस्मिन् पुनः उद्घोषणा अपि क्रियते। वस्तुतः अद्भुतम् इदं मैट्रोरेलयानम्। अग्रिमे  (viii)…………. त्वम् अवश्यमेव अत्र आगच्छ। त्वया सह अनेन भ्रमणं करिष्यामः। .(ix)……. प्रति मम प्रणामं कथय।

तव अग्रजः
……..(x)

मञ्जूषा- | यात्रिणाम्, पितरौ, प्रिय अनुज!, वातानुकूलिताः, सिद्धार्थः, आवागमनाय, कुशलिनः, अगच्छाम, सर्वम्,अवकाशे

उत्तर:

दिल्लीतः
तिथि:……….

(i) प्रिय अनुज!
शुभाशिषः।
अद्यैव तव पत्रं प्राप्तम्। परिवारस्य सर्वे सदस्याः (ii)कुशलिनः? इति विज्ञाय अहं प्रसन्नः अस्मि। अत्रापि (iii)सर्वम् कुशलम् अस्ति। मम परीक्षा समाप्ता जाता। अतः ह्यः वयं मैट्रोरेलयानेन भ्रमणाय (iv)अगच्छाम। तीव्रगतियुक्तम इदं रेलयानम्। अस्य कक्षाः (v)वातानुकूलिताः। प्रचण्डेतापे (vi)आवागमनाय इदम् उपयुक्तमेव। इदं कुत्रचित् भूमेः अधः गच्छति तु कुत्रचित् भूमेः उपरि। (vii)यात्रिणाम् कृते तु अस्मिन् पुनः उद्घोषणा अपि क्रियते। वस्तुतः अद्भुतम् इदं मैट्रोरेलयानम्। अग्रिमे (viii)अवकाशे त्वम् अवश्यमेव अत्र आगच्छ। त्वया सह अनेन भ्रमणं करिष्यामः। (ix) पितरौ प्रति मम प्रणाम कथय।

तव अग्रजः
(x) सिद्धार्थः

प्रश्न 11
पितरं प्रति लिखितम् पत्रं मञ्जूषापदसहायतया पूरयित्वा पुनः लिखत (CBSE 2018)

ब्रह्मपुत्र-छात्रावास
……….(i)……..

पूज्याः ……..(ii)……..
अत्र कुशलं तत्राऽस्तु। इदं विज्ञाय भवान् अति प्रसन्नः भविष्यति यत् गतदिवसे अन्तर्विद्यालयीयभाषण प्रतिस्पर्धायां मया . (iii)…… स्थानं लब्धम्। क्रीडादिवसे . (iv). .. अहमेव प्रथमः आसम्। अस्मिन् वर्षे वार्षिकोत्सवे अहं नाट्याभिनयं ……… (v)……..अयं वार्षिकोत्सवः आगामि-शुक्रवासरे …. (vi)….. विद्यालयस्य पक्षतः ह्यः एव … (vii)….. प्रेषितम्। अहमपि ..(viii)… सूचयामि यत् भवान् मात्रा सह अवश्यम् आगच्छतु। मम ……. (ix)… भविष्यति। मातृचरणयोः मम प्रणामाः।

भवदीयः पुत्रः
…..(x)………

मञ्जूषा- | निमन्त्रणपत्रम्, धावनप्रतियोगितायाम्, नीरजः, उत्साहवर्धनम्, भवन्तम्, नवदिल्लीतः, प्रथमम्, करिष्यामि पितृमहोदयाः, आयोजयिष्यते।
उत्तर:

ब्रह्मपुत्र-छात्रावासः
(i) नवदिल्लीतः

पूज्याः (ii) पितृमहोदयाः
अत्र कुशलं तत्राऽस्तु। इदं विज्ञाय भवान् अति प्रसन्नः भविष्यति यत् गतदिवसे अन्तर्विद्यालयीयभाषण प्रतिस्पर्धायां मया (iii) प्रथमम् स्थानं लब्धम्। क्रीडादिवसे (iv) धावनप्रतियोगितायाम् अहमेव प्रथमः आसम्। अस्मिन् वर्षे वार्षिकोत्सवे अहं नाट्याभिनयं (v) करिष्यामि
अयं वार्षिकोत्सवः आगामि-शुक्रवासरे (vi) आयोजयिष्यते विद्यालयस्य पक्षतः ह्यः एव (vii) निमन्त्रणपत्रम् प्रेषितम्। अहमपि (viii) भवन्तम् सूचयामि यत् भवान् मात्रा सह अवश्यम् आगच्छतु। मम (ix) उत्साहवर्धनम् भविष्यति। मातृचरणयोः मम प्रणामाः।

भवदीयः पुत्रः
(x) नीरजः

अभ्यासपुस्तकम् आधारितं कार्यम् 

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 1

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 2

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 3

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 4

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 5

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 6

अभ्यासपुस्तकम् आधारितं कार्यम् 

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 7

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 8

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 9

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 10

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 11

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 12

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 13

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 14

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 15

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 16

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 17

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 18

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 19

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 20

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 21

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 22

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 23

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 24

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 25

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 26

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 27

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 28

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 29

अभ्यासार्थम्

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 30

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 31

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 32

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 33

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 34

NCERT Solutions for Class 10th Sanskrit Chapter 1 सङ्केताधारितम् अनौपचारिकपत्रम् 35

The post Class 10 Sanskrit Grammar Book Solutions सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम् appeared first on Learn CBSE.


Class 10 Sanskrit Grammar Book Solutions अपठित-अवबोधनम्

$
0
0

Students can easily access the NCERT Solutions for Class 10 Sanskrit Grammar Book अपठित-अवबोधनम् Questions and Answers which include important questions and deep explanations provided by our experts.

Sanskrit Vyakaran Class 10 Solutions अपठित-अवबोधनम्

अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत

निम्नलिखित अनुच्छेद को पढ़कर दिए गए प्रश्नों के उत्तर लिखें।
Read the following passage and answer the questions given:

प्रश्न 1.
आदर्शरामचरितस्य लेखकः वाल्मीकिः जनमानसस्य हृदये प्रतिष्ठितः। एकदा तमसातीरे भ्रमता सः निषादेन विध्यमानमेकं क्रौञ्चपक्षिणमपश्यत्। करुणाभिभूतस्य तस्य मुखात् अनुष्टुप् छन्दसि श्लोकः नि:सृतः। तदा ब्राह्मणः आदेशेन सः अस्मिन् छन्दसि रामायणमहाकाव्यम् अलिखत्। रामायणे मर्यादापुरुषोत्तमस्य रामस्य चरित्रं निबद्धम्। पित्रोः आज्ञया रामः चतुर्दशवर्षाणि वने अवसत्। रामायणे तत्कालीन समाज व्यवस्थायाः विशदं वर्णनं प्राप्यते। अस्य ग्रन्थस्य विश्वस्य अनेकासु भाषासु अनुवादः कृतः। अस्य कथानकमाश्रित्य संस्कृतस्य अनेके कवयः ग्रन्थान् अरचयन्। अस्य ग्रन्थस्य पाठं जनाः प्रतिदिनं कुर्वन्ति। रामायणे सप्तकाण्डानि चतुर्विंशतिसहस्त्रश्लोकाश्च सन्ति।

प्रश्ना :
I. एकपदेन उत्तरत
(i) वाल्मीकिः निषादेन विध्यमानं क्रौञ्चपक्षिणं कुत्र अपश्यत्?
(ii) कस्मिन् छन्दसि रामायणं लिखितम्?
उत्तर:
(i) तमसातीरे
(ii) अनुष्टुप्

II. पूर्णवाक्येन उत्तरत
(i) रामायणे कति काण्डानि, कति श्लोकाश्च सन्ति?
(ii) रामायणे कस्याः विशदं वर्णनं प्राप्यते?
उत्तर:
(i) रामायणे सप्तकाण्डानि चतुर्विंशतिसहस्त्रश्लोकाश्च सन्ति।
(ii) रामायणे तत्कालीन समाजस्य व्यवस्थायाः विशदं वर्णनं प्राप्यते।

More Resources for CBSE Class 10

III. निर्देशानुसारम्
(i) ‘संस्कृतस्य अनेके कवयः ग्रन्थान् अरचयन्।’ अत्र ‘अरचयन्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) ग्रन्थान्
(ख) कवयः
(ग) अनेके
(घ) संस्कृतस्य
उत्तर:
(ख) कवयः

(ii) ‘रामायणे मर्यादापुरुषोत्तमस्य रामस्य चरित्रं निबद्धम्’ अत्र ‘रामस्य’ इति पदस्य किं विशेषणपदं प्रयुक्तम्?
(क) रामस्य
(ख) मर्यादा
(ग) मर्यादापुरुषोत्तमस्य
(घ) चरित्रम्
उत्तर:
(ग) मर्यादापुरुषोत्तमस्य

(iii) ‘निषादेन’ इति पदस्य पर्यायपदं किम्?
(क) व्याधेन
(ख) हर्षेण
(ग) करुणा
(घ) मर्यादा
उत्तर:
(क) व्याधेन

(iv) ‘ब्राह्मणः आदेशेन सः …’ अत्र ‘सः’ इति पदं कस्मै प्रयुक्तम्?
(क) रामाय
(ख) वाल्मीकये
(ग) पुरुषोत्तमाय
(घ) मर्यादायै
उत्तर:
(ख) वाल्मीकये

IV. अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।
उत्तर:
रामायणस्य प्रणेता ‘वाल्मीकिः’।

प्रश्न 2.
भारतद्वारं प्रसिद्ध स्मारकं वर्तते। वीराणां बलिदानस्य पुण्यस्मृतिस्थलम् इदम्। अस्मिन् द्वारे वीराणां नामानि उत्कीर्णानि सन्ति। इदम् ऐतिहासिकं स्थलं दृष्ट्वा जनाः नतमस्तकाः भवन्ति।

भारतद्वारं परितः हरिताः वृक्षाः शोभन्ते। देश-विदेशेभ्यः आगताः जनाः भारतद्वारं द्रष्टुम् आगच्छन्ति। एतत् द्वारं सर्वान् आकर्षयति। विस्तृताः स्वच्छाः मार्गाः, हरिताः वृक्षाः अस्य शोभां वर्धन्ते। भारतद्वारस्य पार्वे ‘बोटक्लब’ इति पर्यटनस्थलम् अस्ति।अवकाशदिवसे तु जनाः परिवारेण सह अत्र आगच्छन्ति। अनागत्य सहभोजनं कुर्वन्ति।

रात्रौ विद्युद्दीपकानां प्रकाशैः प्रकाशितं भारतद्वारम् दूरात् एव सुशोभते। गणतन्त्रदिवसे स्वतन्त्रतादिवसे च जनाः अत्रागत्य दिवङ्गतसैनिकान् स्मरन्ति तेभ्यः श्रद्धाञ्जलिं च यच्छन्ति। भारतद्वारं भारतस्य गौरवम् अस्ति ।

प्रश्ना :
I. एकपदेन उचितम् उत्तरं लिखत
(i) भारतद्वारं परितः के शोभन्ते?
(ii) भारतस्य गौरवं किम्?
उत्तर:
(i) वृक्षाः
(ii) भारतद्वारम्

II. पूर्णवाक्येन उत्तरत
(i) भारतद्वारस्य शोभा के के वर्धन्ते?
(ii) कैः प्रकाशितं भारतद्वारं दूरादेव शोभते?
उत्तर:
(i) भारतद्वारस्य शोभा विस्तृताः स्वच्छाः मार्गाः हरिताः वृक्षाः च वर्धन्ते।
(ii) विद्युद्दीपकानाम् प्रकाशैः प्रकाशितं भारतद्वारं दूरादेव शोभते।

III. विकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत
(i) ‘स्मरन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
(अ) वीराः
(ब) जनाः
(स) पर्यटकाः
(द) सर्वे
उत्तर:
(ब) जनाः

(ii) ‘प्रकाशितम्’ इति पदं कस्य विशेषणपदम् अस्ति?
(अ) स्मारकस्य
(ब) बलिदानस्य
(स) भारतद्वारस्य
(द) भारतस्य
उत्तर:
(स) भारतद्वारस्य

(iii) ‘निशायाम्’ इत्यर्थे अत्र किं पदं प्रयुक्तम्?
(अ) प्रकाशे
(ब) दिवसे
(स) द्वारे
(द) रात्रौ
उत्तर:
(द) रात्रौ

(iv) ‘इदम् ऐतिहासिक स्थलं दृष्ट्वा जनाः नतमस्तकाः भवन्ति’ इति वाक्ये ‘इदम् ‘ सर्वनामपदं कस्मै प्रयुक्तम्?
(अ) स्मारकाय
(ब) स्थलाय
(स) भारतद्वाराय
(द) द्वाराय
उत्तर:
(स) भारतद्वाराय

IV. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं लिखत।
उत्तर:
‘भारतस्य गौरवम् भारतद्वारम्’।

प्रश्न 3
एकस्मिन् गृहे आसीत् एका वीणा। यदा कदा यः कोऽपि तत्र गच्छति स वीणां वादयति स्म। परन्तु वीणाशब्दः सम्यक् नास्फुरत्। तस्याः शब्दं श्रुत्वा सर्वे कर्णपीडाम् अनुभवन्ति स्म। कदाचित् क्रोधेन गृहमुख्यः तां वीणा बहिः निष्कास्य स्थापितवान्। एकः भिक्षुकः तां वीणां प्राप्य गृहस्य वरण्डे उपविश्य तां वीणां वादितवान्। वीणायाः मनोहरशब्देन जनाः तत्र एकत्रिताः अभवन्। परिवारसदस्याः अपि चकिताः अभवन्। यथेयं वीणा तथा जीवन-वीणा। तस्याः स्वरसंयोजनार्थम् अस्माभिः यत्न कर्तव्यः। सत्कर्म-साधनं विना, रागद्वेषपरिहारं विना कौशलशिक्षणं विना च जीवनवीणास्वरः सर्वेषाम् आकर्षणे समर्थो न स्यात्। अतः सर्वैः मानवैः तदर्थमेव यत्न विधेयः। (CBSE 2015)

प्रश्ना :
I. एकपदेन उचितम् उत्तरं लिखत
(i) एकस्मिन् गृहे का आसीत्?
(ii) वीणायाः मनोहरशब्देन के एकत्रिताः अभवन्?
उत्तर:
(i) वीणा
(ii) जनाः

II. पूर्णवाक्येन उत्तरत
(i) कस्याः स्वरसंयोजनार्थम् अस्माभिः यत्नः कर्त्तव्यः?
(ii) भिक्षुकः कुत्र उपविश्य वीणां वादितवान्?
उत्तर:
(i) जीवन-वीणायाः स्वरसंयोजनार्थम् अस्माभिः यत्नः कर्त्तव्यः।
(ii) भिक्षुकः गृहस्य वरण्डे उपविश्य वीणाम् वादितवान्।

III. निर्देशानुसारम् प्रदत्तविकल्पेभ्य उचितम् उत्तरं चित्वा लिखत
(i) ‘स्थापितवान्’ इति क्रियापदस्य कर्तृपदं किम्?
(अ) वीणा
(ब) सः
(स) गृहमुख्यः
(द) भिक्षुकः
उत्तर:
(स) गृहमुख्यः

(ii) ‘तस्याः स्वरसंयोजनार्थम्’ अत्र ‘तस्याः’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
(अ) सदस्यैः
(ब) वीणायै
(स) कर्णपीडायै
(द) सर्वैः
उत्तर:
(ब) वीणायै

(iii) ‘आकर्ण्य’ इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्?
(अ) श्रुत्वा
(ब) निष्कास्य
(स) उपविश्य
(द) प्राप्य
उत्तर:
(अ) श्रुत्वा

(iv) ‘स्वरः’ इति कर्तृपदस्य किं क्रियापदम् अत्र प्रयुक्तम्?
(अ) कर्त्तव्यः
(ब) विधेयः
(स) अभवन्
(द) स्यात्
उत्तर:
(द) स्यात्

IV. अस्य गद्यांशस्य कृते समुचितं शीर्षकं लिखत।
उत्तर:
‘जीवनवीणास्वरः’ / ‘जीवनस्वर: वीणास्वरः इव’।

प्रश्न 4
महाकवि कालिदासः न केवलं संस्कृतसाहित्यस्य अपितु विश्वसाहित्यस्य श्रेष्ठः कविः अस्ति। अतएव इंगलैण्डदेशवासिनः स्वकीयाभ्यां सर्वश्रेष्ठाभ्यां दान्ते-वर्जिलाभ्यां सह तस्य तुलनां कुर्वन्ति। जर्मनी देशवासिनः तु तं “शेक्सपीयर” इति कथयन्ति। एषः महान् कवि नाटककारः चासीत्। कालिदासेन विरचिताः सप्त ग्रन्थाः सन्ति। एतेषु रघुवंश कुमारसंभवम् इति द्वे महाकाव्ये, ऋतुसंहार मेघदूतम् नामके द्वे खण्डकाव्ये, अभिज्ञानशाकुन्तलम्, विक्रमोर्वशीयम्, मालविकाग्निमित्रम् चेति त्रीणि नाटकानि सन्ति। सौन्दर्य-वर्णने काव्यप्रतिभायां च महाकविः कालिदासः अद्यापि अप्रतिमः वर्तते। भारतीय महाकविषु सः ‘कविकुलगुरु’ इति उपाधिना विभूषितः।

प्रश्ना :
I. एकपदेन उत्तरत
(i) कालिदासः कति नाटकानि अरचय?
(ii) कः कविकुलगुरुः कथ्यते?
उत्तर:
(i) त्रीणि
(ii) कालिदासः

II. पूर्णवाक्येन उत्तरत
(i) कस्मिन् विषये कालिदासः अद्यापि अप्रतिमः वर्तते?
(ii) कालिदासस्य द्वे महाकाव्ये के स्तः?
उत्तर:
(i) सौन्दर्य-वर्णने काव्यप्रतिभायां च विषये कालिदासः अद्यापि अप्रतिमः वर्तते।
(ii) रघुवंशम्, कुमारसम्भवं च कालिदासस्य द्वे महाकाव्ये स्तः।

III. निर्देशानुसारमुत्तरत
(i) श्रेष्ठः कविः अनयोः पदयोः किम् विशेषणपदम् अस्ति?
(क) श्रेष्ठः
(ख) कविः
(ग) श्रेष्ठः कविः
(घ) कालिदासः
उत्तर:
(क) श्रेष्ठः

(ii) ‘अद्वितीयः’ इत्यर्थे गद्यांशे किम् पदम् प्रयुक्तम्?
(क) नाटककारः
(ख) प्रसिद्धः
(ग) अप्रतिमः
(घ) काव्यप्रतिभा
उत्तर:
(ग) अप्रतिमः

(iii) जर्मनीदेशवासिनः तु ‘तं’ शेक्सपीयर इति कथयति अत्र ‘तं’ इति पदं कस्मै प्रयुक्तम्
(क) शेक्सपीयर इति पदाय
(ख) कालिदासाय
(ग) भारताय
(घ) मेघदूताय
उत्तर:
(ख) कालिदासाय

(iv) ‘कालिदासः अद्यापि अप्रतिमः वर्तते’ अस्मिन् वाक्यांशे ‘वर्तते’ क्रियापदस्य कर्तृपदम् किम्?
(क) अद्यापि
(ख) अप्रतिमः
(ग) कालिदासः
(घ) अपि
उत्तर:
(ग) कालिदासः

IV. अस्य गद्यांशस्य उचितम् शीर्षकम् लिखत।
उत्तर:
महाकवि कालिदासः।

प्रश्न 5
ज्ञानप्राप्ति कृते अनेकानि साधनानि भवन्ति। कक्षायां वयं पुस्तकेभ्यः ज्ञान प्राप्तुमः, परं व्यावहारिक ज्ञानं जगतः प्राप्तुं शक्यते, यद्धि जीवनाय परमोपयोगि। व्यावहारिकज्ञानस्य प्राप्तिकृते लोकव्यवहारः सर्वाधिक महत्त्वपूर्ण साधनमस्ति। लोकव्यवहारज्ञानं देशस्य विभिन्नप्रदेशानां पर्यटनेन सरलतया भवति।

सममेव तत्रत्य-संस्कृति-वेषभूषा-वातावरण-भूगोल-इतिहास-उत्सव-प्रथादीनां विषयाणां ज्ञानं भवति। एतदेव कारणं यद् विद्यालयेषु छात्राणां कृते अवकाशकाले शैक्षणिकयात्रायाः आयोज़नं क्रियते। (CBSE 2018)

प्रश्ना :
I. एकपदेन उत्तरत
(i) ज्ञानप्राप्ति कृते कति साधनानि भवन्ति?
(ii) व्यावहारिकं ज्ञानं कुतः प्राप्तुं शक्यते?
(iii) विद्यालयेषु शैक्षणिकयात्रायाः आयोजनं कदा क्रियते?
(iv) व्यावहारिकं ज्ञानं कस्मै परमोपयोगि?
उत्तर:
(i) अनेकानि
(ii) जगतः
(ii) अवकाशकाले
(iv) जीवनाय

II. पूर्णवाक्येन उत्तरत
(i) विभिन्नप्रदेशानां पर्यटनेन केषां ज्ञानं भवति?
(ii) व्यावहारिकज्ञानप्राप्तये महत्त्वपूर्ण साधनं किम्?
उत्तर:
(i) विभिन्नप्रदेशानां पर्यटनेन लोकव्यवहारस्य ज्ञानं भवति।
(ii) व्यावहारिकज्ञानप्राप्तये लोकव्यवहारः महत्त्वपूर्ण साधनं अस्ति।

III. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत
(i) ‘प्राप्नुमः’ इति क्रियापदस्य कर्तृपदं किम्?
(क) कक्षायाम्
(ख) वयम्
(ग) छात्राणाम्
(घ) जीवनाय
उत्तर:
(ख) वयम्

(ii) ‘विद्यार्थिनाम्’ इत्यस्य किं पर्यायपदम् अत्र प्रयुक्तम्?
(क) विषयाणाम्
(ख) प्रथादीनाम्
(ग) छात्राणाम्
(घ) शैक्षणिकयात्रायाः
उत्तर:
(ग) छात्राणाम्

(iii) ‘मृत्युकाले’ इत्यस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
(क) प्राप्तुम्
(ख) क्रियते
(ग) जीवनाय
(घ) सरलतया
उत्तर:
(ग) जीवनाय

(iv) ‘साधनानि’ इति पदस्य किं विशेषण पदं प्रयुक्तम्?
(क) आयोजनम्
(ख) महत्त्वपूर्णम्
(ग) अनेकानि
(घ) विद्यालयेषु
उत्तर:
(ग) अनेकानि

IV. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं संस्कृतेन लिखत।
उत्तर:
‘लोकव्यवहारः।

प्रश्न 6
सुन्दरराजः सोमदेवस्य गृहे उद्योगी आसीत्। सः सोमदेवे विशेषविश्वासं प्रदर्शयति स्म। दश वर्षाणि यावत् सः सोमदेवस्य गृहे कार्यं कृतवान्, तथापि सोमदेवः तस्य वेतनं न वर्धितवान्। अतः खिन्नः सुन्दरराजः सोमदेवस्य गृहस्य कार्य परित्यज्य दुर्गदेवस्य गृहे उद्योग प्राप्तवान्। सोमदेवः यावत् वेतनं ददाति स्म ततोऽपि द्विगुणितं वेतनं ददाति स्म दुर्गदेवः। विश्वासः तस्मिन् एव कर्तुं शक्यते, यश्च विश्वासपात्रं भवति। (CBSE 2017)
प्रश्नाः
I. एकपदेन उत्तरत
(i) सोमदेवे क: विशेषविश्वासं प्रदर्शयति स्म?
(ii) दुर्गदेवः कियत् वेतनं ददाति स्म?
उत्तर:
(i) सुन्दरराजः
(ii) द्विगुणितं

II. पूर्णवाक्येन उत्तरत
(i) सुन्दरराजः कियत् वर्षाणि यावत् सोमदेवस्य गृहे कार्यं कृतवान्?
(ii) विश्वासः कस्मिन् एव कर्तुं शक्यते?
उत्तर:
(i) सुन्दरराजः दश वर्षाणि यावत् सोमदेवस्य गृहे कार्यं कृतवान्।
(ii) विश्वासः तस्मिन् एव कर्तुम् शक्यते, यः च विश्वासपात्रं भवति।

III. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत
(i) ‘खिन्नः’ इति कस्य पदस्य विशेषणम्?
(क) सोमदेवस्य
(ख) सुन्दरराजस्य
(ग) दुर्गदेवस्य
(घ) भीमदेवस्य।
उत्तर:
(ख) सुन्दरराजस्य

(ii) ‘वर्धितवान्’ इति क्रियापदस्य किं कर्तृपदं गद्यांशे प्रयुक्तम्?
(क) सुन्दरराजः
(ख) दुर्गदेवः
(ग) सोमदेवः
(घ) रामदेवः।
उत्तर:
(ग) सोमदेवः

(iii) ‘पर्यन्तम्’ इत्यर्थ किम् अव्ययपदं गद्यांशे प्रयुक्तम्?
(क) अत एव
(ख) ततः
(ग) यावत्
(घ) तथापि
उत्तर:
(ग) यावत्

(iv) ‘उद्यमी’ इति पदस्य किं पर्यायपदम् अत्र प्रयुक्तम्?
(क) विश्वासपात्रम्
(ख) उद्योगम्
(ग) उद्योगी
(घ) परिश्रमी
उत्तर:
(ग) उद्योगी

IV. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं संस्कृतेन लिखत।
उत्तर:
‘अति-विश्वासः न करणीयः’।

प्रश्न 7
संसारे सज्जनाः तथैव दुर्जनाः अपि वर्तन्ते। सज्जनानां संगतिः सत्सङ्गतिः दुर्जनानां संगतिश्च कुसंगतिः भवति। सामाजिकः प्राणी संगतिं विना स्थातुं न शक्नोति। अतः मनुष्याय संगतिः अनिवार्या एव। सत्सङ्गत्या मनुष्यः सदैव उन्नतिं करोति कुसङ्गत्या तु सः पतनमार्गे नूनं पतति। गुणं विना कोऽपि मानवः सन्मानवः न भवति। सत्संगेन सज्जनः सन्मार्गम् अनुसरति, गुणानभिनन्दति। सत्संगस्य प्रभावेन मनुष्येषु शनैः शनैः गुणाः प्रविश्यन्ति अवगुणाश्च बहिः निर्गच्छन्ति। संगस्य प्रभावः सर्वत्र दृश्यते। उक्तञ्च-‘कोटोऽपि सुमनः संगात् आरोहति सतां शिरः’ सत्संगत्या मनुष्यः समाजे मानं प्राप्नोति किन्तु कुसंगतौ पतित्वा तु मनुष्यः अपयशः निन्दाम् अपमानमेव प्राप्तनोति किन्तु कुसंगतौ पतित्वा तु मनुष्यः
अपयशः निन्दाम् अपमानवमेव प्राप्नोति। अतः सर्वदा सत्संगतौ एव वस्तव्यम्। (CBSE 2016)

प्रश्ना :
I. एकपदेन उत्तरत
(i) केषां संगतिः सत्संगतिः भवति?
(ii) संगतिः कस्मै अनिवार्या एव अस्ति?
(iii) कुत्र सज्जनाः दुर्जनाः च वर्तन्ते?
(iv) कया मनुष्यः पतनमार्गे नूनं पतति?
उत्तर:
(i) सज्जनानाम्
(ii) मनुष्याय
(iii) संसारे
(iv) कुसङ्गत्या

II. पूर्णवाक्येन उत्तरत
(i) सत्संगेन मनुष्यः किं किं करोति?
(ii) कुसंगतौ पतित्वा मनुष्यः किं प्राप्नोति?
उत्तर:
(i) सत्संगेन मनुष्यः सदैव उन्नतिं करोति। सत्संगस्य प्रभावेण मनुष्येषु शनैः शनैः गुणाः प्रविश्यन्ति अवगुणाः च बहिः निर्गच्छन्ति।
(ii) कुसंगतौ पतित्वा मनुष्यः अपयशः निन्दाम् अपमानम् एव प्राप्नोति।

III. निर्देशानुसारम् उत्तरत
(i) ‘आरोहति’ इति क्रियापदस्य कर्तृपदं गद्यांशात् चित्वा लिखत्?
(क) संगात्
(ख) अनुसरति
(ग) सुमनः
(घ) कीट:
उत्तर:
(घ) कीट:

(ii) सः पतनमार्गे नूनं पतति अत्र ‘सः’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) कीटाय
(ख) गुणाय
(ग) मनुष्याय
(घ) प्रभावाय
उत्तर:
(ग) मनुष्याय

(iii) ‘कुमार्गम्’ इत्यस्य विलोमपदं चित्वा लिखत?
(क) सन्मार्गम्
(ख) नूनम्
(ग) वस्तव्यम्
(घ) सत्संगतिः
उत्तर:
(क) सन्मार्गम्

(iv) ‘प्राणी’ इति पदस्य विशेषणपदं किम्?
(क) सामाजिकः
(ख) मनुष्यः
(ग) दुर्जनः
(घ) कीट:
उत्तर:
(क) सामाजिकः

IV. गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तर:
‘सत्संगस्य प्रभावः । सत्संगतौ एव वस्तव्यम्’।

प्रश्न 8.
जगति परोपकार एव धर्मः। परोपकार-प्रवृत्तो हि धर्मात्मा पुण्यात्मा च अस्ति। उत्तमाः पुरुषाः तु स्वार्थम् उपेक्ष्य अपि परहितसाधनतत्पराः भवन्ति। स्वोदरभरणरताः तु काककुक्करा एव सन्ति। वयं पश्यामः हि यत् प्रकृतिः अपि परहितसाधनपरा वर्तते। वृक्षाः परोपकाराय एव सुस्वादूनि फलानि फलन्ति। नद्यः परोपकाराय एव शीतलं जलं वहन्ति। गावः तु परोपकाराय एव प्रकृत्या मधुरं पयः दुहन्ति। सर्वत्र एव प्रकत्या परोपकारार्थ स्वशरीरमर्पितं क्रियते। अत्रैव शरीरस्य साफल्यम् अस्ति। परोपकाराय एव पादपः तीव्रतमं सूर्यतापं स्वमूर्ध्नि सहमानः स्वाश्रितेभ्यः पथिकेभ्यः छायां विस्तार्य सुखं वितरति। यथा दिनकरः पद्याकरं विकासयति, निशाकरः कैरवकुलं विकासयति, मेघः जलं यच्छति। परोपकार एव शरीरस्य सत्यं भूषणमस्ति। (CBSE 2015)

प्रश्ना :
I. एकपदेन उत्तरत
(i) जगति कः धर्मः?
(ii) परोपकारः शरीरस्य कीदृशं भूषणम् अस्ति?
उत्तर:
(i) परोपकारः
(ii) सत्यं

II. पूर्णवाक्येन उत्तरत
(i) स्वोदरभरणरताः मनुष्याः कीदृशाः भवन्ति?
(ii) प्रकृतिः परोपकारार्थं किं करोति?
उत्तर:
(i) स्वोदरभरणरताः मनुष्याः काककुक्कुराः एव भवन्ति।
(ii) प्रकृतिः परोपकारार्थम् स्वशरीरम् अर्पितम् करोति।

III. भाषिककार्यम्
(i) ‘वहन्ति’ पदस्य कर्तृपदं किम् अस्ति ?
(क) परोपकारः
(ख) धर्मः
(ग) दिनकरः
(घ) नद्यः
उत्तर:
(घ) नद्यः

(ii) ‘शीतलं जलं’ अनयोः पदयोः किं विशेष्यपदम् अस्ति?
(क) शीतलं
(ख) जलम्
(ग) शीतलजलम्
(घ) नद्यः
उत्तर:
(ख) जलम्

(iii) ‘दुष्टात्मा’ पदस्य विलोमपदं लिखत।
(क) सूर्यतापं
(ख) पुण्यात्मा
(ग) उत्तमाः
(घ) पद्माकरं
उत्तर:
(ख) पुण्यात्मा

(iv) ‘तरवः’ पदस्य समानार्थकपदम् गद्यांशात् चित्वा लिखत।
(क) वृक्षाः
(ख) नद्यः
(ग) पुरुषाः
(घ) गावः
उत्तर:
(क) वृक्षाः

IV. अनुच्छेदम् आधृत्य समुचितं शीर्षकं लिखत।
उत्तर:
‘परोपकारः सर्वोत्तमः धर्म:’।

प्रश्न 9
‘कः श्रेष्ठः? अहं ईश्वरः वा?’ अहंकारी राजा राज्यसभायां स्वराज्यस्य सर्वान् पण्डितान् पृष्टवान् “किं कर्तव्यम् यदि सत्यं वदेम् तर्हि प्राणहानिः तु निश्चिता अस्ति’ इति परस्परं विचारयन्तः भयत्रस्ताः पण्डिताः निरूत्तराः अभवन् राजानं च प्रार्थयन् देव दिनद्वयस्य अवधिः दीयताम्’ ‘तथास्तु’ राजा अवदत्। ‘अलं चिन्तया। अहं उत्तरं दास्यामि।’ चिन्ताकुलेषु तेषु एकः ज्ञानवृद्धः पण्डितः अकथयत्। नियते दिने सर्वे पण्डिताः राज्यसभां प्राप्तवन्तः। अञ्जलिं बद्धवा दण्डवत् प्रणम्य सः ज्ञानवृद्धः राजानम् अवदत् “राजन् निस्सन्देहं भवान् एव श्रेष्ठः न तु ईश्वरः।” ‘तत् कथम्’ गर्वेण मदोद्धतः राजा अपृच्छत्। ‘भवान् एव श्रेष्ठः’ यतः भवान् अस्मान् स्वराज्यात् बहिः निष्कासयितुं समर्थः। ईश्वरः स्वनिर्मितात् जगतः अस्मान् बहिष्कृत्य कुत्र निवासं दास्यति पण्डितः उदतरत्। (CBSE 2015)

प्रश्ना:
I. एकपदेन उत्तरत
(i) राजा आत्मानं कं मन्यते स्म?
(ii) राजा केन मदोद्धतः आसीत?
(iii) पण्डिताः कति दिवसानाम् अवधिम् अयाचन्?
(iv) पण्डितेषु क: राज्ञे उत्तरम् अयच्छत्?
उत्तर:
(i) ईश्वरः
(ii) गर्वेण
(iii) दिनद्वयस्य
(iv) एकः ज्ञानवृद्धः पण्डितः

II. पूर्णवाक्येन उत्तरत
(i) पण्डिताः किमर्थम् भयभीताः अभवन्?
(ii) राजा किं कर्तुं समर्थः ईश्वरः च किं कर्तुं समर्थः न अस्ति?
उत्तर:
(i) ‘किं कर्तव्यम् यदि सत्यं वदेम् तर्हि प्राणहानिः तु निश्चिता अस्ति’ इति परस्परं विचारयन्तः पण्डिताः भयभीताः आसन्।
(ii) राजा स्वराज्यात् बहिः निष्कासयितुम् समर्थः अस्ति परम् ईश्वरः स्वनिर्मितात् जगतः जनान् बहिष्कृत्य कुत्र निवासं दास्यति।

III. निर्देशानुसारम् उत्तरत
(i) ‘यतः भवान् अस्मान् स्वराज्यात् बहिः निष्कासयितुं समर्थः’ अत्र ‘अस्मान्’ पदं कस्मै प्रयुक्तम्?
(क) ज्ञानवृद्धान्
(ख) पण्डितान्
(ग) पण्डितेभ्यः
(घ) राजे
उत्तर:
(ग) पण्डितेभ्यः

(ii) ‘जगतः’ इत्यस्य किं विशेषणम् अत्र प्रयुक्तम्?
(क) समर्थः
(ख) स्वनिर्मितात्
(ग) श्रेष्ठः
(घ) स्वराज्यात्
उत्तर:
(ख) स्वनिर्मितात्

(iii) अस्मिन् अनुच्छेदे ‘समयः’ इत्यर्थ किं पदं प्रयुक्तम्?
(क) नियते
(ख) अञ्जलिं
(ग) अवधिः
(घ) निश्चिता
उत्तर:
(ग) अवधिः

(iv) ‘अन्तः’ इत्यस्य किं विलोमपदम् अत्र प्रयुक्तम्?
(क) बहिः
(ख) बहिष्कृत्य
(ग) मदोद्धतः
(घ) श्रेष्ठः
उत्तर:
(क) बहिः

IV. अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।
उत्तर:
‘अहंकारी राजा’।

प्रश्न 10.
“एकदा एकः संन्यासी नृपस्य भवनम् अगच्छत्। नृपः तस्य हार्दिक स्वागतम् अकरोत् समुचित भोजनप्रदानादिभिश्च अतिथिसत्कारम् अकारयत्। संन्यासिना सह वार्तालापप्रसङ्गे राजा तम् अपृच्छत्-‘हे महात्मन्! मम कृते सर्वाधिकं करणीयं किं कार्यम् अस्ति येन अहं पुण्यं प्राप्तुं शक्नुयाम्?’ स्पष्टवक्ता संन्यासी अवदत्-‘हे राजन्! यदि भवान् पुण्यं प्राप्तुमिच्छपित तर्हि अधिकाधिकं शयनं करोतु।’ नृपः विस्मयेन अपृच्छत्-‘भवता एतत् कीदृशं करणीयम् उपदिश्यते? अधिकाधिकशयनेन अधिकाधिकं पुण्यं प्राप्यते किम्? अहम् तु एतद् अवगन्तुं सर्वथा असमर्थोऽस्मि।’ संन्यासी विहस्य अवदत्-‘यावदधिकं भवान् स्वप्स्यति, तावदधिकमेव प्रजाः तव अत्याचारेभ्यः मुक्ताः भविष्यन्ति। भवतः पापानामपि तावान् क्षयः भविष्यति।’ एतदुक्त्वा संन्यासी बहिरगच्छत्, परं नृपस्तु प्रजानाम् पीडाम् अनुभवन् आत्मानं समीक्षमाणः पश्चात्तापं कर्तुमारभत। अहो! महात्मनाम् प्रभाव:!” (CBSE 2015)
प्रश्ना :
I. एकपदेन उत्तरत
(i) कः नृपस्य भवनम् आगच्छत्?
(ii) संन्यासिनः मतेन राजा कथम् अधिकाधिकं पुण्यं प्राप्तुं शक्नोति?
(iii) नृपस्य अधिकाधिकशयनेन प्रजाः केभ्यः मुक्ताः भविष्यन्ति?
(iv) अधिकाधिकशयनेन नृपस्य केषां क्षयः भविष्यति?
उत्तर:
(i) संन्यासी
(ii) अधिकाधिकं शयनं
(ii) अत्याचारेभ्यः
(iv) पापानाम्

II. पूर्णवाक्येन उत्तरत
(i) वार्तालापप्रसङ्गे राजा संन्यासिनं किम् अपृच्छत्?
(ii) संन्यासिनः बहिर्गमनान्तरं नृपस्य कीदृशी अवस्था अभवत्?
उत्तर:
(i) वार्तालापप्रसङ्गे राजा संन्यासिनम् अपृच्छत्, “हे महात्मन्! मम कृते सर्वाधिकं करणीयं किं कार्यम् अस्ति येन अहम् पुण्यं प्राप्तुम् शक्नुयाम्।”
(ii) संन्यासिनः बहिर्गमनान्तरं नृपः प्रजानाम् पीडाम् अनुभवन् आत्मानं समीक्षमाणः पश्चात्तापं कर्तुमारभत।

III. भाषिककार्यम्
(i) हानिः अस्य पदस्य समानार्थकं पदम् अनुच्छेदात् चित्वा लिखत।
(अ) प्रभावः
(ब) पुण्यम्
(स) क्षयः
(द) कृते
उत्तर:
(स) क्षयः

(ii) अस्मिन् अनुच्छेदे रुदित्वा इति पदस्य किं विलोमपदं प्रयुक्तम्?
(अ) एतदुक्त्वा
(ब) अनुभवन्
(स) शक्नुयाम्
(द) विहस्य
उत्तर:
(द) विहस्य

(iii) ‘भवतः पापानाम् अपि तावान् क्षयः भविष्यति।’-अस्मिन् वाक्ये किं विशेषणपदम्?
(अ) भवतः
(ब) पापानाम्
(स) तावान्
(द) क्षयः
उत्तर:
(स) तावान्

(iv) “भवता एतत् कीदृशं करणीयम् उपदिश्यते?” अस्मिन् वाक्ये ‘भवता’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(अ) संन्यासिने
(ब) राज्ञे
(स) प्रजायै
(द) अत्याचाराय
उत्तर:
(अ) संन्यासिने

IV. अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।
उत्तर:
‘महात्मनाम् प्रभावः’।

प्रश्न 11
विश्वामित्रः एकः क्षत्रियः नृपः आसीत्। तस्य बलेन सर्वे भयभीताः भवन्ति स्म। एकदा सः मुनेः वशिष्ठस्य आश्रमम् अगच्छत्। मुनिः तस्य अतीव सम्मानम् अकरोत्। आश्रमे विश्वामित्र: ‘नन्दिनी’ इति नाम्नः धेनुम् अपश्यत्। तस्याः रूपम् गुणान् च दृष्ट्वा तस्य मनसि लोभः जागृतः अभवत्। सः वशिष्ठम् ताम् धेनुम् अयाचत परम् वशिष्ठेन अस्वीकृतम्। तदा क्रोधवशात् विश्वामित्रः स्व-सैनिकान् ताम् धेनुम् हर्तुम् आदिष्टवान्। वशिष्ठः निर्भयः भूत्वा अवदत्-“कोऽपि मम आज्ञाम् बिना एनाम् स्प्रष्टुम् अपि न शक्नोति” इति। विश्वामित्रः वशिष्ठस्य “आत्मबलं दृष्ट्वा विस्मितः अभवत् सः अनायासम् अवदत् धिक् बलं, क्षत्रिय बलं, ब्रह्मतेजो बलं बलम्।” तत्पश्चात् विश्वामित्रः घोरतपस्यां कृत्वा ब्रह्मतेजं प्राप्नोत्।
प्रश्ना :
I. एकपदेन उत्तरत
(i) कस्य बलेन सर्वे भयभीताः भवन्ति स्म?
(ii) विश्वामित्रः वशिष्ठम् काम् अयाचत?
उत्तर:
(i) विश्वामित्रस्य
(ii) धेनुम्

II. पूर्णवाक्येन उत्तरत
(i) वशिष्ठः किम् अवदत्?
(ii) विस्मितः भूत्वा विश्वामित्रः किम् अवदत्?
उत्तर:
(i) वशिष्ठः अवदत्, “कोऽपि मम आज्ञाम् बिना धेनुम् स्प्रष्टुम् अपि न शक्नोति।”
(ii) विस्मितः भूत्वा विश्वामित्रः अवदत् यत् धिक् बलं क्षत्रिय बलं, ब्रह्मतेजो बलं बलम्।

III. यथानिर्देशमुत्तरत
(i) ‘आदिष्टवान्’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) क्रोधवशात्
(ख) विश्वामित्रः
(ग) स्व-सैनिकान्
(घ) धेनुम्
उत्तर:
(ख) विश्वामित्रः

(ii) ‘तस्याः रूपम् गुणान् च’ अत्र ‘तस्याः’ इति सर्वनामस्थाने संज्ञापदम् किम्?
(क) वशिष्ठस्य
(ख) विश्वामित्रस्य
(ग) धेनोः
(घ) सैनिकस्य
उत्तर:
(ग) धेनोः

(iii) ‘विधाय’ इति अर्थे अनुच्छेदे किं पदं प्रयुक्तम्?
(क) प्राप्नोत्
(ख) अगच्छत्
(ग) अपश्यत्
(घ) कृत्वा
उत्तर:
(घ) कृत्वा

(iv) ‘एकदा सः मुनेः वशिष्ठस्य आश्रमम् अगच्छत्’-अत्र विशेषणपदम् किम्?
(क) मुनेः
(ख) वशिष्ठस्य
(ग) सः
(घ) आश्रमम्
उत्तर:
(क) मुनेः

IV. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकम् लिखत।
उत्तर:
वशिष्ठस्य आत्मबलम्।

प्रश्न 12
एकस्मिन् ग्रामे जगत्पालो नाम एकः सज्जनो वसति। तस्य पत्नी कला अस्ति। जगत्पालः सप्तत्रिंशत् वर्षीयः कला द्वात्रिंशत् वर्षीया च स्तः। जगत्पालस्य हृदयम् अतीव उदारं, कलायाः स्वभावश्च अतीव मधुरो विद्यते। तौ दम्पती सुखेन निवसतः। तयोः एकः तनयः एका तनया च स्तः। तनयस्य नाम विवेकः तनयायाश्च नाम प्रतिभा अस्ति। विवेकः एकादशवर्षीयः प्रतिभा सप्तवर्षीया च। विवेकः सप्तकक्षायां पठति, प्रतिभा तृतीयकक्षायां च। आम्र-निम्ब-मधूकादि-वृक्षाणां छायासु स्थितं जगत्पालस्य गृहम् अत्यन्तं रमणीयं वर्तते। जगत्पालः एकः उद्योगी कुशलश्च कृषकः अस्ति। सः सर्वदा कृषिकर्मणि संलग्नः स्वकर्तव्यं पालयति। सः परिश्रमं कृत्वा स्वक्षेत्रे पर्याप्तम् अन्नं, शाकं, फलं च उत्पादयति। तस्य गृहे एका श्वेतवर्णा धेनुः वर्तते। सा यथेप्सितं दुग्धं ददाति।

प्रश्ना :
I. एकपदेन उत्तरत
(i) कलायाः स्वभावः कीदृशः वर्तते?
(ii) धेनुः कीदृशं दुग्धं ददाति?
उत्तर:
(i) मधुरः
(ii) यथेप्सितम्

II. पूर्णवाक्येन उत्तरत
(i) जगत्पालस्य गृहं कुत्र स्थितं वर्तते?
(ii) जगत्पालः स्वक्षेत्रे किम्-किम् उत्पादयति?
उत्तर:
(i) जगत्पालस्य गृहं आम्र-निम्ब-मधूकादि-वृक्षाणाम् छायासु स्थितं वर्तते।
(ii) जगत्पालः स्वक्षेत्रे पर्याप्तं अन्नं शाकं फलं च उत्पादयति।

III. यथानिर्देशमुत्तरत
(i) ‘निरतः’ इत्यर्थे अस्मिन् अनुच्छेदे किं पदं प्रयुक्तम् अस्ति?
(क) तनयः
(ख) वर्षीयः
(ग) संलग्नः
(घ) निवसतः
उत्तर:
(ग) संलग्नः

(ii) अस्मिन् अनुच्छेदे ‘उत्पादयति’ इति क्रियापदस्य कर्ता कः अस्ति?
(क) उद्योगी
(ख) जगत्पाल:
(ग) सः
(घ) धेनुः
उत्तर:
(ग) सः

(iii) अत्र ‘सप्तवर्षीया’ इत्यस्य पदस्य विशेष्यपदं किम् अस्ति?
(क) प्रतिभा
(ख) कला
(ग) तनया
(घ) पत्नी
उत्तर:
(क) प्रतिभा

(iv) ‘तस्य गृहे’ इत्यत्र ‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम् अस्ति?
(क) धेनवे
(ख) कलायै
(ग) तस्मै
(घ) जगत्पालाय
उत्तर:
(घ) जगत्पालाय

IV. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।
उत्तर:
कृषकः जगत्पालः।

प्रश्न 13
ईश्वरस्य भक्तः एकः बालकः आसीत्। एकदा ईश्वरः स्वप्ने तमकथयत्- ‘त्वं तु मम भक्तः असि, अतः मम एकं कार्यं कुरु। तव गृहात् बहिः एका शिला अस्ति। तां शिलां तत्स्थानात् अपसारय।’ तस्य बालकस्य ईश्वरे दृढविश्वासः आसीत्। अतः अविचार्य एव सः ईश्वरादेशम् अमन्यत। प्रातःकाले उत्थाय सः बृहच्छिलाम् अपश्यत्। ईश्वरं स्मृत्वा बालकः तस्मिन् कार्ये नियुक्तः जातः। तदा तं दृष्ट्वा जनाः अकथयन्- “अस्याः शिलायाः अपसारणम् असम्भवम्, अतः वृथा परिश्रमं मा कुरु।” परं सः बालकः तस्मिन् कार्ये संलग्नः अभवत्। इत्थं कार्यं कुर्वन् तस्य शरीरं तु बलवत् अभवत् परं सः नि रात्रौ स्वप्ने पुनरागतम् ईश्वरं सः अकथयत्-मया कृतः श्रमः तु व्यर्थः जातः। शिला तु तत्रैव वर्तते। स्मितमानः ईश्वरः प्रत्यवदत्-संसारेऽस्मिन् किमपि कार्यं तु निष्फलं न भवति। पश्य, निर्बलः त्वं अधुना सबलः असि। जीवने कदाचित् परोक्षः लाभः नरः लभते। (CBSE 2017)

प्रश्ना :
I. एकपदेन उत्तरत
(i) कं स्मृत्वा बालकः कार्यम् अकरोत् ?
(ii) बलवत् किम् अभवत्?
उत्तर:
(i) ईश्वरं
(ii) शरीरं

II. पूर्णवाक्येन उत्तरत
(i) जनाः किम् अकथयन्?
(ii) स्वप्ने आगतम् ईश्वरं बालक: किमकथयत्?
उत्तर:
(i) जनाः अकथयन् यत् शिलायाः अपसारणम् असम्भवम्, अतः वृथा परिश्रमम् मा करणीयम्।
(ii) स्वप्ने आगतम् ईश्वरम् बालकः अकथयत् यत् बालकेन कृतः श्रमः तु व्यर्थः जातः। शिला तु तत्रैव वर्तते।

III. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत
(i) ‘अमन्यत्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) ईश्वरः
(ख) जनः
(ग) भक्तः
(घ) सः (बालकः)
उत्तर:
(घ) सः (बालकः)

(ii) ‘विस्मृत्य’ इति पदस्य किं विपरीतपदम् अत्र प्रयुक्तम्?
(क) अविचार्य
(ख) उत्थाय
(ग) स्मृत्वा
(घ) दृष्ट्वा
उत्तर:
(ग) स्मृत्वा

(iii) ‘स्मितमानः’ इति पदं कस्य विशेषणपदम् अस्ति?
(क) बालकस्य
(ख) भक्तस्य
(ग) जनस्य
(घ) ईश्वरस्य
उत्तर:
(घ) ईश्वरस्य

(iv) ‘त्वं तु मम भक्तः असि’ अत्र ‘त्वम्’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) जनाय
(ख) बालकाय
(ग) ईश्वराय
(घ) भक्ताय
उत्तर:
(ख) बालकाय

IV. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं लिखत।
उत्तर:
‘किमपि कार्यं निष्फलं न भवति।’

प्रश्न 14.
गुरुकुले पठन् एकः बालकः आयुर्वेदस्य ज्ञानम् अर्जति स्म। एकदा सः अतिरुग्णः जातः। गुरुणा तस्य उपचारः न कृतः। औषधिम् अन्वेष्टुं सः वनं च प्रेषितः। औषधिम् अन्विषयन् एकं वर्ष व्यतीतम् परं सः रोगमुक्तः नाभवत्। सः अचिन्तयत्- ‘जीवनस्य अन्तिमे काले गुरुकुलं गमनम् एव श्रेष्ठतरम्’ इति विचार्य सः गुरुकुलं प्रत्यागच्छत्। रुग्णं तं दृष्ट्वा गुरुः तस्मै औषधिं प्रायच्छत्। अचिरात् एव सः नीरोगः जातः। रोगमुक्तः क्रुद्धः सः गुरुम् अकथयत्-“यदा भवान् रोगमुक्तकर्तुं समर्थं आसीत् तर्हि किमर्थं माम् वनं प्रेषितवान्।” विनम्रः गुरुः प्रत्यवदत्-“यदि अहम् तुभ्यम् अत्रैव औषधिं दद्याम् तदा त्वं तत्ज्ञानार्जनं कर्तुं समर्थं न भवेः यत् स्वानुभवेन त्वया अर्जितम्।” सः शिष्यः आयुर्वेदस्य ज्ञाता महर्षिः चरकः आसीत्। उक्तम् एव-“नास्ति आत्मसमं बलम्।”

प्रश्ना :
I. एकपदेन उत्तरत
(i) बालकः गुरुकुले कस्य ज्ञानं अर्जति स्म?
(ii) किम् अन्विषयन् बालकस्य एकं वर्ष व्यतीतम्?
उत्तर:
(i) आयुर्वेदस्य
(ii) औषधिम्

II. पूर्णवाक्येन उत्तरत
(i) बालकं रुग्णं दृष्ट्वा गुरुः किमकरोत्?
(ii) रोगयुक्तः बालकः किम् अचिन्तयत्?
उत्तर:
(i) बालकम् रुग्णं दृष्ट्वा गुरुः तस्य उपचार न कृत्वा औषधिम् अन्वेष्टुम् बालकम् वनं प्रेषितवान्।
(ii) रोगयुक्तः बालकः अचिन्तयत् यत् जीवनस्य अन्तिमे काले गुरुकुलम् गमनम् एव श्रेष्ठतरम्।

III. निर्देशानुसारम् प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत
(i) ‘प्रत्यागच्छत्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) गुरुः
(ख) विनम्रः
(ग) समर्थः
(घ) सः (शिष्यः)
उत्तर:
(घ) सः (शिष्य)

(ii) ‘रोगी’ इत्यर्थ अत्र किं पदं प्रयुक्तम्?
(क) रोगमुक्तः
(ख) रोगयुक्तः
(ग) रुग्णः
(घ) नीरोगी
उत्तर:
(ग) रुग्णः

(iii) ‘गुरुणा तस्य उपचारः न कृतः’ अत्र ‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) गुरवे
(ख) औषधये
(ग) बालकाय
(घ) रोगमुक्ताय
उत्तर:
(ग) बालकाय

(iv) ‘अन्तिमे’ इति पदं कस्य विशेषणपदम् अस्ति?
(क) जातस्य
(ख) कालस्य
(ग) वर्षस्य
(घ) गमनस्य
उत्तर:
(ख) कालस्य

IV. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं लिखत।
उत्तर:
‘नास्ति आत्मसमम् सुखम्।’

प्रश्न 15.
पुरा श्रीहर्षः भारतस्य चक्रवर्ती आसीत्। तस्मिन् काले ‘ह्यूनत्साङ्गः’ नाम चीनदेशीयः यात्री भारतम् आगतवान्। सः भारते अनेकेषु स्थलेषु अटितवान्। जनानां व्यवहारं भारतीयसंस्कृतिम् च अवगतवान्। विविधान् धर्मग्रन्थान् विविधानि ऐतिहासिकवस्तूनि च सगृहीतवान्। सः स्वदेशगमनतः पूर्वं हर्षचक्रवर्तिनम् अपश्यत्। तस्मै स्वानुभवं च निवेदितवान्। तस्मै कृतज्ञतां समर्पितवान्। हर्षः तस्मै अनेकान् उपहारान् दत्त्वा सम्मानितवान्। तस्य प्रयाणाय नौकां व्यवस्थापितवान्। रक्षणार्थं विंशतिः योधान् अपि प्रेषितवान्।

हर्षः योधान् उद्दिश्य उक्तवान्-“भोः भटाः! एतस्यां नौकायां विविधाः भारतीयधर्मग्रंथाः सन्ति। अनेकानि ऐतिहासिकवस्तूनि च सन्ति। एतानि भारतीयसंस्कृतेः प्रतीकानि अमूल्यानि च। अतः एतेषां ग्रंथानां वस्तूनां च रक्षणं भवतां कर्तव्यम्” इति। एकस्मिन् दिने समुद्रे अकस्मात् नौका दोलायमाना अभवत्। भीतः प्रधाननाविकः उक्तवान् “भोः। नौकायाः, भारः अधिकः अस्ति। झटिति एतानि पुस्तकानि समुद्रे क्षिपन्तु। स्वप्राणान् च रक्षन्तु” इति। इदं वचनं श्रुत्वा सर्वे योधाः संस्कृतेः रक्षणार्थं झटिति एकैकशः तृणमिव स्वशरीरम् एव समुद्रे क्षिप्तवन्तः। एतत् दृश्यं दृष्ट्वा ह्यूनत्साङ्गः नेत्राभ्याम् अश्रूणि स्रावितवान्।

I. एकपदेन उत्तरत
(i) स्वदेशगमनतः पूर्वं ह्यूनत्साङ्ग कं दृष्टवान्?
(ii) कः नेत्राभ्याम् अश्रूणि स्रावितवान्?
उत्तर:
(i) हर्षचक्रवर्तिनम्
(ii) ह्यूनत्साङ्गः

II. पूर्णवाक्येन उत्तरत
(i) भीतः प्रधाननाविकः किम् उक्तवान् ?
(ii) ह्यूनत्साङ्गः भारते अनेकेषु स्थलेषु अटित्वा किं किं ज्ञातवान्?
उत्तर:
(i) भीतः प्रधाननाविकः उक्तवान् यत् नौकायाः भारः अधिकः अस्ति। झटिति एतानि पुस्तकानि समुद्रे क्षिपन्तु स्वप्राणान् च रक्षन्तु।
(ii) ह्यूनत्साङ्गः भारते अनेकेषु स्थलेषु अटित्वा जनानां व्यवहारं भारतीय संस्कृतिम् च ज्ञातवान्।

III. निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत
(i) ‘सः भारते अनेकेषु स्थलेषु अटितवान्’ अस्मिन् वाक्ये कर्तृपदं किम्?
(क) सः
(ख) अटितवान्
(ग) अनेकेषु
(घ) स्थलेषु
उत्तर:
(क) सः

(ii) “एतेषां ग्रन्थानां, वस्तूनां च रक्षणं भवतां कर्तव्यम्” इति अस्मिन् वाक्ये विशेषणपदं चित्वा लिखत।
(क) एतेषां
(ख) वस्तूनां
(ग) ग्रन्थानां
(घ) भवताम्
उत्तर:
(क) एतेषां

(iii) ‘तस्मै स्वानुभवं निवेदितवान्।’ अस्मिन् वाक्ये ‘तस्मै’ इति सर्वनामपदस्य स्थाने संज्ञापदं किं भविष्यति?
(क) नाविकम्
(ख) नायकम्
(ग) हर्षाय
(घ) ह्यूनत्साङ्गम्
उत्तर:
(ग) हर्षाय

(iv) ‘शीघ्रम्’ इति पदस्य पर्यायपदं चित्वा लिखत।
(क) झटिति
(ख) मन्दम्
(ग) तृणम्
(घ) आद्यम्
उत्तर:
(क) झटिति

IV. अस्य गद्यांशस्य उचितं शीर्षकं लिखत।
उत्तर:
‘चीनदेशीययात्री ह्यूनत्साङ्गः’।

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 1

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 2

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 3

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 4

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 5

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 6

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 7

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 8

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 9

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 10

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 11

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 12

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 13

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 14

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 15

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 16

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 17

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 18

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 19

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 20

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 21

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 22

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 23

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 24

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 25

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 26

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 27

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 28

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 29

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 30

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 31

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 32

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 33

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 34

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 35

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 36

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 37

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 38

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 39

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 40

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 41

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 42

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 43

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 44

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 45

NCERT Solutions for Class 10th Sanskrit Chapter 1 अपठित -अवबोधनम 46

The post Class 10 Sanskrit Grammar Book Solutions अपठित-अवबोधनम् appeared first on Learn CBSE.

Class 10 Sanskrit Grammar Book Solutions चित्राधारितम् वर्णनम्

$
0
0

Students can easily access the NCERT Solutions for Class 10 Sanskrit Grammar Book चित्राधारितम् वर्णनम् Questions and Answers which include important questions and deep explanations provided by our experts.

Sanskrit Vyakaran Class 10 Solutions चित्राधारितम् वर्णनम्

पञ्चसु संस्कृतवाक्येषु मञ्जूषापदसहायतया अधोलिखितं चित्रवर्णनं कुरुत

(पाँच संस्कृत वाक्यों में मञ्जूषा के शब्दों की सहायता से निम्नलिखित चित्र का वर्णन कीजिए)
(Describe the following picture in five Sanskrit sentences with the help of words given in the box)

प्रश्न 1
अधः प्रदत्तम् चित्रम् आधृत्य मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च संस्कृतवाक्यानि लिखत। (CBSE 2018)
Class 10 Sanskrit Grammar Book Solutions चित्राधारितम् वर्णनम् 1
मञ्जूषा – उद्यानम्, अस्माकं, मालाकारः, भ्रमन्ति, जीवनाधार, सन्ति, वृक्षारोपणम्, अनेकानि, विकसन्ति, इदम्, करोति।
उत्तर:
(i) इदम् चित्रम् उद्यानस्य अस्ति।
(ii) उद्याने मालाकारः पादपं रोपयति।
(iii) पादपेषु अनेकानि सुन्दराणि पुष्पाणि विकसन्ति।
(iv) वृक्षम् एव अस्माकं जीवनाधारम् अस्ति।
(v) अतएव अस्माभिः वृक्षारोपणम् करणीयम्।

प्रश्न 2.
अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत। (CBSE 2018)
Class 10 Sanskrit Grammar Book Solutions चित्राधारितम् वर्णनम् 2
मञ्जूषा : वाटिकायाम्, पशवः, परस्परं, वृक्षः, तडागस्य, जलम्, समीपे, आगत्य, पिबन्ति, पक्षिणः, अपि, भल्लूकः, कुरङ्गः।
उत्तर:
(i) इदम् चित्रम् तडागस्य अस्ति।
(ii) सर्वे पशवः पक्षिणः च अत्र आगत्य जलं पिबन्ति।
(iii) तडागस्य समीपे अनेके वृक्षाः सन्ति।
(iv) कुरङ्गः, भल्लूकः हरिणः च वाटिकायाम् विचरन्ति।
(v) प्रकृतेः शोभा रमणीया अस्ति।

More Resources for CBSE Class 10

प्रश्न 3.
अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिखत। (CBSE 2018)
Class 10 Sanskrit Grammar Book Solutions चित्राधारितम् वर्णनम् 3
मञ्जूषा -उड्डीयते, नरम्, कूपात्, पाययति, काकः, गगने खगाः, जलं, वृक्षस्य, एका महिला, रज्ज्वा, प्रतीक्षते, निष्कासयति, उपरि, द्विमहिले।
उत्तर:
(i) अस्मिन् चित्रे ग्रामस्य दृश्यम् अस्ति।
(ii) एका महिला रज्ज्वा कूपात् जलम् निष्कासयति। चित्राधारितं वर्णनम्
(iii) महिला नरम् जलं पाययति।
(iv) द्वे महिले पंक्तौ प्रतीक्षते।
(v) गगने खगाः उड्डीयन्ते।

प्रश्न 4
प्रदत्तं चित्रं ध्यानेन दृष्ट्वा मञ्जूषातः पदानि चित्वा पञ्च संस्कृतवाक्यानि रचयत- (CBSE 2015)
Class 10 Sanskrit Grammar Book Solutions चित्राधारितम् वर्णनम् 4
मञ्जूषा – वर्षाकालः, अस्ति, बालकाः, बालिकाः च, क्रीडन्ति, कृष्णमेघाः, आकाशः, वृक्षाः, सन्ति, दोलायां, दूरे, गृहाणि, पत्राणि, शाखाः, आनन्दम्, अनुभवन्ति, जलबिन्दवः पतन्ति, उल्लासस्य, वातावरणं, दृश्यते।
उत्तर:
(i) इदम् वर्षाकालस्य चित्रम् अस्ति।
(ii) आकाशः कृष्णमेघैः आच्छादितः अस्ति।
(iii) बालिकाः दोलायाम् दोलयन्ति।
(iv) सर्वे बालकाः आनन्दम् अनुभवन्ति।
(v) सर्वत्र उल्लासस्य वातावरणं दृश्यते।

प्रश्न 5
चित्रं वीक्ष्य मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च संस्कृतवाक्यानि रचयत। (CBSE 2015)
Class 10 Sanskrit Grammar Book Solutions चित्राधारितम् वर्णनम् 5
मञ्जूषा :चलभाषितयन्त्रम् (मोबाइलफोन), मोटरसाइकिलयानेन, दुरुपयोगः, घातकः, दुर्घटना, मार्गे, यात्रायां, सम्भाविता, नियमस्य, सहसा, उल्लंघनम्, दण्डनीयः।
उत्तर:
(i) अस्मिन् चित्रे एकः युवक: मोटरसाइकिलयानं चालयति।
(ii) सः चलभाषितयन्त्रस्य दुरुपयोगं करोति।
(iii) युवकः नियमस्य उल्लंघनं करोति।
(iv) युवकः मोटरसाइकिलयानेन मार्गे गच्छति।
(v) मार्गे दुर्घटना सम्भाविता भवति।

प्रश्न 6.
मञ्जूषायां प्रदत्तशब्दानां सहायतया चित्रं दृष्ट्वा पञ्च वाक्यानि लिखत। (CBSE 2014)
Class 10 Sanskrit Grammar Book Solutions चित्राधारितम् वर्णनम् 6

मञ्जूषा: राजा, सिंहासने, पंडितः, राजसभा, सेविका, तिष्ठति, सुसज्जितः, चिन्तितः, अङ्गरक्षक: पृच्छति, पश्यति, स्तम्भः, हस्ते, सुखेन।
उत्तर:
(i) इदम् राजसभायाः चित्रम् अस्ति।
(ii) राजसभायाम् सुसज्जितः स्तम्भः अस्ति।
(iii) राजा सुखेन सिंहासने तिष्ठति।
(iv) अत्र एकः अङ्गरक्षकः एका सेविका च स्तः।
(v) चिन्तितः पण्डितः नृपम् पृच्छति।

प्रश्न 7.
अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्चवाक्यानि संस्कृतेन लिखत
Class 10 Sanskrit Grammar Book Solutions चित्राधारितम् वर्णनम् 7
मञ्जूषा :उपवनम्, बालिकाः, वृक्षाः, पादपाः, प्रसन्नाः, पञ्च, अस्ति, सन्ति, क्रीडन्ति, कन्दुकेन, शोभन्ते, पर्वताः, पक्षिणः, आकाशे, पश्यन्ति, भ्रमन्ति, परिवेशः, सुन्दरः।
उत्तर:
(i) इदम् चित्रम् उपवनस्य अस्ति।
(ii) आकाशे पक्षिणः इतस्ततः उत्पतन्ति।
(iii) अत्र वृक्षाः पादपाः पर्वताः च शोभन्ते।
(iv) पञ्च बालिकाः कन्दुकेन क्रीडन्ति।
(v) उपवनस्य परिवेशः सुन्दरः अस्ति

प्रश्न 8.
पञ्चसु संस्कृतवाक्येषु मञ्जूषापदसहायतया अधोलिखितं चित्रवर्णनं कुरुत (CBSE 2008)
Class 10 Sanskrit Grammar Book Solutions चित्राधारितम् वर्णनम् 8
मञ्जूषा :ग्रन्थालयस्य, पुस्तकानि, चित्रं, जनाः, इदं, पठन्ति, अत्र, अनेकानि, सन्ति, समाचारपत्रम्, व्यजनानि, पुस्तकालये, ग्रन्थपालौ, पुस्तककपाटिका।
उत्तर:
(क) एतत् चित्रं ग्रन्थालयस्य दृश्यं दर्शयति ।
(ख) पुस्तककपाटिकायां पंक्तिबद्धानि पुस्तकानि सज्जितानि सन्ति
(ग) उपरि व्यजनानि चलन्ति अधः च जनाः पुस्तकानि समाचार-पत्राणि वा पठन्ति।
(घ) उपनेत्रं धारयन् ग्रंथपालः जनान् ईक्षते।
(ङ) पुस्तकालये द्वौ छात्रौ मनोयोगेन पुस्तकानि पठतः।

प्रश्न 9.
मञ्जूषायां प्रदत्तशब्दानां सहायतया चित्रं दृष्ट्वा पञ्च वाक्यानि संस्कृते लिखत। (CBSE 2012)
Class 10 Sanskrit Grammar Book Solutions चित्राधारितम् वर्णनम् 9
मञ्जूषा : नारिकेलस्य, वृक्षाः, मधुराणि, फलानि, जलयुक्तम्, नरः, हस्ते, आरोहति, त्रोटयितुम्, एकम्, फलम्, कुशलः, स्वास्थ्यवर्धकानि
उत्तर:
(i) अस्मिन् चित्रे नारिकेलस्य वृक्षाः दृश्यन्ते।
(ii) नारिकेलस्य फलानि मधुराणि स्वास्थ्यवर्धकानि च भवन्ति।
(iii) नारिकेलम् जलयुक्तम् भवति।
(iv) एकः कुशलः नरः एकम् फलम् त्रोटयितुम् वृक्षं आरोहति।
(v) नारिकेलस्य वृक्षाः सघनाः दीर्घाः च भवन्ति।

प्रश्न 10.
अधोदत्तं चित्रं दृष्ट्वा प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृते लिखत।

Class 10 Sanskrit Grammar Book Solutions चित्राधारितम् वर्णनम् 10
मञ्जूषा : समूहे, कार्यम्, संगणकयन्त्रम्, विचारविमर्शम्, आसन्दिकां, कुर्वन्ति, सह, उपविशन्ति, कक्षे, मञ्चके, उपरि, प्रसन्नाः, दृश्यन्ते, महिलाः, कार्यरताः, मिलित्वा
उत्तर:
(i) इदम् एकस्य कार्यालयस्य चित्रं अस्ति।
(ii) कक्षे महिलाः पुरुषाः च आसन्दिकां उपविशन्ति।
(iii) मञ्चके उपरि संगणकयन्त्राणि सन्ति।
(iv) सर्वे जनाः मिलित्वा विचारविमर्शम् कुर्वन्ति।
(v) समूहे कार्यरताः महिलाः प्रसन्नाः दृश्यन्ते।

प्रश्न 11.
मञ्जूषायां दत्तानां शब्दानां सहायतया चित्रं दृष्ट्वा संस्कृते पञ्च वाक्यानि लिखत- (CBSE 2012)
Class 10 Sanskrit Grammar Book Solutions चित्राधारितम् वर्णनम् 11
मञ्जूषा : वृष्टिकारणात्, जलमग्नाः, सर्वत्र, मन्दं चलन्ति, द्विचक्रिका, तैलवाहनानि, मार्गाः, चलति, चालयन्ति, कष्टम्, अनुभवन्ति, जलप्लावः, तरन्ति वा, इति, भ्रमः।
उत्तर:
(i) अस्मिन् चित्रे वृष्टिकारणात् जलमग्नाः मार्गाः दृश्यन्ते।
(ii) जनाः कष्टेन वाहनानि चालयन्ति।
(iii) कारयानानि बसयानानि च मन्दं चलन्ति।
(iv) जलमग्ने मार्गे जनाः व्याकुलाः सन्ति।
(v) तैलवाहनानि चलन्ति तरन्ति वा इति भ्रमः।

प्रश्न 12
अधोदत्तं चित्र दृष्ट्वा प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृते लिखत। (CBSE 2012)
Class 10 Sanskrit Grammar Book Solutions चित्राधारितम् वर्णनम् 12
मञ्जूषा : परिवारस्य, आसन्दिका, फलानि, कुर्वन्ति, जलम्, सदस्याः, करण्डके, तिष्ठन्ति, स्थाल्याम्, पात्राणि, बालकः, पश्यति, प्रसन्नचित्ता, हस्ते, जलपात्रम्, मञ्चके, दृश्यन्ते।
उत्तर:
(i) एतत् चित्रम् भोजनकक्षस्य अस्ति।
(ii) परिवारस्य सदस्याः आसन्दिकायाम् तिष्ठन्ति।
(iii) करण्डके मधुराणि फलानि सन्ति।
(iv) मञ्चके पात्राणि भोजनानि च दृश्यन्ते।
(v) पुरुषस्य हस्ते जलपात्रम् अस्ति।

प्रश्न 13.
चित्रं आधृत्य अधः प्रदत्त-शब्दसूची-सहायतया संस्कृते पञ्चवाक्यानि लिखत (CBSE 2012)
Class 10 Sanskrit Grammar Book Solutions चित्राधारितम् वर्णनम् 13
मञ्जूषा :ऐतिहासिकन्यासः, कुतुब मीनारः, दिल्लीस्थः, प्राचीनः, परितः, वृक्षाः, पर्यटकाः, आकर्षण-केन्द्रम् , अवशेषाः, आगच्छन्ति, अस्ति, दृश्यन्ते, स्मारकम्, पर्यटनस्थलम्
चित्राधारितं वर्णनम्
उत्तर:
(i) अस्मिन् चित्रे दिल्लीस्थः ऐतिहासिकन्यासः कुतुबमीनारः अस्ति।
(ii) एतत् पर्यटनस्थलम् पर्यटकानाम् आकर्षण केन्द्रम् अस्ति।
(iii) अत्र प्राचीनाः अवशेषाः अपि दृश्यन्ते।
(iv) स्मारकम् परितः वृक्षाः सन्ति।
(v) पर्यटकाः कुतुबमीनारं द्रष्टुम् आगच्छन्ति।

NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 1

NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 2

NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 3

NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 4

NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 5

NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 6

NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 7

NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 8

NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 9

NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 10

NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 11

NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 12

NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 13

NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 14

NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 15

NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 16

NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 17

NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 18

NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 19

NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 20

अभ्यासार्थम्

NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 21

NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 22

NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 23

NCERT Solutions for Class 10th Sanskrit Chapter 3 Chitraadharitam Varnanam 24

The post Class 10 Sanskrit Grammar Book Solutions चित्राधारितम् वर्णनम् appeared first on Learn CBSE.

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 1 भारतीवसन्तगीतिः

$
0
0

Students can easily access the NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 1 भारतीवसन्तगीतिः Questions and Answers which include important questions and deep explanations provided by our experts.

Shemushi Sanskrit Class 10 Solutions Chapter 1 भारतीवसन्तगीतिः

Class 10 Sanskrit Shemushi Chapter 1 भारतीवसन्तगीतिः Textbook Questions and Answers

NCERT Solutions for Class 9th Sanskrit Chapter 1 Tat Twam Asi 1

More Resources for CBSE Class 9

NCERT Solutions for Class 9th Sanskrit Chapter 1 Tat Twam Asi 2

NCERT Solutions for Class 9th Sanskrit Chapter 1 Tat Twam Asi 3

NCERT Solutions for Class 9th Sanskrit Chapter 1 Tat Twam Asi 4

NCERT Solutions for Class 9th Sanskrit Chapter 1 Tat Twam Asi 5

NCERT Solutions for Class 9th Sanskrit Chapter 1 Tat Twam Asi 6

NCERT Solutions for Class 9th Sanskrit Chapter 1 Tat Twam Asi 7

NCERT Solutions for Class 9th Sanskrit Chapter 1 Tat Twam Asi 8

NCERT Solutions for Class 9th Sanskrit Chapter 1 Tat Twam Asi 9

NCERT Solutions for Class 9th Sanskrit Chapter 1 Tat Twam Asi 10

NCERT Solutions for Class 9th Sanskrit Chapter 1 Tat Twam Asi 11

NCERT Solutions for Class 9th Sanskrit Chapter 1 Tat Twam Asi 12

NCERT Solutions for Class 9th Sanskrit Chapter 1 Tat Twam Asi 13

NCERT Solutions for Class 9th Sanskrit Chapter 1 Tat Twam Asi 14

NCERT Solutions for Class 9th Sanskrit Chapter 1 Tat Twam Asi 15

NCERT Solutions for Class 9th Sanskrit Chapter 1 Tat Twam Asi 16

NCERT Solutions for Class 9th Sanskrit Chapter 1 Tat Twam Asi 17

NCERT Solutions for Class 9th Sanskrit Chapter 1 Tat Twam Asi 18

NCERT Solutions for Class 9th Sanskrit Chapter 1 Tat Twam Asi 19

NCERT Solutions for Class 9th Sanskrit Chapter 1 Tat Twam Asi 20

NCERT Solutions for Class 9th Sanskrit Chapter 1 Tat Twam Asi 21

NCERT Solutions for Class 9th Sanskrit Chapter 1 Tat Twam Asi 22

NCERT Solutions for Class 9th Sanskrit Chapter 1 Tat Twam Asi 23

NCERT Solutions for Class 9th Sanskrit Chapter 1 Tat Twam Asi 24

NCERT Solutions for Class 9th Sanskrit Chapter 1 Tat Twam Asi 25

NCERT Solutions for Class 9th Sanskrit Chapter 1 Tat Twam Asi 26

NCERT Solutions for Class 9th Sanskrit Chapter 1 Tat Twam Asi 27

NCERT Solutions for Class 9th Sanskrit Chapter 1 Tat Twam Asi 28

NCERT Solutions for Class 9th Sanskrit Chapter 1 Tat Twam Asi 29

The post NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 1 भारतीवसन्तगीतिः appeared first on Learn CBSE.

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः

$
0
0

Students can easily access the NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः Questions and Answers which include important questions and deep explanations provided by our experts.

Shemushi Sanskrit Class 9 Solutions Chapter 2 स्वर्णकाकः

Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः Textbook Questions and Answers

अभ्यासस्य प्रश्नोत्तराणि (पृष्ठ 11-13)

प्रश्न: 1.
एकपदेन उत्तरं लिखत
(क) माता काम् आदिश?
(ख) स्वर्णकाकः कान् अखाद?
(ग) प्रासादः कीदृशः वर्तते?
(घ) गृहमागत्य तया का समुद्घाटिता?
(ङ) लोभाविष्टा बालिका कीदृशीं मञ्जूषां नयति?
उत्तर:
(क) पुत्रीम्
(ख) ताण्डुलान्
(ग) स्वर्णमयः
(घ) मञ्जूषा
(ङ) बृहत्तमाम्

More Resources for CBSE Class 9

(अ) अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत–
(क) निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्?
(ख) बालिकया पूर्वं कीदृशः काकः न दृष्टः आसीत्?
(ग) निर्धनायाः दुहिता मञ्जूषायां कानि अपश्यत्?
(घ) बालिका किं दृष्ट्वा आश्चर्यचकिता जाता?
(ङ) गर्विता बालिका कीदृशं सोपानम् अयाचत् कीदृशं च प्राप्नोत्।
उत्तर:
(क) निर्धनायाः वृद्धायाः दुहिता विनम्रा मनोहरा च आसीत्।
(ख) बालिकया पूर्वं स्वर्णपक्षः रजतचञ्चुः स्वर्णकाकः न दृष्टः आसीत्।
(ग) निर्धनायाः दुहिता मञ्जूषां महार्हाणि हीरकाणि अपश्यत्।
(घ) बालिका वृक्षस्योपरि स्वर्णमयम् प्रासादं दृष्ट्वा आश्चर्यचकिता जाता।
(ङ) गर्विता बालिका स्वर्णमयं सोपानम् अयाचत् परम् ताम्रमयं सोपानम् च प्राप्नोत्।

प्रश्न: 2.
(क) अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखत
(i) पश्चात् — …………..
(ii) हसितुम् — …………..
(iii) अधः — …………..
(iv) श्वेतः — …………..
(v) सूर्यास्तः — …………..
(vi) सुप्तः — …………..
उत्तर:
शब्दः — विलोमपदम्
(i) पश्चात् — पूर्वम्
(ii) हसितुम् — रोदितुम्
(iii) अधः — उपरि
(iv) श्वेतः — कृष्णः
(v) सूर्यास्तः — सूर्योदयः
(vi) सुप्तः — प्रबुद्धः

(ख) सन्धिं कुरुत
(i) नि + अवसत् — ………………….
(ii) सूर्य + उदयः — ………………….
(iii) वृक्षस्य + उपरि — ………………….
(iv) हि + अकारयत् — ………………….
(v) च + एकाकिनी — ………………….
(vi) इति + उक्त्वा — ………………….
(vii) प्रति + अवदत् — ………………….
(viii) प्र + उक्तम् — ………………….
(ix) अत्र + एव — ………………….
(x) तत्र + उपस्थिता — ………………….
(xi) यथा + इच्छम्– ………………….
उत्तर:
सन्धि-विच्छेद — सन्धियुक्ताः शब्दाः
(i) नि + अवसत् — न्यवसत्
(ii) सूर्य + उदयः — सूर्योदयः
(iii) वृक्षस्य + उपरि — वृक्षस्योपरि
(iv) हि + अकारयत — ह्यकारयत्
(v) च + एकाकिनी — चैकाकिनी
(vi) इति + उक्त्वा — इत्युक्त्वा
(vii) प्रति + अवदत् — प्रत्यवदत्
(viii) प्र + उक्तम् — प्रोक्तम्
(ix) अत्र + एव — अत्रैव
(x) तत्र + उपस्थिता — तत्रोपस्थिता
(xi) यथा + इच्छम् — यथेच्छम्

प्रश्न: 3.
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
(क) ग्रामे निर्धना स्त्री अवसत्।
(ख) स्वर्णकाकं निवारयन्ती बालिका प्रार्थयत्।
(ग) सूर्योदयात् पूर्वमेव बालिका तत्रोपस्थिता।
(घ) बालिका निर्धनमातुः दुहिता आसीत्।।
(ङ) लुब्धा वृद्धा स्वर्णकाकस्य रहस्यमभिज्ञातवती।
उत्तर:
(क) ग्रामे का अवसत्?
(ख) कम् निवारयन्ती बालिका प्रार्थयत्?
(ग) कस्मात् पूर्वमेव बालिका तत्रोपस्थिता?
(घ) बालिका कस्याः दुहिता आसीत्?
(ङ) लुब्धा वृद्धा कस्य रहस्यमभिज्ञातवती?

प्रश्न: 4.
प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत)
(क) वि + लोकृ + ल्यप्
(ख) नि + क्षिप् + ल्यप्
(ग) आ + गम् + ल्यप्
(घ) दृश् + क्त्वा
(ङ) शी + क्त्वा
(च) लघु + तमप्
उत्तर:
प्रकृति + प्रत्ययः — संयोग
(क) वि + लोक + ल्यप् — विलोक्य
(ख) नि + क्षिप् + ल्यप् — निक्षिप्य
(ग) आ + गम् + ल्यप् –आगत्य
(घ) दृश् + क्त्वा — दृष्ट्वा
(ङ) शी + क्त्वा — शयित्वा
(च) लघु + तमप् — लघुतमः

प्रश्नः 5.
प्रकृतिप्रत्यय-विभागं कुरुत
(क) रोदितुम् — …………
(ख) दृष्ट्वा — …………
(ग) विलोक्य — …………
(घ) निक्षिप्य — …………
(ङ) आगत्य — …………
(च) शयित्वा — …………
(छ) लघुतमम् — …………
उत्तर:
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः 2
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः 3

प्रश्न: 6.
अधोलिखितानि कथनानि कः/का, कं/कां च कथयति
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः 4
उत्तर:
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः 5

प्रश्न: 7.
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत
यथा-मूषकः बिलाद् बहिः निर्गच्छति। (बिल)
(क) जनः ………………….. बहिः आगच्छति। (ग्राम)
(ख) नद्यः ……………… निस्सरन्ति। (पर्वत)
(ग) …………………….. पत्राणि पतन्ति। (वृक्ष)
(घ) बालकः …….. …………. विभेति। (सिंह)
(ङ) ईश्वरः ………………. त्रायते। (क्लेश)
(च) प्रभुः भक्तं ……………….. निवारयति। (पाप)
उत्तर:
(क) जनः ग्रामात् बहिः आगच्छति।
(ख) नद्यः पर्वतेभ्यः निस्सरन्ति।
(ग) वृक्षात् पत्राणि पतन्ति।
(घ) बालकः सिंहात् बिभेति।
(ङ) ईश्वरः क्लेशात् त्रायते।
(च) प्रभुः भक्तं पापात् निवारयति।

Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः Additional Important Questions and Answers

पठित-अवबोधनम्
I. पठित-सामग्र्याम् आधारितम् अवबोधनकार्यम् |

अधोलिखितगद्यांशान् पठित्वा प्रश्नानाम् उत्तराणि लिखत

(क) नैतादृशः स्वर्णपक्षो रजतचञ्चुः स्वर्णकाकस्तया पूर्वं दृष्टः। तं तण्डुलान् खादन्तं हसन्तञ्च विलोक्य बालिका रोदितुमारब्धा। तं निवारयन्ती सा प्रार्थयत्-“तण्डुलान् मा भक्षय। मदीया माता अतीव निर्धना वर्तते।” स्वर्णपक्षः काकः प्रोवाच, “मा शुचः। सूर्योदयात्प्राग् ग्रामादबहिः पिप्पलवृक्षमनु त्वया आगन्तव्यम्। अहं तुभ्यं तण्डुलमूल्यं दास्यामि।” प्रहर्षिता बालिका निद्रामपि न लेभे।

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः 6

प्रश्नाः
I. एकपदेन उत्तरत
(i) कः तण्डुलमूल्यं दास्यति?
(ii) स्वर्णकाकः कया न पूर्वं दृष्टः?
उत्तर:
(i) स्वर्णकाकः
(ii) बालिकया

II. पूर्णवाक्येन उत्तरत
बालिका किमर्थं रोदितुम् आरब्धा?
उत्तर:
काकं तण्डुलान् खादन्तं हसन्तम् च विलोक्य बालिका रोदितुम् आरब्धा।

III. प्रदत्तविकल्पेभ्यः उचितं उत्तरं चित्वा लिखत
(i) ‘तं तण्डुलान् खादन्तं…।’ अत्र ‘तं’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) स्वर्णं
(ख) वृद्धायै
(ग) बालिकायै
(घ) काकाय
उत्तर:
(घ) काकाय

(ii) ‘प्रार्थयत्’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) सा
(ख) काकः
(ग) बालिका
(घ) तं
उत्तर:
(क) सा

(iii) ‘स्वर्णपक्षः’ इति विशेषणपदस्य विशेष्यपदं किम्?
(क) बालिका
(ख) वृद्धा
(ग) काकः
(घ) माता
उत्तर:
(ग) काकः

(iv) ‘हसितुम्’ इति पदस्य विलोमपदं किम्?
(क) रोदितुम्
(ख) रोदी
(ग) दृष्टः
(घ) हसन्तम्
उत्तर:
(क) रोदितुम्

(ख) चिरकालं भवने चित्रविचित्रवस्तूनि सज्जितानि दृष्ट्वा सा विस्मयं गता। श्रान्तां तां विलोक्य काकः अवदत्-“पूर्वं लघुप्रातराशः क्रियताम्-वद त्वं स्वर्णस्थाल्यां भोजनं करिष्यसि किं वा रजतस्थाल्याम् उत ताम्रस्थाल्याम्?” बालिका अवदत्-ताम्रस्थाल्याम् एव अहं- “निर्धना भोजनं करिष्यामि।” तदा सा आश्चर्यचकिता सञ्जाता यदा स्वर्णकाकेन स्वर्णस्थाल्यां भोजनं “परिवेषितम्।” न एतादृशम् स्वादु भोजनमद्यावधि बालिका खादितवती। काकोऽवदत्-बालिके! अहमिच्छामि यत् त्वम् सर्वदा अत्रैव तिष्ठ परं तव माता तु एकाकिनी वर्तते। अतः “त्वं शीघ्रमेव स्वगृहं गच्छ।”

प्रश्ना :
I. एकपदेन उत्तरत
(i) कस्याः माता एकाकिनी वर्तते?
(ii) का स्वादु भोजनम् खादितवती?
उत्तर:
(i) बालिकायाः
(ii) बालिका

II. पूर्णवावधेन उत्तरत
बालिका भवने किमर्थं विस्मयं गता?
उत्तर:
चिरकालं भवने चित्रविचित्रवस्तूनि सज्जितानि दृष्ट्वा बालिका विस्मयं गता।

III. निर्देशानुसारं शुद्धम् उत्तर:प्रदत्तविकल्पेभ्यः चित्वा लिखत
(i) ‘विलोक्य’ इति पदस्य कः अर्थः?
(क) अभ्रमत्
(ख) अकथयत्
(ग) दृष्ट्वा
(घ) गत्वा
उत्तर:
(ग) दृष्ट्वा

(ii) ‘करिष्यामि’ इति क्रियापदस्य कर्तृपदं किम्?
(क) अहम्
(ख) काकः
(ग) बालिका
(घ) निर्धना
उत्तर:
(क) अहम्

(iii) ‘त्वं शीघ्रमेव गृहं गच्छ।’ अत्र ‘त्वं’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
(क) काकाय
(ख) बालिकायै
(ग) वृद्धायै
(घ) बालिकाय
उत्तर:
(ख) बालिकायै

(iv) ‘धनिका’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) निर्धना
(ख) गता
(ग) श्रान्तां
(घ) सर्वदा
उत्तर:
(क) निर्धना

(ग) तस्मिन्नेव ग्रामे एका अपरा लुब्धा वृद्धा न्यवसत्। तस्या अपि एका पुत्री आसीत्। ईया सा तस्य स्वर्णकाकस्य रहस्यम् ज्ञातवती। सूर्यातपे तण्डुलान् निक्षिप्य तयापि स्वसुता रक्षार्थं नियुक्ता। तथैव स्वर्णपक्षः काकः तण्डुलान् भक्षयन् तामपि तत्रैवाकारयत्। प्रातस्तत्र गत्वा सा काकं निर्भर्त्सयन्ती प्रावोचत्-“भो नीचकाक! अहमागता, मह्यं तण्डुलमूल्यं प्रयच्छ।” काकोऽब्रवीत्-“अहं त्वत्कृते सोपानम् अवतारयामि। तत्कथय स्वर्णमयं रजतमयं ताम्रमयं वा।” गर्वितया बालिकया प्रोक्तम्-“स्वर्णमयेन सोपानेन अहम् आगच्छामि” परं स्वर्णकाकस्तत्कृते ताम्रमयं सोपानमेव प्रायच्छत्। स्वर्णकाकस्तां भोजनमपि ताम्रभाजने एव अकारयत्।

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः 7

प्रश्ना :
I. एकपदेन उत्तरत
(i) काकः गर्वितबालिकायै कीदृशम् सोपानम् प्रायच्छत्?
(ii) अपरा वृद्धा कीदृशी आसीत्?
उत्तर:
(i) ताम्रमयं
(ii) लुब्धा

II. पूर्णवाक्येन उत्तरत
बालिका काकं निर्भर्त्सयन्ती किम् प्रावोचत्?
उत्तर:
काकं निर्भर्त्सयन्ती बालिका प्रावोचत्-“भो नीचकाक! अहम् आगता। मह्यं तण्डुलमूल्यं प्रयच्छ।

III. निर्देशानुसारं उचितं उत्तर:विकल्पेभ्यः चित्वा लिखत
(i) ‘अकारयत्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) तां
(ख) स्वर्णकाकः
(ग) भोजनम्
(घ) ताम्रभाजने
उत्तर:
(ख) स्वर्णकाकः

(ii) ‘अहम् त्वत्कृते…।’ अस्मिन् वाक्ये ‘अहम्’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) काकम्
(ख) बालिकायै
(ग) वृद्धायै
(घ) स्वर्णकाकाय
उत्तर:
(घ) स्वर्णकाकाय

(iii) ‘बालिकया’ इति पदस्य विशेषणपदं किम्?
(क) गर्वितया
(ख) प्रोक्तम्
(ग) अपरा
(घ) स्वर्णमयेन
उत्तर:
(क) गर्वितया

(iv) ‘वायसः’ इति पदस्य पर्यायः कः?
(क) पुत्री
(ख) माता
(ग) वृद्धा
(घ) काकः
उत्तर:
(घ) काकः

II. अधोलिखितकथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं क्रियताम् उत्तराणि

(i) ग्रामे निर्धना वृद्धा न्यवसत्।
(ii) सूर्यातपे तण्डुलान् खगेभ्यो रक्षा
(ii) माता पुत्रीम् आदिदेश।
(iv) स्वर्णकाकः तया पूर्वं न दृष्टः।
(v) ग्रामात् बहिः पिप्पलवृक्षः आसीत्।
(vi) वृक्षस्य उपरि स्वर्णमयः प्रासादः वर्तते।
(vii) बालिकया लोभस्य फलं प्राप्तम्।
(viii) बालिका स्वर्णभवनं आरोहत।
(ix) काकेन तिस्रः मञ्जूषाः समुत्क्षिप्ताः।
(x) प्रहर्षिता बालिका निद्राम् अपि न लेभे।
प्रश्नाः
(i) ग्रामे कीदृशी वृद्धा न्यवसत्?
(ii) सूर्यातपे तण्डुलान् केभ्यः रक्ष?
(iii) माता काम् आदिदेश?
(iv) स्वर्णकाकः कया पूर्वं न दृष्टः?
(v) कस्मात् बहिः पिप्पलवृक्षः आसीत्?
(vi) कस्य उपरि स्वर्णमयः प्रासादः वर्तते?
(vii) कया लोभस्य फलं प्राप्तम्?
(viii) बालिका कुत्र आरोहत?
(ix) काकेन कति मञ्जूषाः समुत्क्षिप्ताः?
(x) प्रहर्षिता बालिका काम् अपि न लेभे?

III. कथाक्रमसंयोजनम् 

घटनाक्रमानुसार अधोलिखितानि वाक्यानि पुनः लेखनीयानि
(i) एकदा माता स्थाल्यां तण्डुलान् निक्षिप्य पुत्रीम् आदिदेश।
(ii) पुरा कस्मिंश्चिद् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत्।
(iii) तस्याः एका दुहिता विनम्रा मनोहरा चासीत्।
(iv) सूर्योदयात्प्राग् ग्रामाद् बहिः पिप्पलवृक्षमनु त्वया आगन्तव्यम्।
(v) नैतादृशः स्वर्णपक्षो रजतचञ्चुः स्वर्णकाकस्तया पूर्वं दृष्टः।
(vi) स्वर्णपक्षः काकः प्रोवाच, मा शुचः।
(vii) अहं तुभ्यं तण्डुलमूल्यं दास्यामि।
(viii) तं तण्डुलान् खादन्तं हसन्तञ्च विलोक्य बालिका रोदितुमारब्धा।
उत्तर:
(i) पुरा कस्मिंश्चिद् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत्।
(ii) तस्याः एका दुहिता विनम्रा मनोहरा चासीत्।
(iii) एकदा माता स्थाल्यां तुण्डलान् निक्षिप्य पुत्रीम् आदिदेश।
(iv) नैतादृशः स्वर्णपक्षो रजतचञ्चुः स्वर्णकाकस्तया पूर्व दृष्टः।
(v) तं तण्डुलान् खादन्तं हसन्तञ्च विलोक्य बालिका रोदितुमारब्धा।
(vi) स्वर्णपक्षः काकः प्रोवाच, मा शुचः।
(vii) सूर्योदयात्प्राग् ग्रामाद् बहिः पिप्पलवृक्षमनु त्वया आगन्तव्यम्।
(viii) अहं तुभ्यं तण्डुलमूल्यं दास्यामि।

IV. प्रसङ्गानुकूलम् उचितार्थम्

I. रेखांकितपदानाम् प्रसङ्गानुसार शुद्धं अर्थं चित्वा लिखत

(i) वृद्धायाः दुहिता विनम्रा आसीत्। ..
(क) पुत्री
(ख) पुत्र
(ग) दुग्धं
(घ) धेनुः
उत्तर:
(क) पुत्री

(ii) सूर्यातपे तण्डुलान् खगेभ्यः रक्षा
(क) चणकान्
(ख) ओदनं
(ग) अक्षतान्
(घ) शाकान्
उत्तर:
(ग) अक्षतान्

(iii) तत्र स्वर्णमयः प्रासादः आसीत्।
(क) भवनम्
(ख) मिष्ठान्नम्
(ग) प्रसाद
(घ) प्राप्तम्।
उत्तर:
(क) भवनम्

(iv) काकेन गवाक्षात् कथितम्।
(क) ग्रामात्
(ख) कक्षात्
(ग) वातायनात्
(घ) भवनात्
उत्तर:
(ग) वातायनात्

(v) बालिकां विलोक्य काकः प्राह
(क) उवाच
(ख) अहसत्
(ग) प्राप्नोत्
(घ) प्राप्तम्
उत्तर:
(क) उवाच

(vi) यथेच्छ एकाम् मञ्जूषां गृहाण
(क) गृहाणि
(ख) ग्रहणं कुरु
(ग) गुहां
(घ) गृहम्
उत्तर:
(ख) ग्रहणं कुरु

V. पर्यायपदानि/विलोमपदानि
प्रश्न 1.
अधोलिखितपदानां पर्यायपदानि लिखत
दुहिता, स्त्री, प्रासादः, खगः
उत्तर:
दुहिता — सुता, तनुजा, पुत्री।
स्त्री — महिला, ललना, नारी।
प्रासाद: — राजभवनः, महलः हर्म्यम्।
खगः — पक्षी, खेचरः, विहगः।

प्रश्न 2.
‘क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषां विलोमपदानि दत्तानि। तानि चित्वा पदानां समक्षं लिखत
‘क’ स्तम्भः — ‘ख’ स्तम्भः
(क) धनिका — अधः
(ख) पुरा — सुप्तः
(ग) प्रबुद्धः — निर्धना
(घ) उपरि — पश्चात्
(ङ) श्वेतः — कृष्णः
उत्तर:
‘क’ स्तम्भः — ‘ख’ स्तम्भः
(क) धनिका — निर्धना
(ख) पुरा — पश्चात्
(ग) प्रबुद्धः — सुप्तः
(घ) उपरि — अधः
(ङ) श्वेतः — कृष्णः

The post NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः appeared first on Learn CBSE.

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम्

$
0
0

Students can easily access the NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम् Questions and Answers which include important questions and deep explanations provided by our experts.

Shemushi Sanskrit Class 9 Solutions Chapter 3 गोदोहनम्

Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम् Textbook Questions and Answers

अभ्यासस्य प्रश्नोत्तराणि (पृष्ठ 23-24)

प्रश्न: 1.
एकपदेन उत्तरं लिखत
(क) मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म?
(ख) उमायाः पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म?
(ग) कुम्भकारः घटान् किमर्थं रचयति?
(घ) कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म?
(ङ) नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्?
उत्तर:
(क) काशीविश्वनाथमन्दिरं
(ख) त्रिंशत् सेटकपरिमितम्
(ग) जीविकाहेतोः
(घ) मोदकानि
(ङ) चन्दनः

More Resources for CBSE Class 9

प्रश्न: 2.
पूर्णवाक्येन उत्तरं लिखत
(क) मल्लिका चन्दनश्च मासपर्यन्तं धेनोः कथम् अकुरुताम्?
(ख) कालः कस्य रसं पिबति?
(ग) घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः किं वदति?
(घ) मल्लिकया किं दृष्टा धेनौः ताडनस्य वास्तविकं कारणं ज्ञातम्?
(ङ) मासपर्यन्तं धेनोः अदोहनस्य किं कारणमासीत?
उत्तर:
(क) मल्लिका चन्दनः च मासपर्यन्तं दुग्धदोहनं विहाय केवलं नन्दिन्याः सेवां एव अकुरुताम्।
(ख) क्षिप्रम् अक्रियमाणस्य आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः तत् रसं कालः पिबति।
(ग) घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुम् प्रयतते तदा कुम्भकारः वदति, “नाहं पापकर्म करोमि। त्वाम् आभूषणविहीनां कर्तुम् न इच्छामि, नयतु यथाभिलषितान् घटान्। दुग्धं विक्रीय एव घटमूल्यं ददातु।”
(घ) मासपर्यन्तं दोहनं न कृतम् अतएव दुग्धं शुष्कं जातम्। दुग्धहीना धेनुः पीडम् अनुभवति। एतत् दृष्ट्वा मल्लिकया धेनोः ताडनस्य वास्तविकं कारणं ज्ञातम्।
(ङ) चन्दनस्य बहुधनलोभः एव मासपर्यन्तं अदोहनस्य कारणम् आसीत्।

प्रश्न: 3.
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(क) मल्लिका सखीभिः सह धर्मयात्रायै गच्छति स्म।
(ख) चन्दनः दुग्धदोहनं कृत्वा एव स्वप्रातराशस्य प्रबन्धम् अकरोत्।
(ग) मोदकानि पूजानिमित्तानि रचितानि आसन्।
(घ) मल्लिका स्वपतिं चतुरतमं मन्यते।
(ङ) नन्दिनी पादाभ्यां ताडयित्वा चन्दनं रक्तरञ्जितं करोति।
उत्तर:
(क) मल्लिका काभिः सह धर्मयात्रायै गच्छति स्म?
(ख) चन्दनः दुग्धदोहनं कृत्वा एव कस्य प्रबन्धम् अकरोत्?
(ग) कानि पूजानिमितानि रचितानि आसन्?
(घ) मल्लिका स्वपतिं कीदृशं मन्यते?
(ङ) का पादाभ्याम् ताडयित्वा चन्दनं रक्तरञ्जितं करोति?

प्रश्न: 4.
मञ्जूषायाः सहायतया भावार्थे रिक्तस्थानानि पूरयत
गृहव्यवस्थायै, उत्पादयेत्, समर्थकः, धर्मयात्रायाः, मङ्गलकामनाम्, कल्याणकारिणः।
यदा चन्दनः स्वपत्न्या काशीविश्वनाथं प्रति …………….. विषये जानाति तदा सः क्रोधितः न भवति यत् तस्याः पत्नी तं …………….. कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः यात्रायाः कृते ……………. कुर्वन् कथयति यत् तव मार्गाः शिवाः अर्थात् …………… भवन्तु। मार्गे काचिदपि बाधाः तव कृते समस्यां न …….. एतेन सिध्यति यत् चन्दनः नारीस्वतन्त्रतायाः ……………. आसीत्।
उत्तर:
धर्मयात्रायाः
गृहव्यवस्थायै
मङ्गलकामनाम्
कल्याणकारिणः
उत्पादयेत्
समर्थकः

प्रश्नः 5.
घटनाक्रमानुसारं लिखत
(क) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति।
(ख) उभौ नन्दिन्याः सर्वविधपरिचर्यां कुरुतः।
(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।
(घ) मल्लिका पूजार्थं मोदकानि रचयति।
(ङ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।
(च) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।
(छ) चन्दनः उत्सवसमये अधिकं दुग्धं प्राप्तुं मासपर्यन्तं दोहनं न करोति।
(ज) चन्दनस्य पत्नी तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति।
उत्तर:
(क) मल्लिका पूजार्थं मोदकानि रचयति।
(ख) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति।
(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।
(घ) चन्दनः उत्सवसमये अधिकं दुग्धं प्राप्तुम् मासपर्यन्तं दोहनं न करोति।
(ङ) चन्दनस्य पत्नी तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति।
(च) उभौ नन्दिन्याः सर्वविधपरिचर्यां कुरुतः।
(छ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।
(ज) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।

प्रश्न: 6.
अधोलिखितानि वाक्यानि कः कं प्रति कथयति इति प्रदत्तस्थाने लिखत
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम् 1
उत्तर:
कः/का — कं/काम्
(क) उमा — चन्दनम्
(ख) चन्दनः — उमाम्
(ग) चन्दनः — देवेशम्
(घ) देवेशः — मल्लिकाम्
(ङ) चन्दनः — मल्लिकाम्

प्रश्नः 7.
पाठस्य आधारेण प्रदत्तपदानां सन्धिं/सन्धिच्छेदं वा कुरुत
(क) शिवास्ते = …………. + ………….
(ख) मनः हरः = …………. + ………….
(ग) सप्ताहान्ते = …………. + ………….
(घ) नेच्छामि = …………. + ………….
(ङ) अत्युत्तमः = …………. + ………….
उत्तर:
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम् 2

(अ) पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत
(क) करणीयम् = ……… + …..
(ख) वि+की+ल्यप = ………
(ग) पठितम् = ……… + …..
(घ) ताडय्+क्त्वा = ………
(ङ) दोग्धुम् = ……… + …..
उत्तर:
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम् 3

Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम् Additional Important Questions and Answers

पठित-अवबोधनम्
I. पठित-सामग्र्याम् आधारितम् अवबोधनकार्यम् 

अधोलिखितान् गद्यांशान् पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत
(क) (मल्लिका मोदकानि रचयन्ती मन्दस्वरेण शिवस्तुतिं करोति)
(ततः प्रविशति मोदकगन्धम् अनुभवन् प्रसन्नमना चन्दनः।)
चन्दनः – अहा! सुगन्धस्तु मनोहरः (विलोक्य) अये मोदकानि रच्यन्ते? (प्रसन्नः भूत्वा) आस्वादयामि तावत्। (मोदकं गृहीतुमिच्छति)
मल्लिका – (सक्रोधम्) विरम। विरम। मा स्पृश! एतानि मोदकानि।
चन्दनः – किमर्थं क्रुध्यसि! तव हस्तनिर्मितानि मोदकानि दृष्ट्वा अहं जिह्वालोलुपतां नियन्त्रयितुम् अक्षमः अस्मि, किं न जानासि त्वमिदम्?
मल्लिका – सम्यग् जानामि नाथ! परम् एतानि मोदकानि पूजानिमित्तानि सन्ति।
चन्दनः – तर्हि, शीघ्रमेव पूजनं सम्पादय। प्रसादं च देहि।
मल्लिका – भो! अत्र पूजनं न भविष्यति। अहं स्वसखिभिः सह श्वः प्रातः काशीविश्वनाथमन्दिरं प्रति गमिष्यामि, तत्र गङ्गास्नानं धर्मयात्राञ्च वयं करिष्यामः।
चन्दनः – सखिभिः सह! न मया सह! (विषादं नाटयति)।
मल्लिका – आम्! चम्पा, गौरी, माया, मोहिनी, कपिलाद्याः सर्वाः गच्छन्ति। अतः, मया सह तवागमनस्य औचित्यं नास्ति। वयं सप्ताहान्ते प्रत्यागमिष्यामः। तावत्, गृह व्यवस्था, धेनो: दुग्धदोहनव्यवस्थाञ्च परिपालय।

प्रश्नाः
I. एकपदेन उत्तरत
(i) धर्मयात्रायै का गमिष्यति?
(ii) सुगन्धः कीदृशः अस्ति?
उत्तर:
(i) मल्लिका
(ii) मनोहरः

II. पूर्णवाक्येन उत्तरत
(i) मल्लिका कथम् शिवस्तुतिं करोति?
(ii) मल्लिकया सह का-का गमिष्यन्ति?
उत्तर:
(i) मल्लिका मोदकानि रचयन्ती मन्दस्वरेण शिवस्तुतिं करोति।
(ii) मल्लिकया सह चम्पा, गौरी, माया, मोहनी, कपिलाद्याः सर्वाः गमिष्यन्ति।

III. निर्देशानुसारम् उचितम् उत्तरम् प्रदत्तविकल्पेभ्यः चित्वा लिखत
(i) ‘न मया सह’ अत्र वाक्यांशे ‘मया’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) चन्दनस्य
(ख) चन्दनाय
(ग) चन्दनः
(घ) चन्दनम्
उत्तर:
(ख) चन्दनाय

(ii) ‘मोदकानि’ इति पदस्य विशेषणपदं किम्?
(क) हस्तनिर्मितानि
(ख) परम्
(ग) इदम्
(घ) जिह्वा
उत्तर:
(क) हस्तनिर्मितानि

(iii) ‘प्रविशति’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) प्रसन्नमना
(ख) चन्दनः
(ग) मोदकगन्धम्
(घ) अनुभवन्
उत्तर:
(ख) चन्दनः

(iv) ‘असमर्थः’ इति पदस्य पर्यायपदम् किम्?
(क) अक्षमः
(ख) तर्हि
(ग) विषादम्
(घ) विरम उत्तराणि
उत्तर:
(क) अक्षमः

(ख) चन्दन: – अस्तु। गच्छ। सखिभिः सह धर्मयात्रया आनन्दिता च भव। अहं सर्वमपि परिपालयिष्यामि। शिवास्ते सन्तु पन्थानः।
चन्दनः – मल्लिका तु धर्मयात्रायै गता। अस्तु। दुग्धदोहनं कृत्वा ततः स्वप्रातराशस्य प्रबन्धं करिष्यामि। (स्त्रीवेषं धृत्वा, दुग्धपात्रहस्तः नन्दिन्याः समीपं गच्छति)
उमा – मातुलानि! मातुलानि!
चन्दनः – उमे! अहं तु मातुलः। तव मातुलानि तु गङ्गास्नानार्थं काशीं गता अस्ति। कथय! किं ते प्रियं करवाणि?
उमा – मातुल! पितामहः कथयति, मासानन्तरम् अस्मत् गृहे महोत्सवः भविष्यति। तत्र त्रिशत-सेटकमितं
दुग्धम् अपेक्षते। एषा व्यवस्था भवद्भिः करणीया।
चन्दनः – (प्रसन्नमनसा) त्रिशत-सेटककपरिमितं दुग्धम्! शोभनम्। दुग्धव्यवस्था भविष्यति एव इति पितामहं प्रति त्वया वक्तव्यम्।
उमा – धन्यवादः मातुल! याम्यधुना। (सा निर्गता)
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम् 4

प्रश्नाः
I. एकपदेन उत्तरत
(i) कस्याः पन्थानः शिवाः सन्तु?
(ii) कस्याः मातुलानि गङ्गास्नानार्थं काशीं गता?
उत्तर:
(i) मल्लिकायाः
(ii) उमायाः

II. पूर्णवाक्येन उत्तरत
(i) दुग्धदोहनं कृत्वा चन्दनः किम् करिष्यति?
(ii) महोत्सवः कदा कुत्र च भविष्यति?
उत्तर:
(i) दुग्धदोहनं कृत्वा चन्दनः स्वप्रातराशस्य प्रबन्धं करिष्यति।
(ii) पितामहस्य गृहे मासान्तरम् महोत्सवः भविष्यति।

III. निर्देशानुसारम् उचितम् उत्तरम् प्रदत्तविकल्पेभ्यः चित्वा लिखत
(i) ‘गच्छामि’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) अधुना
(ख) यामि
(ग) निर्गता
(घ) अपेक्षते।
उत्तर:
(ख) यामि

(ii) ‘परिपालयिष्यामि’ इति क्रियापदस्य कर्तृपदं किम्?
(क) अहम्
(ख) चन्दनः
(ग) सर्वम्
(घ) सर्वमपि
उत्तर:
(क) अहम्

(iii) ‘किं ते प्रियं करवाणि’ अत्र ‘ते’ सर्वनाम पदं कस्यै प्रयुक्तम्?
(क) उमा
(ख) मल्लिका
(ग) उमायै
(घ) चन्दनाय
उत्तर:
(ग) उमायै

(iv) ‘आगता’ इति पदस्य विपरीतार्थकम् पदम् किम्?
(क) गता
(ख) अस्ति
(ग) सन्तु
(घ) भव
उत्तर:
(क) गता

(ग) कुम्भकारः- (घटरचनायां लीनः गायति)
ज्ञात्वाऽपि जीविकाहेतोः रचयामि घटानहम्।
जीवनं भङ्गरं सर्वं यथैष मृत्तिकाघटः।
चन्दनः – नमस्करोमि तात! पञ्चदश घटान् इच्छामि। किं दास्यसि?
देवेश – कथं न? विक्रयणाय एव एते। गृहाण घटान्। पञ्चशतोत्तर-रूप्यकाणि च देहि।
चन्दनः – साधु! परं मूल्यं तु दुग्धं विक्रीय एव दातुं शक्यते।
देवेशः – क्षम्यतां पुत्र! मूल्यं विना तु एकमपि घटं न दास्यामि।
मल्लिका – (स्वाभूषणं दातुमिच्छति) तात! यदि अधुनैव मूल्यम् आवश्यकं तर्हि, गृहाण एतत् आभूषणम्।
देवेशः – पुत्रिके! नाहं पापकर्म करोमि। कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्। नयतु यथाभिलषितान् घटान्। दुग्धं विक्रीय एव घटमूल्यम् ददातु।
उभौ – धन्योऽसि तात! धन्योऽसि।

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम् 5

प्रश्नाः
I. एकपदेन उत्तरत
(i) कुम्भकारः किमर्थं घटान् रचयति?
(ii) जीवन कीदृशं भवति?
उत्तर:
(i) जीविकाहेतोः
(ii) भगुरं

II. पूर्णवाक्येन उत्तरत
(i) किम् ज्ञात्वा कुम्भकारः घटान् रचयति?
(ii) घटमूल्यार्थं मल्लिका कस्मै किम् दातुम् इच्छति।
उत्तर:
(i) यथा मृत्तिकाघटः तथा एव सर्वं जीवनं भगुरम् अस्ति एतत् ज्ञात्वा अपि कुम्भकारः जीविकाहेतोः घटान् रचयति।
(ii) घटमूल्यार्थम् मल्लिका कुम्भकाराय स्वाभूषणं दातुम् इच्छति।

III. निर्देशानुसारम् उचितम् उत्तरम् प्रदत्तविकल्पेभ्यः चित्वा लिखत
(i) ‘नाहं पापकर्म करोमि” अत्र ‘करोमि’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) नाहं
(ख) पाप
(ग) कर्म
(घ) अहम्
उत्तर:
(घ) अहम्

(ii) ‘त्वाम्’ इति सर्वनामपदम् कस्यै प्रयुक्तम्?
(क) मल्लिकायै
(ख) मल्लिका
(ग) उमायै
(घ) चन्दनाय
उत्तर:
(क) मल्लिकायै

(iii) ‘ग्रहीतुम्’ इति पदस्य विपरीतार्थकम् पदं किम्? ।
(क) क्षम्यतां
(ख) दातुम्
(ग) दास्यसि
(घ) हेतोः
उत्तर:
(ख) दातुम्

(iv) ‘चेत्’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) यदि
(ख) तर्हि
(ग) परं
(घ) विना
उत्तर:
(क) यदि

(घ) (मासानन्तरं सन्ध्याकालः। एकत्र रिक्ताः नूतनघटाः सन्ति। दुग्धक्रेतारः अन्ये च ग्रामवासिनः अपरत्र आसीनाः)
चन्दनः – (धेनुं प्रणम्य, मङ्गलाचरणं विधाय, मल्लिकाम् आह्वयति) मल्लिके! सत्वरम् आगच्छ।
मल्लिका – आयामि नाथ! दोहनम् आरभस्व तावत्।
चन्दनः – (यदा धेनोः समीपं गत्वा दोग्धुम् इच्छति, तदा धेनुः पृष्ठपादेन प्रहरति। चन्दनश्च पात्रेण सह पतति) नन्दिनि! दुग्धं देहि। किं जातं ते? (पुनः प्रयासं करोति)(नन्दिनी चं पुनः पुनः पादप्रहारेण ताडयित्वा चन्दनं रक्तरञ्जितं करोति) हा! हतोऽस्मि। (चीत्कारं कुर्वन् पतति) (सर्वे आश्चर्येण चन्दनम् अन्योन्यं च पश्यन्ति)
मल्लिका – (चीत्कारं श्रुत्वा, झटिति प्रविश्य) नाथ! किं जातम्? कथं त्वं रक्तरञ्जितः?
चन्दनः – धेनुः दोग्धुम् अनुमतिम् एव न ददाति। दोहनप्रक्रियाम् आरभमाणम् एव ताडयति माम्।
(मल्लिका धेनुं स्नेहेन वात्सल्येन च आकार्य दोग्धुं प्रयतते। किन्तु, धेनुः दुग्धहीना एव इति अवगच्छति।)

प्रश्नाः
I. एकपदेन उत्तरत
(i) धेनोः नाम किम् अस्ति?
(ii) पात्रेण सह कः पतति?
उत्तर:
(i) नन्दिनी
(ii) चन्दनः

II. पूर्णवाक्येन उत्तरत
(i) मल्लिका कथम् दोग्धुम् प्रयतते?
(ii) चन्दनः किम् कृत्वा मल्लिकाम् आह्वयति?
उत्तर:
(i) मल्लिका धेनुं स्नेहेन वात्सल्येन च आकार्य दोग्धुं प्रयतते।
(ii) धेनुम् प्रणम्य मङ्गलाचरणं च विधाय चन्दनः मल्लिकाम् आह्वयति।

III. निर्देशानुसारम् उचितम् उत्तरम् प्रदत्तविकल्पेभ्यः चित्वा लिखत
(i) ‘ग्रामवासिनः’ इति पदस्य विशेषणपदं किम्?
(क) अन्ये
(ख) दुग्धक्रेतारः
(ग) अपरत्र
(घ) आसीनाः
उत्तर:
(क) अन्ये

(ii) ‘पश्यन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) चन्दनम्
(ख) अन्योन्यं
(ग) सर्वे
(घ) आश्चर्येण
उत्तर:
(ग) सर्वे

(iii) ‘शीघ्रम्’ इति पदस्य समानार्थकम् पदं किम्?
(क) झटिति
(ख) चीत्कारं
(ग) कुर्वन्
(घ) पुनः पुनः
उत्तर:
(क) झटिति

(iv) ‘त्वं रक्तरञ्जितः’ अत्र ‘त्वं’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) चन्दनः
(ख) चन्दनाय
(ग) मल्लिकायै
(घ) उमायै
उत्तर:
(ख) चन्दनाय

II. प्रश्ननिर्माणम्

अधोलिखितकथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत उत्तराणि
(i) प्रसन्नः सः धेनोः बहुसेवां करोति।
(ii) द्वावेव धेनोः सेवायां निरतौ भवतः।
(iii) ग्रामप्रमुखस्य गृहे महोत्सवः भविष्यति।
(iv) मल्लिका तु धर्मयात्रायै गता।
(v) तव मातुलानि तु काशीं गता।
प्रश्ना :
(i) प्रसन्नः सः कस्याः बहुसेवां करोति?
(ii) द्वावेव धेनोः कस्याम् निरतौ भवतः?
(iii) कस्य गृहे महोत्सवः भविष्यति?
(iv) का तु धर्मयात्रायै गता?
(v) तव मातुलानि तु कुत्र गता?

III. ‘क’ अन्वयः

निम्नलिखितश्लोकानाम् अन्वयेषु समुचितपदैः रिक्तपूर्तिः कुरुत

1. कार्यमद्यतनीयं यत् तदद्यैव विधीयताम्।
विपरीते गतिर्यस्य स कष्टं लभते ध्रुवम्।।

अन्वयः- यत् अद्यतनीयं
(i)……………… तत् अद्यैव (ii)………….. यस्य गतिः (iii) ………….. ध्रुवं (iv) …………..लभते।
उत्तर:
यत् अद्यतनीयं
(i) कार्यं तत् अद्यैव
(ii) विधीयताम्। यस्य गतिः
(iii) विपरीते (अस्ति) सः ध्रुवं

2. सुविचार्य विधातव्यं कार्यं कल्याणकाक्षिणा।
यः करोत्यविचार्यैतत् स विषीदति मानवः।।

अन्वयः- (i)……………… कार्यं (ii)……………… विधातव्यम्। यः (iii)………….. एतत् (iv) …. करोति सः विषीदति।
उत्तर:
(i) कल्याणकाक्षिणा कार्य
(ii) सुविचार्य (एव) विधातव्यम्। यः
(iii) मानवः एतत्
(iv) अविचार्य करोति सः विषीदति।

3. आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम्।।

अन्वयः- क्षिप्रम् (i)……………… आदानस्य (ii) कर्तव्यस्य च ……………… (ii) तद्रसं ……………… (iv)………………. पिबति।
उत्तर:
क्षिप्रम् (i) अक्रियमाणस्य आदानस्य
(ii) प्रदानस्य कर्तव्यस्य च
(iii) कर्मणः तद्रसं
(iv) काल: पिबति।

III. ‘ख’ भावार्थः

अधोलिखितश्लोकानाम् भावार्थान् मञ्जूषातः उचितपदानि चित्वा पूरयत
(i) आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम्॥
भावार्थ:-श्लोकस्य भावः अस्ति यत् कोऽपि कार्यम् (i)………….. समये (ii) ………………भवति, तदा (iii) ….. कार्यस्य (iv)……. नश्यति।
मञ्जूषा – आनन्दं, न, उचिते, तस्य
उत्तर:
श्लोकस्यं भावः अस्ति यत् कोऽपि कार्यम् उचिते समये न भवति, तदा तस्य कार्यस्य आनन्दं नश्यति।

(ii) ज्ञात्वाऽपि जीविकाहेतोः रचयामि घटानहम्।
जीवनं भगुरं सर्वं यथैष मृत्तिकाघटः॥
भावार्थ:-कुम्भकारः संसारस्य (i)……………….. जानाति यथा (ii)……………….. घटः नश्यति तथैव मानवस्य जीवनम् अपि (iii)……….अस्ति। अतः सः तु केवलम्
(iv)……….एव घटान् रचयति।
मञ्जूषा- जीविकाहेतोः, नश्वरता, मृत्तिकायाः, क्षणभङ्गुरम्
उत्तर:
कुम्भकारः संसारस्य नश्वरता जानाति यथा मृत्तिकायाः घटः नश्यति तथैव मानवस्य जीवनम् अपि क्षणभङ्गुरम् अस्ति। अतः सः तु केवलम् जीविकाहेतोः एव घटान् रचयति।

(iii) सुविचार्य विधातव्यं कार्यं कल्याणकाक्षिणा।
यः करोत्यविचार्यैतत् स विषीदति मानवः॥
भावार्थ:-अस्य श्लोकस्य भावः अस्ति यत् स्वकल्याणं (i)…. मानवः स्वकार्याणि (ii) …………… विचार्य एव कुर्यात्। । यः मानवः अविवेकेन (iii)……………… कार्यं करोति सः जीवने केवलं (iv)……………….. एव आप्नोति।
मञ्जूषा- दुःखम्, इच्छन्, सम्यक्रूपेण, अविचार्य
उत्तर:
अस्य श्लोकस्य भावः अस्ति यत् स्वकल्याणं इच्छन् मानवः स्वकार्याणि सम्यक्पे ण विचार्य एव कुर्यात्। । यः मानवः अविवेकेन अविचार्य कार्यं करोति सः जीवने केवलं

IV. कथाक्रमसंयोजनम्

घटनाक्रमानुसारं अधोलिखितानि वाक्यानि पुनः लेखनीयानि

(i) नन्दिनी च पुनः पुनः पादप्रहारेण ताडयित्वा चन्दनं रक्तरञ्जितं करोति।
(ii) मल्लिका धेनुं स्नेहेन वात्सल्येन च आकार्य दोग्धुं प्रयतते।
(iii) यदि अधुनैव मूल्यं आवश्यकं तर्हि गृहाण एतत् आभूषणम्।
(iv) अधुना दुग्धदोहनं विहांय केवलं नन्दिन्याः सेवाम् एव करिष्यावः।
(v) दुग्धव्यवस्था भविष्यति एव इति पितामह प्रति त्वया वक्तव्यम्।
(vi) तव हस्तनिर्मितानि मोदकानि दृष्ट्वा अहं जिह्वालोलुपतां नियन्त्रयितुम् अक्षमः अस्मि।
(vii) अहम् स्वसखिभिः सह श्वः प्रातः काशीविश्वनाथमन्दिरं प्रति गमिष्यामि।
(viii) अस्माभिः सर्वथा अनुचितमेव कृतं यत्, पूर्णमासपर्यन्तं दोहनम् न कृतम्।
उत्तरम्
(i) तव हस्तनिर्मितानि मोदकानि दृष्ट्वा अहं जिह्वालोलुपता नियन्त्रयितुम् अक्षमः अस्मि।
(ii) अहम् स्वसखिभिः सह श्वः प्रातः काशीविश्वनाथमन्दिरं प्रति गमिष्यामि।
(iii) दुग्धव्यवस्था भविष्यति एव इति पितामह प्रति त्वया वक्तव्यम्।
(iv) अधुना दुग्धदोहनं विहाय केवलं नन्दिन्याः सेवाम् एव करिष्यावः।
(v) यदि अधुनैव मूल्यं आवश्यकं तर्हि गृहाण एतत् आभूषणम्।
(vi) नन्दिनी च पुनः पुनः पादप्रहारेण ताडयित्वा चन्दनं रक्तरञ्जितं करोति।
(vii) मल्लिका धेनुं स्नेहेन वात्सल्येन च आकार्य दोग्धुं प्रयतते।
(viii) अस्माभिः सर्वथा अनुचितमेव कृतं यत्, पूर्णमासपर्यत्तं दोहनं त कृतम्।

V. प्रसङ्गानुकूलम् उचितार्थम् 

I. रेखाङ्कितपदानाम् प्रसङ्गानुसारं शुद्धम् अर्थं चित्वा लिखत
(i) अहम् जिह्वालोलुपतां नियन्त्रयितुम् अक्षमः अस्मि।
(क) असमर्थः
(ख) आगतः
(ग) आश्चर्यः
(घ) अनवरत
उत्तर:
(क) असमर्थः

(ii) उत्सवदिने एव समग्रं दुग्धं धोक्ष्यावः।
(क) सहायः
(ख) सम्पूर्णम्
(ग) सम्पूर्णः
(घ) सहायकः
उत्तर:
(ख) सम्पूर्णम्

(iii) मङ्गलाचरणं विधाय चन्दनः मल्लिकाम् आह्वयति।
(क) विधि
(ख) विधाता
(ग) कृत्वा
(घ) कर्तव्यः
उत्तर:
(ग) कृत्वा

(iv) सः ध्रुवं कष्टं लभते।
(क) निश्चितम्
(ख) निश्चयम्
(ग) अनिश्चयम्
(घ) नक्षत्रम्
उत्तर:
(क) निश्चितम्

VI. पर्यायपदानि/विलोमपदानि

प्रश्न: 1.
‘क’ स्तम्भे लिखितानां पर्यायपदानि ‘ख’ स्तम्भे लिखितानि सन्ति। तानि यथासमक्ष लिखत
‘क’ स्तम्भ — ‘ख’ स्तम्भ
(i) निरतौ — द्रुतम्
(ii) रिक्ताः — संलग्नौ
(iii) अनुमतिम् — शून्याः
(iv) क्षिप्रम् — आज्ञा
उत्तर:
‘क’ स्तम्भः — ‘ख’ स्तम्भः
(i) निरतौ — द्रुतम्
(ii) रिक्ताः — संलग्नौ
(iii) अनुमतिम् — शून्याः
(iv) क्षिप्रम् — आज्ञा

प्रश्न: 2.
अधोलिखितपदानां मञ्जूषात: चित्वा विलोमपदानि लिखत
मञ्जूषा –सरसम्, गता, आगच्छामि, प्रसीदति

पदानि — विलोमपदानि
(i) आगता — …………..
(ii) शुष्कम् — …………..
(iii) यामि — …………..
(iv) विषीदति — …………..
उत्तरम्
पदानि — विलोमपदानि
(i) आगता — गता
(ii) शुष्कम् — सरसम्
(iii) यामि — आगच्छामि
(iv) विषीदति — प्रसीदति

The post NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम् appeared first on Learn CBSE.

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 4 कल्पतरूः

$
0
0

Students can easily access the NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 4 कल्पतरूः Questions and Answers which include important questions and deep explanations provided by our experts.

Shemushi Sanskrit Class 9 Solutions Chapter 4 कल्पतरूः

Class 9 Sanskrit Shemushi Chapter 4 कल्पतरूः Textbook Questions and Answers

अभ्यासस्य प्रश्नोत्तराणि | (पृष्ठ 28-30)

प्रश्न: 1.
एकपदेन उत्तरं लिखत
(क) जीमूतवाहनः कस्य पुत्रः अस्ति?
(ख) संसारेऽस्मिन् कः अनश्वरः भवति?
(ग) जीमूतवाहनः परोपकारैकफलसिद्धये कम् आराधयति?
(घ) जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्?
(ङ) कल्पतरुः भुवि कानि अवर्षत्?
उत्तर:
(क) जीमूतकेतोः
(ख) परोपकारः
(ग) कल्पपादम्
(घ) यशः
(ङ) वसूनि

More Resources for CBSE Class 9

प्रश्न: 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) कञ्चनपुरं नाम नगरं कुत्र विभाति स्म?
(ख) जीमूतवाहनः कीदृशः आसीत्?
(ग) कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः किम् अचिन्तयत्?
(घ) हितैषिणः मन्त्रिणः जीमूतवाहनं किम् उक्तवन्तः?
(ङ) जीमूतवाहनः कल्पतरुम् उपगम्य किम् उवाच?
उत्तर:
(क) कञ्चनपुरं नाम नगरं हिमालयस्य शिखरस्य उपरि विभाति स्म।
(ख) जीमूतवाहनः महान् दानवीरः सर्वभूतानुकम्पी च अभवत्।
(ग) कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः अचिन्तयत्, “ईदृशम् अमरपादपं प्राप्यापि अस्माकं पूर्वैः
पुरुषैः तादृशं फलं किमपि न आसादितं किन्तु केवलं कैश्चिदेव कृपणैः कश्चिदपि अर्थः अर्थितः।”
(घ) हितैषिणः मन्त्रिणः जीमूतवाहनम् उक्तवन्तः-“युवराज! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति सः तव सदा पूज्यः अस्मिन् अनुकूले स्थिते सति शक्रोऽपि अस्मान् बाधितुं न शक्नुयात्” इति।
(ङ) जीमूतवाहनः कल्पतरुम् उपगम्य उवाच-“देव! त्वया अस्मत्पूर्वेषाम् अभीष्टाः कामाः पूरिताः, तन्ममेक काम पूरय। यथा पृथिवीम् अदरिद्राम् पश्यामि तथा करोतु देव” इति।

प्रश्न: 3.
अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?
(क) तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम्।
(ख) राजा सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्?
(ग) अयं तव सदा पूज्यः
(घ) तात! त्वं तु जानासि यत् धनं वीचिवच्चञ्चलम्।
उत्तर:
(क) तस्य — हिमालयपर्वताय (हिमवते)
(ख) तं — जीमूतवाहनाय
(ग) अयं — कल्पतरवे
(घ) त्वं — जीमूतकेतवे/पित्रे

प्रश्न: 4.
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत
(क) पर्वतः — …………..
(ख) भूपतिः — …………..
(ग) इन्द्रः — …………..
(घ) धनम् — …………..
(ङ) इच्छितम् — …………..
(च) समीपम् — …………..
(छ) धरित्रीम् — …………..
(ज) कल्याणम् — …………..
(झ) वाणी — …………..
(ञ) वृक्षः — …………..
उत्तर:
(क) पर्वतः — नग:
(ख) भूपतिः — राजा
(ग) इन्द्रः — शक्रः
(घ) धनम् — वसूनि
(ङ) इच्छितम् — अभीष्टम्
(च) समीपम् — अन्तिकम्
(छ) धरित्रीम् — पृथ्वीम्
(ज) कल्याणम् — हितम्
(झ) वाणी — वाक्
(ञ) वृक्षः — तरुः

प्रश्नः 5.
‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि। तानि समुचितं योजयत
‘क’ स्तम्भ — ‘ख’ स्तम्भ
कुलक्रमागतः — परोपकारः
दानवीरः — मन्त्रिभिः
हितैषिभिः — जीमूतवाहनः
वीचिवच्चञ्चलम् — कल्पतरुः
अनश्वरः — धनम्
उत्तर:
‘क’ स्तम्भ — ‘ख’ स्तम्भ
कुलक्रमागतः — कल्पतरुः
दानवीरः — जीमूतवाहनः
हितैषिभिः — मन्त्रिभिः
वीचिवच्चञ्चलम् — धनम्
अनश्वरः — परोपकारः

प्रश्न: 6.
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
(क) तरोः कृपया सः पुत्रम् अप्राप्नोत्।
(ख) सः कल्पतरवे न्यवेदयत्।
(ग) धनवृष्ट्या कोऽपि दरिद्रः नातिष्ठत्।
(घ) कल्पतरुः पृथिव्यां धनानि अवर्षत्।
(ङ) जीवानुकम्पया जीमूतवाहनस्य यशः प्रासरत्।
उत्तर:
(क) कस्य कृपया सः पुत्रम् अप्राप्नोत्?
(ख) सः कस्मै न्यवेदयत्?
(गं) कया कोऽपि दरिद्रः नातिष्ठत्?
(घ) कल्पतरुः कुत्र धनानि अवर्ष?
(ङ) कया जीमूतवाहनस्य यशः प्रासरत्?

प्रश्नः 7.
(क) “स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता! एवमेव (कोष्टकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत
(क) स्वस्ति ………… (राजा)
(ख) स्वस्ति ………… (प्रजा)
(ग) स्वस्ति ………… (छात्र)
(घ) स्वस्ति … (सर्वजन)
उत्तर:
(क) स्वस्ति राजभ्यः।
(ख) स्वस्ति प्रजाभ्यः।
(ग) स्वस्ति छात्रेभ्यः।
(घ) स्वस्ति सर्वजनेभ्यः।

(ख) कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत
(क) तस्य …………….. उद्याने कल्पतरुः आसीत्। (गृह)
(ख) सः …………….. अन्तिकम् अगच्छत्। (पितृ)
(ग) …………….. सर्वत्र यशः प्रथितम् (जीमूतवाहन)
(घ) अयं ………………. तरुः? (किम्)
उत्तर:
(क) तस्य गृहस्य उद्याने कल्पतरुः आसीत्।
(ख) सः पितुः अन्तिकम् अगच्छत्।
(ग) जीमूतवाहनस्य सर्वत्र यशः प्रथितम्।
(घ) अयं कस्य तरुः?

Class 9 Sanskrit Shemushi Chapter 4 कल्पतरूः Additional Important Questions and Answers

पठित-अवबोधनम्
I. पठित-सामग्र्याम् आधारितम् अवबोधनकार्यम्

अधोलिखितान् गद्यांशान् पठित्वा प्रश्नानाम् उत्तराणि लिखत

(क) अस्ति हिमवान् नाम सर्वरत्नभूमिः नगेन्द्रः। तस्य सानोः उपरि विभाति कञ्चनपुरं नाम नगरम्। तत्र जीमूतकेतुः इति श्रीमान् विद्याधरपतिः वसति स्म। तस्य गृहोद्याने कुलक्रमागतः कल्पतरुः स्थितः। स राजा जीमूतकेतुः तं कल्पतरुम् आराध्य तत्प्रसादात् च बोधिसत्वांशसम्भवं जीमूतवाहनं नाम पुत्रं प्राप्नोत्। सः जीमूतवाहनः महान् दानवीरः सर्वभूतानुकम्पी च अभवत्।

प्रश्ना :
I. एकपदेन उत्तरत
(i) जीमूतकेतुः कुत्र वसति स्म?
(ii) जीमूतकेतोः पुत्रः कः आसीत्?
उत्तर:
(i) कञ्चनपुरे
(ii) जीमूतवाहनः

II. पूर्णवाक्येन उत्तरत
जीमूतवाहनः कीदृशः आसीत्?
उत्तर:
जीमूतवाहनः महान् दानवीरः सर्वभूतानुकम्पी च आसीत्।

III. यथानिर्देशम् शुद्धम् उत्तरम् विकल्पेभ्यो चित्वा लिखत
(i) ‘प्राप्नोत्’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) सः राजा
(ख) कल्पतरुम्
(ग) पुत्रं
(घ) तम्
उत्तर:
(क) सः राजा

(ii) ‘कल्पतरुः’ इति पदस्य विशेषणपदम् किम्?
(क) स्थितः
(ख) गृह
(ग) उद्याने
(घ) कुलक्रमागतः
उत्तर:
(घ) कुलक्रमागतः

(iii) ‘शिखरस्य’ इत्यर्थे किं पदं प्रयुक्तम्?
(क) सानोः
(ख) सानोरूपरि
(ग) हिमवान्
(घ) नगेन्द्रः
उत्तर:
(क) सानोः

(iv) ‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) नगेन्द्राय
(ख) जीमूतवाहनाय
(ग) जीमूतकेतवे
(घ) जीमूतकेतुः
उत्तर:
(ग) जीमूतकेतवे

(ख) तस्य गुणैः प्रसन्नः स्वसचिवैश्च प्रेरितः राजा कालेन सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्। कदाचित् हितैषिणः पितृमन्त्रिणः यौवराज्ये स्थितं तं जीमूतवाहनं उक्तवन्तः – “युवराज! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति स तव सदा पूज्यः। अस्मिन् अनुकूले स्थिते सति शक्रोऽपि अस्मान् बाधितुं न शक्नुयात्” इति।

प्रश्ना :
I. एकपदेन उत्तरत
(i) राजा कम् यौवराज्ये अभिषिक्तवान्?
(ii) कः सदैव पूज्यः?
उत्तर:
(i) जीमूतवाहनम्
(ii) कल्पतरुः

II. पूर्णवाक्येन उत्तरत
हितैषिणः मन्त्रिणः जीमूतवाहनं किम् उक्तवान्?
उत्तर:
हितैषिणः मन्त्रिणः जीमूतवाहनं उक्तवान्-“योऽयं सर्वकामदः कल्पतरु तवोधाने तिष्ठति सः तव सदा पूज्यः। अस्मिन् अनुकूले स्थिते शक्रः अपि नास्मान् बाधितुम् शक्नुयात्।”

III. निर्देशानुसारं उत्तरत
(i) ‘तस्य गुणैः ……!” अत्र ‘तस्य’ सर्वनामपदम् कस्मै प्रयुक्तम्।
(क) जीमूतवाहनाय
(ख) जीमूतवाहनस्य
(ग) जीमूतवाहनः
(घ) जीमूतवाहनम्
उत्तर:
(क) जीमूतवाहनाय

(ii) ‘कल्पतरुः’ इति पदस्य विशेषणपदं किम्?
(क) तव
(ख) उद्याने
(ग) सर्वकामदः
(घ) तिष्ठति
उत्तर:
(ग) सर्वकामदः

(iii) ‘शक्नुयात्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) अस्मिन्
(ख) अनुकूले
(ग) शक्रः
(घ) अस्मान्
उत्तर:
(ग) शक्रः

(iv) ‘इन्द्रः’ इति पदस्य पर्यायपदं किम्?
(क) शक्रः
(ख) शक्रोऽपि
(ग) पूज्यः
(घ) कामदः उत्तराणि
उत्तर:
(क) शक्रः

(ग) एतत् आकर्ण्य जीमूतवाहनः अचिन्तयत्-“अहो ईदृशम् अमरपादपं प्राप्यापि पूर्वैः पुरुषैः अस्माकं तादृशं फलं किमपि न प्राप्तम्। किन्तु केवलं कैश्चिदेव कृपणैः कश्चिदपि अर्थः अर्थितः। तदहम् अस्मात् कल्पतरोः अभीष्टं साधयामि” इति। एवम् आलोच्य सः पितुः अन्तिकम् आगच्छत्। आगत्य च सुखमासीनं पितरम् एकान्ते न्यवेदयत् कल्पतरु

प्रश्ना :
I. एकपदेन उत्तरत
(i) पितुः समीपम् कः अगच्छत्?
(ii) कः अचिन्तयत्?
उत्तर:
(i) जीमूतवाहनः
(ii) जीमूतवाहनः

II. पूर्णवाक्येन उत्तरत
अमरपादपं प्राप्यापि पूर्वैः पुरुषैः किम् कृतम्?
उत्तर:
अमरपादपं प्राप्यापि पूर्वैः पुरुषैः तादृशं फलं किमपि न प्राप्तम् किन्तु केवलं कैश्चिदेव कृपणैः कश्चिदपि अर्थः अर्थितः।

III. यथानिर्देशम् शुद्धम् उत्तरम् विकल्पेभ्यः चित्वा लिखत
(i) ‘पितरम्’ इति पदस्य विशेषणपदम् किम्?
(क) सुखमासीनं
(ख) आगत्य
(ग) एकान्ते
(घ) न्यवेदयत्।
उत्तर:
(क) सुखमासीनं

(ii) ‘साधयामि’ इति क्रियापदस्य कर्तृपदं किम्?
(क) तत्
(ख) अहम्
(ग) अस्मात्
(घ) मनोरथः
उत्तर:
(ख) अहम्

(iii) ‘समीपम्’ इति पदस्य पर्यायपदं किम्?
(क) सुखम्
(ख) आसीनं ।
(ग) अन्तिकम्
(घ) रन्तिकम्
उत्तर:
(ग) अन्तिकम्

(iv) ‘पूर्वैः’ इति पदस्य विशेष्यपदं किम्?
(क) पुरुषैः
(ख) पुरुषैर
(ग) तादृशं
(घ) अस्माकं
उत्तर:
(क) पुरुषैः

(घ) अथ पित्रा ‘तथा’ इति अभ्यनुज्ञातः स जीमूतवाहनः कल्पतरुम् उपगम्य उवाच – “देव! त्वया अस्मत्पूर्वेषाम् अभीष्टा: कामाः पूरिताः, तन्ममैकं कामं पूरय। यथा पृथिवीम् अदरिद्राम् पश्यामि, तथा करोतु देव” इति। एवंवादिनि जीमूतवाहने “त्यक्तस्त्वया एषोऽहं यातोऽस्मि” इति वाक् तस्मात् तरोः उदभूत्। क्षणेन च स कल्पतरुः दिवं समुत्पत्य भुवि तथा वसूनि अवर्षत् यथा न कोऽपि दुर्गत आसीत्। ततस्तस्य जीमूतवाहनस्य सर्वजीवानुकम्पया सर्वत्र यशः प्रथितम्।

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 4 कल्पतरूः

प्रश्ना:

I. एकपदेन उत्तरत
(i) जीमूतवाहनः कस्य समीपं गच्छति स्म?
(ii) कस्य यशः सर्वत्र प्रथितम्?
उत्तर:
(i) कल्पतरोः
(ii) जीमूतवाहनस्य

II. पूर्णवाक्येन उत्तरत
जीमूतवाहनः कल्पतरुम् किम् अकथयत्?
उत्तर:
जीमूतवाहनः कल्पतरुम् अकथयत्, “त्वया अस्मत् पूर्वेषाम् अभीष्टाः कामाः पूरिताः, तन्ममैकं कामं पूरय। यथा पृथ्वीमदरिद्रां पश्यामि तथा करोतु देव” इति।

III. यथानिर्देश शुद्धम् उत्तरम् विकल्पेभ्यः चित्वा लिखत
(i) ‘धनानि’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) दिवं
(ख) कल्पतरु
(ग) वसूनि
(घ) भुवि
उत्तर:
(ग) वसूनि

(ii) ‘त्यक्तः त्वया….।’ अस्मिन् वाक्ये ‘त्वया’ इति सर्वनाम पदं कस्मै प्रयुक्तम्?
(क) जीमूतवाहनाय
(ख) जीमूतकेतवे
(ग) कल्पतरवे
(घ) कल्पतरुः
उत्तर:
(क) जीमूतवाहनाय

(iii) ‘यातोऽस्मि’ अत्र ‘अस्मि’ इति क्रियापदस्य कर्तृपदं किम्?
(क) त्वया
(ख) अहम्
(ग) एषः
(घ) त्यक्तः
उत्तर:
(ख) अहम्

(iv) ‘काम’ इति पदस्य विशेषणपदं किम्?
(क) एकम्
(ख) ममैकं
(ग) तन्ममैकं
(घ) तन्मम
उत्तर:
(क) एकम्

II. प्रश्ननिर्माणम्

अधोलिखितवाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत उत्तराणि

(i) जीमूतवाहनस्य सर्वजीवानुकम्पया सर्वत्र यशः प्रथितम्।
(ii) जीमूतवाहनः महान् दानवीरः आसीत्।
(iii) पूर्वैः पुरुषैः किमपि फलम् न आसादितम्।
(iv) जीमूतवाहनः पितुः अन्तिकम् अगच्छत्।
(v) अस्मिन् संसारे परोपकारः अनश्वरः अस्ति।
प्रश्ना :
(i) कस्य सर्वजीवानुकम्पया सर्वत्र यशः प्रथितम्?
(ii) जीमूतवाहनः कीदृशः आसीत्?
(iii) कैः किमपि फलम् न आसादितम्?
(iv) जीमूतवाहनः कस्य अन्तिकम् अगच्छत्?
(v) अस्मिन् संसारे परोपकारः कीदृशः अस्ति?

III. कथाक्रमसंयोजनम्

घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लेखनीयानि

(i) “दैव! त्वया अस्मत्पूर्वेषाम् अभीष्टाः कामाः पूरिताः, तन्ममैकं कामं पूरय।”
(ii) ततस्तस्य जीमूतवाहनस्य सर्वजीवानुकम्पया सर्वत्र यशः प्रथितम्।
(iii) क्षणेन च सः कल्पतरुः दिवं समुत्पत्य भुवि तथा वसूनि अवर्षत् यथा न कोऽपि दुर्गत आसीत्।
(iv) ईदृशम् अमरपादपं प्राप्यापि पूर्वैः पुरुषैरस्माकं तादृशं फलं किमपि न प्राप्तम्।
(v) “युवराज! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति सः तव सदा पूज्यः।”
(vi) तस्य गृहोद्याने कुलक्रमागतः कल्पतरुः स्थितः।
(vii) सः राजा जीमूतकेतुः तं कल्पतरुम् आराध्य तत्प्रसादात् च बोधिसत्वांशसम्भवं जीमूतवाहनं नाम पुत्रं प्राप्नोत्।
(vi) कञ्चनपुरे जीमूतकेतुः इति श्रीमान् विद्याधरपतिः वसति स्म।
उत्तर:
(i) कञ्चनपुरे जीमूतकेतुः इति श्रीमान् विद्याधरपतिः वसति स्म।
(ii) तस्य गृहोद्याने कुलक्रमागतः कल्पतरुः स्थितः।
(iii) सः राजा जीमूतकेतुः तं कल्पतरुम् आराध्य तत्प्रसादात् च बोधिसत्वांशसम्भवं जीमूतवाहनं नाम पुत्रं प्राप्नोत्।
(iv) “युवराज! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति सः तव सदा पूज्यः।”
(v) ईदृशम् अमरपादपम् प्राप्यापि पूर्वैः पुरुषैरस्माकं तादृशं फलं किमपि न प्राप्तम्।
(vi) “दैव! त्वया अस्मत्पूर्वेषाम् अभीष्टाः कामाः पूरिताः, तन्ममैकं कामं पूरय।”
(vi) क्षणेन च सः कल्पतरुः दिवं समुत्पत्य भुवि तथा वसूनि अवर्षत् यथा न कोऽपि दुर्गतः आसीत्।
(viii) ततस्तस्य जीमूतवाहनस्य सर्वजीवानुकम्पया सर्वत्र यशः प्रथितम्।

IV. प्रसंगानुकूलम् उचितार्थम्

I. रेखांकित पदानाम् प्रसंगानुसार शुद्धं अर्थ चित्वा लिखत
(i) तस्य सानोः उपरि कञ्चनपुरं नाम नगरम् विभाति।
(क) शिखरस्य
(ख) समीपम्
(ग) शिखरम्
(घ) शिरसि
उत्तर:
(क) शिखरस्य

(ii) सर्वं धनं वीचिवत् चञ्चलम् अस्ति।
(क) विचलितः
(ख) तरङ्गवत्
(ग) चलितं
(घ) तरङ्गाः
उत्तर:
(ख) तरङ्गवत्

(iii) कल्पतरुः वसूनि अवर्षत्।
(क) वस्त्रम्
(ख) वसवः
(ग) धनानि
(घ) वस्त्रणि
उत्तर:
(ग) धनानि

(iv) वाक् तरोः उद्भूत्।
(क) वृक्षः
(ख) तरु
(ग) वृक्षस्य
(घ) वृक्षात्
उत्तर:
(घ) वृक्षात्

(v) हिमवान् नगेन्द्रः अस्ति।
(क) पर्वतराजः
(ख) नरेन्द्रः
(ग) पर्वतः
(घ) नद्यः
उत्तर:
(क) पर्वतराजः

V. पर्यायपदानि/विलोमपदानि

प्रश्न: 1.
अधोलिखितपदानां पर्यायपदानि लिखत
नगेन्द्रः, इन्द्रः, वृक्षः, भूपतिः
उत्तर:
नगेन्द्रः — पर्वतः, शैलः. गिरि।
इन्द्रः — शक्रः, देवराजः, सुरेशः।
वृक्षः — तरुः, द्रुमः, विटपः।
भूपतिः — महीपालः, नृपः, भूपः।

प्रश्न: 2.
अधोलिखितानां पदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत
प्रसन्नः, आसीत्, यादृशं, अनश्वरः, नरकम्
पदानि — विलोमशब्दाः
(क) अस्ति — …………..
(ख) अप्रसन्नः — …………..
(ग) तादृशं — …………..
(घ) नश्वरः — …………..
(ङ) दिवम् — …………..
उत्तर:
पदानि — विलोमशब्दाः
(क) अस्ति — आसीत्
(ख) अप्रसन्नः — प्रसन्नः
(ग) तादृशं — यादृशम्
(घ) नश्वरः — अनश्वरः
(ङ) दिवम् — नरकम्

The post NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 4 कल्पतरूः appeared first on Learn CBSE.

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 5 सूक्तिमौक्तिकम्

$
0
0

Students can easily access the NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 5 सूक्तिमौक्तिकम् Questions and Answers which include important questions and deep explanations provided by our experts.

Shemushi Sanskrit Class 9 Solutions Chapter 5 सूक्तिमौक्तिकम्

Class 9 Sanskrit Shemushi Chapter 5 सूक्तिमौक्तिकम् Textbook Questions and Answers

अभ्यासस्य प्रश्नोत्तराणि (पृष्ठ 35-36)

प्रश्न:
1. एकपदेन उत्तरं लिखत
(क) वित्ततः क्षीणः कीदृशः भवति?
(ख) कस्य प्रतिकूलानि कार्याणि परेषां न समाचरेत्?
(ग) कुत्र दरिद्रता न भवेत्?
(घ) वृक्षाः स्वयं कानि न खादन्ति?
(ङ) का पुरा लघ्वी भवति?
उत्तर:
(क) अक्षीणः
(ग) प्रियवाक्यप्रदानेन
(ङ) सज्जनानां मैत्री
(ख) आत्मनः
(घ) फलानि

More Resources for CBSE Class 9

प्रश्न: 2.
अधोलिखितप्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) यत्नेन किं रक्षेत् वित्तं वृत्तं वा?
(ख) अस्माभिः (किं न समाचरेत्) कीदृशम् आचरणं न कर्त्तव्यम्?
(ग) जन्तवः केन तुष्यन्ति?
(घ) सज्जनानां मैत्री कीदृशी भवति?
(ङ) सरोवराणां हानिः कदा भवति?
उत्तर:
(क) यत्नेन वृत्तं रक्षेत्।
(ख) आत्मनः प्रतिकूलानि अस्माभिः आचरणं न कर्त्तव्यम्।
(ग) जनाः प्रियवाक्यप्रदानेन तुष्यन्ति।
(घ) सज्जनानां मैत्री पुरा लघ्वी वृद्धिमती च पश्चात् दिनस्य परार्द्धस्य छायेव भवति।
(ङ) मरालैः सह विप्रयोगः (वियोगः) सरोवराणां हानिः भवति।

प्रश्न: 3.
‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि, तानि यथोचितं योजयत
‘क’ स्तम्भः — ‘ख’ स्तम्भः
(क) आस्वाद्यतोयाः — (1) खलानां मैत्री
(ख) गुणयुक्तः — (2) सज्जनानां मैत्री
(ग) दिनस्य पूर्वार्द्धभिन्ना — (3) नद्यः
(घ) दिनस्य परार्द्धभिन्ना — (4) दरिद्रः
उत्तर:
‘क’ स्तम्भः — ‘ख’ स्तम्भः
(क) आस्वाद्यतोयाः — (3) नद्यः
(ख) गुणयुक्तः — (4) दरिद्रः
(ग) दिनस्य पूर्वार्द्धभिन्ना — (1) खलानां मैत्री
(घ) दिनस्य परार्द्धभिन्ना — (2) सज्जनानां मैत्री

प्रश्न: 4.
अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत
(क) आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्धपरार्द्धभिन्ना
छायेव मैत्री खलसज्जनानाम्।।
उत्तर:
(क) दुष्टों की मित्रता आरम्भ में बड़ी और क्रम से क्षीण (कम) होने लगती है। जैसे दिन के पूर्वाद्ध की छाया और सज्जनों की मित्रता दिन के परार्द्ध के समान पहले छोटी और फिर बड़ी होती है।

(ख) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्माद् तदेव वक्तव्यं वचने का दरिद्रता।।
उत्तर:
(ख) सभी प्राणी प्रिय बोलने से प्रसन्न होते हैं इसलिए प्रिय बोलने में क्या कंजूसी? प्रिय बोलकर सबको खुश रखना चाहिए।

प्रश्नः 5.
अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत
(क) वक्तव्यम्, कर्तव्यम्, सर्वस्वम्, हन्तव्यम्।
(ख) यत्नेन, वचने, प्रियवाक्यप्रदानेन, मरालेन।
(ग) श्रूयताम्, अवधार्यताम्, धनवताम्, क्षम्यताम्।
(घ) जन्तवः, नद्यः, विभूतयः, परितः।
उत्तर:
(क) सर्वस्वम्
(ख) वचने
(ग) धनवताम्
(घ) परितः

प्रश्न: 6.
स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत
(क) वृत्ततः क्षीणः हतः भवति।
(ख) धर्मसर्वस्वं श्रुत्वा अवधार्यताम्।
(ग) वृक्षाः फलं न खादन्ति।
(घ) खलानाम् मैत्री आरम्भगुर्वी भवति।
उत्तर:
(क) कस्मात् क्षीणः हतः भवति?
(ख) किं श्रुत्वा अवधार्यताम्?
(ग) के फलं न खादन्ति?
(घ) केषाम् मैत्री आरम्भगुर्वी भवति?

प्रश्न: 7.
अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत
यथा- सः पाठं पठति। — सः पाठं पठतु।
(क) नद्यः आस्वाद्यतोयाः सन्ति। — …………..
(ख) सः सदैव प्रियवाक्यं वदति। — …………..
(ग) त्वं परेषां प्रतिकूलानि न समाचरसि। — …………..
(घ) ते वृत्तं यत्नेन संरक्षन्ति। — …………..
(ङ) अहं परोपकाराय कार्यं करोमि। — …………..
उत्तर:
(क) नद्यः आस्वाद्यतोयाः — सन्तु।
(ख) सः सदैव प्रियवाक्यं — वदतु।
(ग) त्वं परेषां प्रतिकूलानि न — समाचर।
(घ) ते वृत्तं यत्नेन — संरक्षन्तु।
(ङ) अहं परोपकाराय कार्य — करवाणि।

परियोजनाकार्यम्

(क) परोपकारविषयकं श्लोकद्वयम् अन्विष्य स्मृत्वा च कक्षायां सस्वरं पठ।
(ख) नद्याः एकं सुन्दरं चित्र निर्माय संकलय्य वा वर्णयत यत् तस्याः तीरे मनुष्याः पशवः खगाश्च निर्विघ्नं जलं पिबन्ति।
उत्तर:
(क)
(i) अष्टादशपुराणेषु व्यासस्य वचनद्वयम्
परोपकारः पुण्याय पापाय परपीडनम्।।

(ii) श्रोत्रं श्रुतेनैव न कुण्डलनेन दानेन पाणिर्न तु कङ्कणेन।
विभाति कायः करुणापराणां परोपकारैर्न तु चन्दनेन।।

(ख) नद्याः वर्णनम्
1. नद्यः पर्वतेभ्यः निर्गत्य क्षेत्रेषु आगच्छन्ति।
2. नद्याः बालुकायुक्ततटे हरिताः वृक्षाः भवन्ति।
3. नदीतटे वृक्षाणाम् उपरि विविधाः खगाः वसन्ति।
4. पक्षिणाम् कलरवैः, बालकानां क्रीडाभिः, जनानां वार्तालापैः नदीतटाः गुञ्जायमानाः भवन्ति।
5. तस्याः तीरे मनुष्याः खगाः पशवः च निर्विघ्नं जलं पिबन्ति तुष्यन्ति च।

Class 9 Sanskrit Shemushi Chapter 4 सूक्तिमौक्तिकम् Additional Important Questions and Answers

पठित-अवबोधनम्
I. पठित-सामग्रयाम आधाारतम् अवमान

अधोलिखितानां श्लोकानाम् पठित्वा प्रश्नान् उत्तरत
(क) वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः॥

प्रश्नाः
I. एकपदेन उत्तरत
(i) वित्ततः क्षीणः नरः कीदृशः भवति?
(ii) वृत्ततः क्षीणः कीदृशः मानवः भवति?
उत्तर:
(i) अक्षीणः
(ii) हतः

II. पूर्णवाक्येन उत्तरत
यत्नेन किं रक्षेत्?
उत्तर:
यत्नेन वृत्तं (चरित्र) रक्षेत्।

III. निर्देशानुसारम् शुद्धम् उत्तरम् विकल्पेभ्यः चित्वा लिखत
(i) ‘वित्तम्’ इति पदस्य कः अर्थ:?
(क) चरित्रम्
(ख) धनम्
(ग) वृत्तम्
(घ) हतम्
उत्तर:
(ख) धनम्

(ii) ‘वृत्तं यत्नेन संरक्षेद्’ अत्र क्रियापदम् किम्?
(क) वृत्तं
(ख) यत्नेन
(ग) संरक्षेद्
(घ) रक्षेद्।
उत्तर:
(ग) संरक्षेद्

(iii) ‘अक्षीणो’ इति पदस्य विलोमपदं किम्?
(क) क्षीणः
(ख) वित्ततः
(ग) हतो
(घ) हतः
उत्तर:
(क) क्षीणः

(iv) वृत्ततः …………… एव हतः भवति।’ उचितपदं चित्वा रिक्तपूर्ति कुरुत।
(क) क्षीणः
(ख) अक्षीणः
(ग) यत्नेन
(घ) हतो
उत्तर:
(क) क्षीणः

(ख) पिबन्ति नद्यः स्वयमेव नाम्भः
स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः
परोपकाराय सतां विभूतयः॥

प्रश्नाः
I. एकपदेन उत्तरत –
(i) सतां विभूतयः किमर्थं भवन्ति।
(ii) के जलम् न पिबन्ति?
उत्तर:
(i) परोपकाराय
(ii) नद्यः

II. पूर्णवाक्येन उत्तरत
वारिवाहाः किम् न कुर्वन्ति?
उत्तर:
वारिवाहाः सस्यं न अदन्ति।

III. निर्देशानुसारं शुद्धम् अर्थं विकल्पेभ्यः चित्वा लिखत
(i) ‘वृक्षाः’ इति कर्तृपदस्य क्रियापदम् किम्?
(क) पिबन्ति
(ख) खादन्ति
(ग) आदन्ति
(घ) नादन्ति
उत्तर:
(ख) खादन्ति

(ii) ‘मेघाः’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) वारिवाहाः
(ख) विभूतयः
(ग) अम्भः
(घ) नाम्भः
उत्तर:
(क) वारिवाहाः

(iii) ‘वृक्षाः स्वयमेव ………… न खादन्ति।’ उचितपदं चित्वा रिक्तस्थानं पूरयत
(क) पुष्पम्
(ख) जलं
(ग) फलानि
(घ) सस्यं
उत्तर:
(ग) फलानि

(iv) ‘दुर्जनानाम्’ इति पदस्य विपरीतार्थकपदं किम्?
(क) सतां
(ख) विभूतयः
(ग) वारिवाहाः
(घ) सस्यं
उत्तर:
(क) सतां

(ग) आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्धपरार्द्धभिन्ना
छायेव मैत्री खलसज्जनानाम्॥

प्रश्ना :
I. एकपदेन उत्तरत
(i) केषाम् मैत्री आरम्भगुर्वी भवति?
(ii) केषाम् मैत्री पुरा लघ्वी पश्चात् वृद्धिमती च भवति?
उत्तर:
(i) खलानाम्
(ii) सज्जनानाम्

II. पूर्णवाक्येन उत्तरत
दिनस्य पूर्वार्द्धस्य छायेव केषाम् मैत्री भवति?
उत्तर:
दिनस्य पूर्वार्द्धस्य छायेव मैत्री खलानाम् भवति।

III. निर्देशानुसारम् शुद्धम् उत्तरम् विकल्पेभ्यः चित्वा उत्तर

(i) ‘गुर्वी’ इति पदस्य विलोमपदम् किम्?
(क) लघ्वी
(ख) क्षयिणी
(ग) क्रमेण
(घ) पुरा
उत्तर:
(क) लघ्वी

(ii) ‘क्षयशीला’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) परार्द्ध
(ख) भिन्ना
(ग) क्षयिणी
(घ) लघ्वी
उत्तर:
(ग) क्षयिणी

(iii) ‘खलानाम् मैत्री ……. भवति।’ उचितपदं चित्वा रिक्तस्थानं पूरयत।
(क) आरम्भगुर्वी
(ख) वृद्धिमती
(ग) पूर्वार्द्ध
(घ) पश्चात्
उत्तर:
(क) आरम्भगुर्वी

(iv) ‘लघ्वी पुरा वृद्धिमती च पश्चात्।’ अत्र कति अव्यय-पदानि सन्ति।
(क) एकं
(ख) द्वे
(ग) त्रीणि
(घ) चत्वारि
उत्तर:
(ग) त्रीणि

(घ) गुणा गुणज्ञेषु गुणा भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः।
आस्वाद्यतोयाः प्रवहन्ति नद्यः समुद्रमासाद्य भवन्त्यपेयाः॥

प्रश्ना :
I. एकपदेन उत्तरत
(i) केषु गुणाः गुणाः भवन्ति?
(ii) गुणाः निर्गुणम् प्राप्य के भवन्ति?
उत्तर:
(i) गुणज्ञेषु
(ii) दोषाः

II. पूर्णवाक्येन उत्तरत
नद्याः जलम् कथम् अपेयं भवति?
उत्तर:
नद्यः जलम् समुद्रम् आसाद्य अपेयं भवति।

III. निर्देशानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत
(i) ‘प्रवहन्ति’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) तोयाः
(ख) नद्यः
(ग) अपेयाः
(घ) समुद्रम्
उत्तर:
(ख) नद्यः

(ii) ‘प्राप्य’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) अपेयाः
(ख) भवन्ति
(ग) आसाद्य
(घ) अस्वाद्य
उत्तर:
(ग) आसाद्य

(iii) ‘दोषाः’ इति पदस्य विलोमपदं किम्?
(क) गुणाः
(ख) निगुणं
(ग) गुणः
(घ) गुणज्ञेषु
उत्तर:
(ग) गुणः

(iv) ‘नद्यः’ इति पदस्य विशेषणपदं किम्?
(क) तोयाः
(ख) आस्वाद्यतोयाः
(ग) समुद्रम्
(घ) आस्वाद्य
उत्तर:
(ख) आस्वाद्यतोयाः

II. प्रश्ननिर्माणम्

अधोलिखितेषु वाक्येषु रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत उत्तराणि
(i) वृत्तम् यत्नेन संरक्षेत्।
(ii) सर्वे जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति।
(ii) नद्यः स्वयमेव जलम् नं पिबन्ति।
(iv) नद्याः जलम् समुद्रम् आसाद्य अपेयं भवति।
(v) सतां विभूतयः परोपकाराय भवन्ति।
(vi) गुणेषु पुरुषैः प्रयत्नः कर्त्तव्यः।
प्रश्ना:
(i) वृत्तम् केन संरक्षेत्?
(ii) के प्रियवाक्यप्रदानेन तुष्यन्ति?
(iii) काः स्वयमेव जलम् न पिबन्ति?
(iv) नद्याः जलम् समुद्रम् आसाद्य कीदृशम् भवति?
(v) केषाम् विभूतयः परोपकाराय भवन्ति?
(vi) केषु पुरुषैः प्रयत्नः कर्त्तव्यः?

अधोलिखितानाम् श्लोकानाम् अन्वयेषु समुचितपदेन रिक्तपूर्ति कुरुत
(क) गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः।
आस्वाद्यतोयाः प्रवहन्ति नद्यः
समुद्रमासाद्य भवन्त्यपेयाः।।
अन्वयः- गुणज्ञेषु गुणाः (i)……………….. भवन्ति, ते (ii)………………… प्राप्य दोषाः भवन्ति। आस्वाद्यतोया: (iii)………………. प्रवहन्ति, समुद्रम् (iv)……………….अपेयाः भवन्ति।
उत्तरम्
गुणज्ञेषु गुणाः (i) गुणाः भवन्ति, ते (ii) निर्गुणं प्राप्य दोषाः भवन्ति। आस्वाद्यतोयाः (iii) नद्यः प्रवहन्ति, समुद्रम् (iv) आसाद्य अपेयाः भवन्ति।

(ख) आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्धपरार्द्धभिन्ना छायेव मैत्री खलसज्जनानाम्।।
अन्वयः- आरंम्भगुर्वी (i)………….. क्षयिणी पुरा (ii)………….. पश्चात् च वृद्धिमती पूर्वार्द्धपरार्द्धभिन्ना (iii)……………….. छायेव खलसज्जनानाम् (iv)……………….
उत्तरम्-
आरम्भगुर्वी (i) क्रमेण क्षयिणी पुरा (ii) लघ्वी पश्चात् च वृद्धिमती पूर्वार्द्धपरार्द्धभिन्ना (iii) दिनस्य छायेव खलसज्जनानाम् (iv) मैत्री।

(ग) यत्रापि कुत्रापि गता भवेयु
हंसा महीमण्डलमण्डनाय।
हानिस्तु तेषां हि सरोवराणां
येषां मरालैः सह विप्रयोगः।।

अन्वयः- महीमण्डलमण्डनाय (i)……………….. यत्रापि (ii)………………. गताः भवेयुः। हि तेषां (iii)……………… तु हानिः, येषां (iv)…………….. सह विप्रयोगः।
उत्तरम् –
महीमण्डलमण्डनाय (i) हंसा यत्रापि (ii) कुत्रापि गताः भवेयुः। हि तेषां (iii) सरोवराणां तु हानि:, येषां (iv) मरालैः सह विप्रयोगः।

(घ) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्माद् तदेव वक्तव्यं वचने का दरिद्रता।।
अन्वयः- सर्वे (i)……. ……. प्रियवाक्यप्रदानेन (ii)………… तस्माद् तत् (iii) ………..वचने (iv)… दरिद्रता।
उत्तरम्-
सर्वे (i) जन्तवः प्रियवाक्यप्रदानेन (ii) तुष्यन्ति। तस्माद् तत् (iii) एव वक्तव्यं वचने (iv) का दरिद्रता।

III. ‘ख’ भावार्थः

अधोलिखितश्लोकानाम् भावार्थं मञ्जूषातः उचितपदानि चित्वा पूरयत

(क) वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः॥

भावार्थ:-अस्य श्लोकस्य भावः अस्ति यत् धनं तु मानवानाम् जीवने (i) ……. याति वा। मानवः यत्नेन (ii)…………………. रक्षेत्। यतः (iii)…………………” क्षीणोऽपि न क्षीणः। परम् चरित्रेण तु नष्टः एव भवति। (iv)……………..
मञ्जूषा- क्षीणः, वित्ततः, आयाति, स्वाचरणम्
उत्तर:
(क) अस्य श्लोकस्य भावः अस्ति यत् धनं तु मानवानाम् जीवने आयाति याति वा। मानवः यत्नेन स्वाचरणम् रक्षेत्। यतः वित्ततः क्षीणोऽपि न क्षीणः। परम् चरित्रेण क्षीणः तु नष्टः एव भवति।

(ख) पिबन्ति नद्यः स्वयमेव नाम्भः
स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खल वारिवाहाः
परोपकाराय सतां विभूतयः॥

भावार्थ:-प्रकृतिः अस्मान् शिक्षयति यत् सज्जनानाम् (i) ……….. परेषाम् उपकाराय एव भवन्ति। यथा (ii)………………… स्वयमेव जलं न पिबन्ति। (iii)……………….. स्वफलानि न खादन्ति। मेघाः च नादन्ति। (iv)………….
मञ्जूषा- नद्यः, तरवः, सस्य, समृद्धयः ।
उत्तर:
(ख) प्रकृतिः अस्मान् शिक्षयति यत् सज्जनानाम् समृद्धयः परेषाम् उपकाराय एव भवन्ति। यथा नद्यः स्वयमेव जलं न पिबन्ति। तरवः स्वफलानि न खादन्ति। मेघाः च सस्यं नादन्ति।

(ग) गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः।
आस्वाद्यतोयाः प्रवहन्ति नद्यः ।
समुद्रमासाद्य भवन्त्यपेयाः॥

भावार्थ:-स्वादिष्टजलपूर्णाः (i) ……….. क्षारयुक्ते समुद्रे मिलित्वा (ii) ……….. न भवन्ति। इत्यं (iii)……………. गुणाः गुणाः एव भवन्ति। परम् ते गुणाः एव (iv)………………… प्राप्य दोषाः भवन्ति। अतएव कथ्यते–’संसर्गजाः दोषगुणाः भवन्ति।’
मञ्जूषा- गुणज्ञेषु, निर्गुणम्, पानयोग्याः, नद्यः
उत्तर:
(ग) स्वादिष्टजलपूर्णाः नद्यः क्षारयुक्ते समुद्रे मिलित्वा पानयोग्याः न भवन्ति। इत्थं गुणज्ञेषु गुणाः गुणाः एव भवन्ति। परम् ते गुणाः एव निर्गुणम् प्राप्य दोषाः भवन्ति। अतएव कथ्यते–’संसर्गजाः दोषगुणाः भवन्ति।’

IV. प्रसङ्गानुकूलम् उचितार्थम्

I. अधोलिखितवाक्येषु रेखांकित पदानाम् कृते उचितम् अर्थ चित्वा लिखत
(i) यत्नेन वृत्तम् रक्षेत्।
(क) धनम्
(ख) चरित्रम्
(ग) विकारम्
(घ) अन्नम्
उत्तर:
(ख) चरित्रम्

(ii) नद्यः समुद्रम् आसाद्य अपेयाः भवन्ति?
(क) आगत्य
(ख) अवमत्य
(ग) आच्छाद्य
(घ) प्राप्य
उत्तर:
(घ) प्राप्य

(iii) सतां विभूतयः परोपकाराय भवन्ति।
(क) समृद्धयः
(ख) सुन्दरता
(ग) भूताः
(घ) शरीराणि
उत्तर:
(क) समृद्धयः

(iv) नद्यः स्वयमेव न अम्भः पिबन्ति।
(क) अन्नम्
(ख) शाकं
(ग) यशः
(घ) जलम्
उत्तर:
(घ) जलम्

(v) खलानाम् मैत्री आरम्भगुर्वी भवति।
(क) आदौ दीर्घा
(ख) आरम्भः
(ग) आदौ दीर्घं
(घ) आदौ लघ्वी
उत्तर:
(क) आदौ दीर्घा

V. पर्यायपदानि/विलोमपदानि

प्रश्नः 1.
अधोलिखितपदानां पर्यायपदानि लिखत
वित्तम्, वृत्तम्, मरालः, वारिवाहाः
उत्तर:
वित्तम् — धनम्, ऐश्वर्यः, सम्पदा।
वृत्तम् — चरित्रं, आचरणं, चलनम्।
मरालः — हंसः, चक्रांगः, कलहंस
वारिवाहाः — मेघाः, जलदाः, पयोदाः।

प्रश्नः 2.
अधोलिखितानां पदानां विलोमपदानि मञ्जूषायां वत्तेषु पदेषु चित्वा यथासमक्षं लिखत
प्रतिकूलानि, अपेयाः, परार्द्धः, गुर्वी, सज्जनानाम्
पदानि — विलोमशब्दाः
(क) पेयाः — ……………..
(ख) पूर्वाद्धः — ……………..
(ग) खलानाम् — ……………..
(घ) अनुकूलानि — ……………..
(ङ) लघ्वी — ……………..
उत्तर:
पदानि — विलोमशब्दाः
(क) पेयाः — अपेयाः
(ख) पूर्वाद्धः — परार्द्धः
(ग) खलानाम् — सज्जनानाम्
(घ) अनुकूलानि — प्रतिकूलानि
(ङ) लघ्वी — गुर्वी

The post NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 5 सूक्तिमौक्तिकम् appeared first on Learn CBSE.


NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः

$
0
0

Students can easily access the NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः Questions and Answers which include important questions and deep explanations provided by our experts.

Shemushi Sanskrit Class 9 Solutions Chapter 6 भ्रान्तो बालः

Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः Textbook Questions and Answers

अभ्यासस्य प्रश्नोत्तराणि (पृष्ठ 42-43)

प्रश्न: 1.
एकपदेन उत्तरं लिखत
(क) कः तन्द्रालुः भवति?
(ख) बालकः कुत्र व्रजन्तं मधुकरम् अपश्यत्?
(ग) के मधुसंग्रहव्यग्राः अवभवन्?
(घ) चटकः कया तृणशलाकादिकम् आददाति?
(ङ) चटकः कस्य शाखायां नीड रचयति?
(च) बालकः कीदृशं श्वानं पश्यति?
(छ) श्वानः कीदृशे दिवसे पर्यटति?
उत्तर:
(क) बालकः
(ख) उद्याने
(ग) मधुकराः
(घ) चञ्चवा
(ङ) वटदुमस्य
(च) पलायमानम्
(छ) निदाघदिवसे

More Resources for CBSE Class 9

प्रश्न: 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) बालः कदा क्रीडितुं अगच्छत्?
(ख) बालस्य मित्राणि किमर्थं त्वरमाणा अभवन्?
(ग) मधुकरः बालकस्य आह्वान केन कारणेन तिरस्कृतवान्?
(घ) बालकः कीदृशं चटकम् अपश्यत्?
(ङ) बालकः चटकाय क्रीडनार्थं कीदृशं लोभं दत्तवान्?
(च) खिन्नः बालकः श्वानं किम् अकथयत्?
(छ) भग्नमनोरथः बालः किम् अचिन्तयत्?
उत्तर:
(क) बालः पाठशालागमनवेलायां क्रीडितुं अगच्छत्।
(ख) बालस्य मित्राणि पूर्वदिनपाठान् स्मृत्वा विद्यालयगमनाय त्वरमाणा अभवन्।
(ग) मधुसंग्रहव्यग्रः मधुकरः बालकस्य आह्वानं तिरस्कृतवान्।
(घ) बालकः चञ्च्वा तृणशलाकादिकम् आददानम् एकं चटकम् अपश्यत्।
(ङ) “एतत् शुष्कं तृणं त्यज, स्वादूनि भक्ष्यकवलानि ते दास्यामि।” इति बालकः चटकाय क्रीडनार्थं लोभं दत्तवान्।
(च) खिन्नः बालकः श्वानं अकथयत्, “अस्मिन् निदाघदिवसे किं पर्यटसि? आश्रयस्वेदं प्रच्छायशीतलं तरुमूलम्। अहम् अपि क्रीडासहायं त्वाम् एव अनुरूपं पश्यामि।”
(छ) भग्नमनोरथः बालः अचिन्तयत्, “अस्मिन् जगति प्रत्येकं स्व-स्वकृत्ये निमग्नः भवति। कोऽपि वृथा कालक्षेपं न सहते। एतेभ्यः नमः यैः मे तन्द्रालुतायाम् कुत्सा समापादिता।”

प्रश्न: 3.
निम्नलिखितस्य श्लोकस्य भावार्थं हिन्दीभाषया आङ्ग्लभाषया वा लिखत
यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि।।
उत्तर:
हिंदी भाषया भावार्थ-बालक जब कुत्ते से खेलने के लिए कहता है कि गर्मी में क्यों घूमते हो? मेरे साथ खेलो तो कुत्ता अपने स्वामी के प्रति कर्त्तव्यपरायणता दिखाता हुआ कहता है कि जिस स्वामी के घर में पुत्र के समान मेरा पोषण होता है। उसकी रक्षा करने से मुझे नहीं हटना चाहिए। अपने स्वामी की रक्षा करना मेरा कर्त्तव्य है।

प्रश्न: 4.
“भ्रान्तो बालः” इति कथायाः सारांशं हिंदीभाषया आङ्ग्लभाषया वा लिखत।
उत्तर:
कोई भ्रमित बालक विद्यालय न जाकर खेलने में अपना समय बिताता है। विद्यालय जाते हुए मित्रों को देखकर वह आलसी अकेला ही एक बाग में गया। वहाँ भौंरे को बुलाता है, मधुसंचय में व्यस्त भौरे भी उसका साथ देने से इन्कार कर देते हैं। तो बालक चिड़िया को स्वादिष्ट भोजन का लोभ देता है। घोंसले के निर्माण में व्यस्त चिड़िया और स्वामी की रक्षा करता हुआ कुत्ता भी बालक का साथ नहीं देते। बालक सोचता है कि इस संसार में सभी अपने कार्यों में व्यस्त है। वह भी व्यर्थ समय गँवाना छोड़कर विद्यालय जाता है और महान् विद्वता, प्रसिद्धि और सम्पत्ति प्राप्त करता है।

प्रश्नः 5.
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
(क) स्वादूनि भक्ष्यकवलानि ते दास्यामि।
(ख) चटकः स्वकर्मणि व्यग्रः आसीत्।
(ग) कुक्कुरः मानुषाणां मित्रम् अस्ति।
(घ) स महती वैदुषीं लब्धवान्।
(ङ) रक्षानियोगकरणात मया न भ्रष्टव्यम् इति।
उत्तर:
(क) कीदृशानि भक्ष्यकवलानि ते दास्यामि?
(ख) चटकः कस्मिन् व्यग्रः आसीत्?
(ग) कुक्कुरः केषाम् मित्रम् अस्ति?
(घ) सः कीदृशीं लब्धवान्?
(ङ) कस्मात् मया न भ्रष्टव्यम् इति?

प्रश्नः 6.
“एतेभ्यः नमः” इति उदाहरणमनुसृत्य नमः इत्यस्य योगे चतुर्थी विभक्तेः प्रयोगं कृत्वा पञ्चवाक्यानि रचयत।
उत्तर:
देवेभ्य नमः।
गणेशाय नमः।
मात्रे नमः।
पित्रे नमः।
शिवाय नमः।

प्रश्न: 7.
‘क’ स्तम्भे समस्तपदानि ‘ख’ स्तम्भे च तेषां विग्रहः दत्तानि, तानि यथासमक्षं लिखत
“क’ स्तम्भ — ‘ख’ स्तम्भ
(क) दृष्टिपथम् — (1) पुष्पाणाम् उद्यानम्
(ख) पुस्तकदासाः — (2) विद्यायाः व्यसनी
(ग) विद्याव्यसनी — (3) दृष्टेः पन्थाः
(घ) पुष्पोद्यानम् — (4) पुस्तकानां दासाः
उत्तर:
‘क’ स्तम्भ — ‘ख’ स्तम्भ
(क) दृष्टिपथम् — दृष्टेः पन्थाः
(ख) पुस्तकदासाः — पुस्तकानां दासाः
(ग) विद्याव्यसनी — विद्यायाः व्यसनी
(घ) पुष्पोद्यानम् — पुष्पाणाम् उद्यानम्

(अ) अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत विशेषणम्
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः 1
उत्तर:
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः 2

परियोजनाकार्यम

(क) एकस्मिन् स्फोरकपत्रे (chart-paper) एकस्य उद्यानस्य चित्र निर्माय संकलय्य वा पञ्चवाक्येषु तस्य वर्णनं कुरुत।
(ख) “परिश्रमस्य महत्त्वम्” इति विषये हिन्दी भाषया आङ्ग्लभाषया वा पञ्चवाक्यानि लिखत।
उत्तर:
(क) उद्यानस्य चित्रवर्णनम्
(i) चित्रे उद्यानस्य दृश्यम् दृश्यते।
(ii) उद्याने सुन्दराणि पुष्पाणि विकसन्ति।
(iii) अत्र बालाः कन्दुकेन क्रीडन्ति।
(iv) जनाः अत्र आगत्य व्यायामम् अपि कुर्वन्ति।
(v) क्रीडन्तः बालकाः आनन्दम् अनुभवन्ति।

(ख) परिश्रम का महत्त्व परिश्रम ही मनुष्य की वास्तविक पूजा-अर्चना है। परिश्रम के बिना सफलता प्राप्त नहीं होती। परिश्रमी व्यक्ति अपने कर्म के द्वारा अपनी इच्छाओं की पूर्ति करता है। जीवन में परिश्रम से मनुष्य अपनी तकदीर को भी बदल देता है। संसार में मेहनती मनुष्यों को सम्मान मिलता है। सफलता, समृद्धि और प्रसिद्धि की एकमात्र कुंजी परिश्रम ही है।

Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः Additional Important Questions and Answers

पठित-अवबोधनम् 
I. पठित-सामग्रयाम् आधारितम् अवबोधनकार्यम्

अधोलिखित गद्याशान् पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत

(क) भ्रान्तः कश्चन बालः पाठशालागमनवेलायां क्रीडितुम् अगच्छत्। किन्तु तेन सह केलिभिः कालं क्षेप्तुं तदा कोऽपि न वयस्येषु उपलभ्यमान आसीत्। यतः ते सर्वेऽपि पूर्वदिनपाठान् स्मृत्वा विद्यालयगमनाय त्वरमाणाः अभवन्। तन्द्रालुः बालः लज्जया तेषां दृष्टिपथमपि परिहरन् एकाकी किमपि उद्यानं प्राविशत्। सः अचिन्तयत्-“विरमन्तु एते वराकाः पुस्तकदासाः। अहं तु आत्मानं विनोदयिष्यामि। सम्प्रति विद्यालयं गत्वा भूयः क्रुद्धस्य उपाध्यायस्य मुखं द्रष्टुं नैव इच्छामि। एते निष्कुटवासिनः प्राणिन एव मम वयस्याः सन्तु इति।

प्रश्ना:
I. एकपदेन उत्तरत
(i) बालः एकाकी एव कुत्र प्राविशत्?
(ii) बालः कीदृशः आसीत्?
उत्तर:
(i) उद्यानम्
(ii) भ्रान्तः

II. पूर्णवाक्येन उत्तरत
बालकस्य वयस्याः किमर्थं त्वरमाणाः अभवन् ?
उत्तर:
बालकस्य वयस्याः पूर्वदिनपाठान् स्मृत्वा विद्यालय-गमनाय त्वरमाणाः अभवन्

III. निर्देशानुसारम् उचितम् उत्तरं प्रदत्तविकल्पेभ्यः चित्वा लिखत
(i) ‘अगच्छत्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) भ्रान्तः
(ख) कश्चन्
(ग) बालः
(घ) पाठशाला
उत्तर:
(ग) बालः

(ii) ‘क्रीडाभिः’ इति पदस्य अर्थे किं पदम् प्रयुक्तम्?
(क) केलिभिः
(ख) किमपि
(ग) तन्द्रालु
(घ) क्रीडितुम्
उत्तर:
(क) केलिभिः

(iii) ‘तेन सह केलिभिः ………..’ अत्र ‘तेन’ इति सर्वनामपदं कस्मै प्रयुक्तम्।
(क) बालकस्य
(ख) बालाय
(ग) बालः
(घ) मित्राय
उत्तर:
(ख) बालाय

(iv) ‘वराकाः’ इति पदस्य विशेष्यपदं किम्?
(क) अहम्
(ख) पुस्तक
(ग) पुस्तकदासाः
(घ) एते उत्तराणि
उत्तर:
(ग) पुस्तकदासाः

(ख) अथ सः पुष्पोद्यानं व्रजन्तं मधुकरं दृष्ट्वा तं क्रीडितुम् द्वित्रिवारं आह्वयत्। तथापि, सः मधुकरः अस्य बालस्य आह्वानं तिरस्कृतवान्। ततो भूयो भूयः हठमाचरति बाले सः मधुकरः अगायत् – “वयं हि मधुसंग्रहव्यग्रा” इति। तदा स बालः ‘अलं भाषणेन अनेन मिथ्यागवितेन कीटेन’ इति विचिन्त्य अन्यत्र दत्तदृष्टि: चञ्च्वा तृणशलाकादिकम् आददानम् एकं चटकम् अपश्यत्, अवदत् च-“अयि चटकपोत! मानुषस्य मम मित्रं भविष्यसि। एहि क्रीडावः। एतत् शुष्कं तृणं त्यज स्वादूनि भक्ष्यकवलानि ते दास्यामि” इति। स तु “मया वटदुमस्य शाखायां नीडं कार्यम्” इत्युक्त्वा स्वकर्मव्यग्रोः अभवत्।

प्रश्ना:
I. एकपदेन उत्तरत
(i) मधुकरः कस्मिन् व्यग्रः आसीत्?
(ii) बालकः मधुकरं किमर्थं आह्वयत्?
उत्तर:
(i) मधुसंग्रहे
(ii) क्रीडितुम्

II. पूर्णवाक्येन उत्तरत
बालकः चटकाय किम् अकथयत्?
उत्तर:
बालक चटकाय अकथयत्, “मानुषस्य मम मित्रं भविष्यसि। एहि क्रीडावः। त्यज शुष्कमेतत् तृणं स्वादूनि भक्ष्यकवलानि ते दास्यामि।”

III. यथानिर्देशम् उत्तरत
(i) ‘तृणं’ इति पदस्य विशेषणपदं किम्?
(क) स्वादूनि
(ख) शुष्कम्
(ग) त्यज
(घ) भक्ष्य
उत्तर:
(ख) शुष्कम्

(ii) ‘आंगच्छ’ इति पदस्य समानार्थकपदं किम्? ।
(क) एहि
(ख) त्यज
(ग) यामि
(घ) व्रजन्तम्
उत्तर:
(क) एहि

(iii) ‘आह्वयत्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) सः
(ख) मधुकरं
(ग) तं
(घ) अथ
उत्तर:
(क) सः

(iv) ‘वयं’ इति सर्वनामपदं केभ्यः प्रयुक्तम्?
(क) मधुकरेभ्यः
(ख) मधुकरं
(ग) मधुकराय
(घ) मधुकरः
उत्तर:
(क) मधुकरेभ्यः

(ग) सर्वैः एवं निषिद्धः स बालो भग्नमनोरथः सन्- ‘कथमस्मिन् जगति प्रत्येकं स्व-स्वकार्ये निमग्नो भवति। न कोऽपि मामिव वृथा कालक्षेपं सहते। नम एतेभ्यः यैः मे तन्द्रालुतायां कुत्सा समापादिता। अथ स्वोचितम् अहमपि करोमि इति विचार्य त्वरितं पाठशालाम् अगच्छत्।’ ततः प्रभृति स विद्याव्यसनी भूत्वा महती वैदुषी प्रथां सम्पदं च अलभत।

प्रश्ना :
I. एकपदेन उत्तरत
(i) अस्मिन् जगति प्रत्येकं कस्मिन् निमग्नः भवति?
(ii) सर्वैः निषिद्धः बालकः कीदृशः अभवत्?
उत्तर:
(i) स्व-स्वकृत्ये
(ii) भग्नमनोरथः

II. पूर्णवाक्येन उत्तरत
विद्याव्यसनी भूत्वा सः बालकः किम् लब्धवान्।
उत्तर:
विद्याव्यसनी. भूत्वा सः बालकः महती वैदुषी प्रथाम् सम्पदं च लब्धवान्।

III. निर्देशानुसारम् उत्तरत
(i) ‘घृणा’ इति पदस्य पर्यायपदं किम्?
(क) तन्द्रा
(ख) सम्पदं
(ग) प्रथा
(घ) कुत्सा
उत्तर:
(घ) कुत्सा

(ii) ‘अहम्’ इति कर्तृपदस्य क्रियापदम् किम्?
(क) करोमि
(ख) लेभे
(ग) भवति
(घ) सहते
उत्तर:
(क) करोमि

(iii) ‘कः अपि अहम् इव’ अत्र ‘अहम्’ इति सर्वनामपदं कस्य कृते प्रयुक्तम्?
(क) बालकाय
(ख) बालकं
(ग) बालकस्य
(घ) बालकः
उत्तर:
(ग) बालकस्य

(iv) ‘प्रेम’ इति पदस्य विपरीतार्थकं पदं किम्?
(क) कुत्सा
(ख) तन्द्रा
(ग) निमग्नः
(घ) त्वरितं
उत्तर:
(क) कुत्सा

(घ) यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि॥ इति।

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः 3

प्रश्नाः
I. एकपदेन उत्तरत
(i) स्वामी कुक्कुरम् कथम् पोषयति?
(ii) रक्षानियोगकारणत् केन न भ्रष्टव्यम्?
उत्तर:
(i) पुत्रप्रीत्या
(ii) कुक्कुरेन

II. पूर्णवाक्येन उत्तरत
इदम् श्लोकं कः कम् कथयति?
उत्तर:
इदम् श्लोकं कुक्कुरः बालकं कथयति।

III. निर्देशानुसारम् उत्तरत
(i) ‘मा’ इति सर्वनामपदं कस्य कृते प्रयुक्तम्?
(क) बालकस्य
(ख) स्वामिनः
(ग) कुक्कुरस्य
(घ) चटकस्य
उत्तर:
(ग) कुक्कुरस्य

(ii) ‘पतितव्यम्’ इति पदस्य स्थाने किं पदं प्रयुक्तम्?
(क) पुत्रप्रीत्या
(ख) नियोग
(ग) भ्रष्टव्यम्
(घ) ईषदपि
उत्तर:
(ग) भ्रष्टव्यम्

(iii) श्लोके प्रथमे पंक्तौ क्रियापदं किम्?
(क) पुत्रप्रीत्या
(ख) पोषयति
(ग) गृहे
(घ) तस्य
उत्तर:
(ख) पोषयति

(iv) ‘प्रभूतं’ इति पदस्य विपरीतार्थकं पदं किम्?
(क) ईषत्
(ख) मीषद्
(ग) भ्रष्टव्यम्
(घ) नियोग
उत्तर:
(क) ईषत्

II. प्रश्नानमर्माणम्

अधोलिखित कथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्
‘उत्तराणि
(i) भ्रान्तः बालः क्रीडितुं निष्क्रान्तः।
(ii) बालकस्य मित्राणि विद्यालयगमनाय त्वरमाणाः आसन्।
(iii) पक्षिणः मानुषेषु न उपगच्छन्ति।
(iv) कुक्कुरः मानुषाणां मित्रम् अस्ति।
(v) प्रीतः बालः कुक्कुरम् सम्बोधयामास।
(vi) बालकः पुष्पोद्याने मधुकर अपश्यत्।
प्रश्नाः
(i) भ्रान्तः बालः किमर्थं निष्क्रान्तः?
(ii) कस्य मित्राणि विद्यालयगमनाय त्वरमाणाः आसन्?
(iii) के मानुषेषु न उपगच्छन्ति?
(iv) कुक्कुरः केषाम् मित्रम् अस्ति?
(v) कीदृशः बालः कुक्कुरम् सम्बोधयामास?
(vi) बालकः कुत्र मधुकरं अपश्यत्?

III. ‘क’ अन्वयः 

अधोलिखितस्य श्लोकस्य अन्वये रिक्तस्थानानां पूर्तिं समुचितपदैः कुरुतः
यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य। रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि।। इति।।
अन्वयः-यो (i)……. पुत्रप्रीत्या पोषयति। (ii)……. स्वामिनः गृहे रक्षानियोगकारणत् मया (iii)……………….. अपि (iv)……………… भ्रष्टव्यम्।
उत्तर:
यो (i) मां पुत्रप्रीत्या पोषयति। (ii) तस्य स्वामिनः गृहे रक्षानियोगकारणात् मया (iii) ईषद् अपि (iv) न भ्रष्टव्यम्।

III. ‘ख’ भावार्थः

निम्नलिखितश्लोकस्यः भावार्थं मञ्जूषातः उचितपदानि चित्वा पूरयत
(क) यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि।।

भावार्थ:-स्वस्वामिनं प्रति कर्त्तव्यनिष्ठा प्रदर्शितः (i)…… भ्रान्तं बालं कथयति यत् तस्य (ii)…………. गृहे पुत्रस्य सदृशं (iii)………… तस्य रक्षणम् एव कुक्कुरस्य परमं . (iv)………………… अस्ति ।
मञ्जूषा- पोषयति, स्वामी, कुक्कुरः, कर्त्तव्यं |
उत्तर:
स्वस्वामिनं प्रति कर्तव्यनिष्ठा प्रदर्शितः कुक्कुरः भ्रान्तं बालं कथयति यत् तस्य स्वामी गृहे पुत्रस्य सदृशं पोषयति तस्य रक्षणम् एव कुक्कुरस्य परमं कर्त्तव्यं अस्ति।

IV. कथाक्रमसंयोजनम्

घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लेखनीयानि

(i) कथमस्मिन् जगति प्रत्येकं स्व-स्वकार्ये निमग्नो भवति।
(ii) ततः प्रभृति सः विद्याव्यसनी भूत्वा महती वैदुषी प्रथां सम्पदं च अलभत।
(iii) अथ स्वोचितम् अहमपि करोमि इति विचार्य त्वरितं पाठशालाम् अगच्छत्।
(iv) भ्रान्तः कश्चन् बालः पाठशालागमनवेलायां क्रीडितुं अगच्छत्।
(v) तन्द्रालुः बाल: लज्जया तेषाम् दृष्टिपथमपि परिहरन् एकाकी किमपि उद्यानं प्राविशत्।
(vi) किन्तु तेन सह केलिभिः कालं क्षेप्तुं तदा कोऽपि न वयस्येषु उपलभ्यमान आसीत्।
(vii) अथ सः पुष्पोद्यानं व्रजन्तं मधुकरं दृष्ट्वा तं क्रीड़ितुम् द्वित्रिवारम् आह्वयत्।
(viii) ततो भूयो भूयः हठमाचरति बाले सः मधुकरः अगायत-“वयं हि मधुसंग्रहव्यग्रा” इति।
उत्तर:
(i) भ्रान्तः कश्चन् बालः पाठशालागमनवेलायां क्रीडितुं अगच्छत्।
(ii) किन्तु तेन सह केलिभिः कालं क्षेप्तुं तदा कोऽपि न वयस्येषु उपलभ्यमान आसीत्।
(iii) तन्द्रालुः बालः लज्जया तेषाम् दृष्टिपथमपि परिहरन् एकाकी किमपि उद्यानं प्राविशत्।
(iv) अथ सः पुष्पोद्यानं व्रजन्तं मधुकरं दृष्ट्वा तं क्रीडितुम् द्वित्तिवारम् आह्वयत्।
(v) ततो भूयो भूयः हठमाचरति बाले सः मधुकरः अगायत्-“वयं हि मधुसंग्रहव्यग्रा” इति।
(vi) कथमस्मिन् जगति प्रत्येकं स्व-स्वकार्ये निमग्नो भवति।
(vii) अथ स्वोचितम् अहमपि करोमि इति विचार्य त्वरितं पाठशालाम् अगच्छत्।
(viii) ततः प्रभृति सः विद्याव्यसनी भूत्वा महतीं वैदुषी प्रथा सम्पदं च अलभत।

V. प्रसङ्गानुकूलम् उचितार्थम् 

I. रेखांकितपदानाम् प्रसङ्गानुसारं शुद्धम् अर्थं चित्वा लिखत
(i) कोऽपि वयस्येषु उपलभ्यमानः न आसीत्।
(क) मित्रेषु
(ख) बालकेषु
(ग) खगेषु
(घ) चटकासु
उत्तर:
(क) मित्रेषु

(ii) तन्द्रालुः बालः उद्यानं प्रविवेश।
(क) अलसः
(ख) सरलः
(ग) सुन्दरः
(घ) उत्तमः
उत्तर:
(क) अलसः

(iii) मधुकरं दृष्ट्वा बालकः तम् आह्वयत्।
(क) मधु
(ख) मक्षिका
(ग) भ्रमरं
(घ) चटकं
उत्तर:
(ग) भ्रमरं

(iv) बालकः पलायमानं श्वानम् अवलोकयत्।
(क) सिंहम्
(ख) मूषकम्
(ग) बिडालम्
(घ) कुक्कुरम्
उत्तर:
(घ) कुक्कुरम्

(v) सर्वैः निषिद्धः बालः भग्नमनोरथः अभवत्।
(क) खण्डितकामः
(ख) पूर्णकामः
(ग) पूर्णमनोरथः
(घ) स्वीकृतः
उत्तर:
(क) खण्डितकामः

VI. पर्यायपदानि/विलोमपदानि

प्रश्नः 1.
अधोलिखितपदानां पर्यायपदानि लिखत
पाठशाला, पुष्पं, उद्यान, मधुकरः
उत्तर:
पाठशाला — विद्यालयः, शिक्षालयः, विद्यापीठः।
पुष्पं — सुमनम्, कुसुमम्, प्रसूनम्।
उद्यानं — वाटिका, उपवनं, कुसुमाकरः
मधुकरः — भ्रमरः, मिलिंदः, अलिः।

प्रश्नः 2.
‘क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषां विलोमपदानि दत्तानि। तानि चित्वा पदानां समक्षं लिखत
“क’ स्तम्भः — ‘ख’ स्तम्भः
(क) स्वामिनः — प्रेम
(ख) कुत्सा — भृत्यस्य
(ग) अनुरूपम् — स्वीकृतः
(घ) निषिद्धः — अननुरूपम्
(ङ) शुष्कं — आर्द्रम्
उत्तर:
“क’ स्तम्भः — ‘ख’ स्तम्भः
(क) स्वामिनः — भृत्यस्य
(ख) कुत्सा — प्रेमम्
(ग) अनुरूपम् — अननुरूपम्
(घ) निषिद्धः — स्वीकृतः
(ङ) शुष्कं — आर्द्रम्

The post NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः appeared first on Learn CBSE.

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम्

$
0
0

Students can easily access the NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम्Questions and Answers which include important questions and deep explanations provided by our experts.

Shemushi Sanskrit Class 9 Solutions Chapter 7 प्रत्यभिज्ञानम्

Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम् Textbook Questions and Answers

अभ्यासस्य प्रश्नोत्तराणि (पृष्ठ 51-53)

प्रश्न: 1.
एकपदेन उत्तरं लिखत
(क) क: उमावेषमिवाश्रितः भवति?
(ख) कस्याः अभिभाषणकौतूहलं महत् भवति?
(ग) अस्माकं कुले किमनुचितम्?
(घ) कः दर्पप्रशमनं कर्तुमिच्छति?
(ङ). कः अशस्त्रः आसीत्?
(च) कया गोग्रहणम् अभवत्?
(छ) कः ग्रहणं गतः आसीत्?
उत्तर:
(क) अर्जुनः/बृहन्नला
(ख) बृहन्नलायाः
(ग) आत्मस्तवम्/आत्मप्रशंसा
(घ) राजा
(ङ) भीमसेनः
(छ) सौभद्र:/अभिमन्युः
(च) दिष्ट्या /भाग्येन
(घ) राजा

More Resources for CBSE Class 9

प्रश्न: 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) भटः कस्य ग्रहणम् अकरोत्?
(ख) अभिमन्युः कथं गृहीतः आसीत्?
(ग) कः वल्लभ-बृहन्नलयोः प्रश्नस्य उत्तरं न ददाति?
(घ) अभिमन्युः स्वग्रहणे किमर्थम् आत्मानं वञ्चितम् अनुभवति?
(ङ) कस्मात् कारणात् अभिमन्युः गोग्रहणं सुखान्तं मन्यते?
उत्तर:
(क) भटः अभिमन्योः ग्रहणम् अकरोत्।
(ख) अशस्त्रभीमसेनेन रथम् आसाद्य बाहुभ्याम् अभिमन्युः गृहीतः आसीत्।
(ग) अभिमन्युः वल्लभ-बृहन्नलयोः प्रश्नस्य उत्तरं न ददाति।
(घ) युद्धक्षेत्रे अशस्त्रभीमं दृष्ट्वा अभिमन्युः तम् प्रहारं न करोति भीमसेनः च अभिमन्यु बाहुभ्याम् गृहीतवान्। अतः अभिमन्युः स्वग्रहणे वञ्चितः इव अनुभवति।
(ङ) अभिमन्युः गोग्रहणं सुखान्तं मन्यते यतः अनेन तस्य स्वपितरः दर्शिताः।

प्रश्न: 3.
अधोलिखितवाक्येषु प्रकटितभावं चिनुत
(क) भोः को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि। (विस्मयः, भयम्, जिज्ञासा)
(ख) कथं कथं! अभिमन्यु माहम्। (आत्मप्रशंसा, स्वाभिमानः, दैन्यम्)
(ग) कथं मां पितृवदाक्रम्य स्त्रीगतां कथां पृच्छसे? (लज्जा, क्रोधः, प्रसन्नता)
(घ) धनुस्तु दुर्बलैः एव गृह्यते मम तु भुजौ एव प्रहरणम्। (अन्धविश्वासः, शौर्यम्, उत्साहः)
(ङ) बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति। (आत्मविश्वासः, निराशा, वाक्संयमः)
(च) दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः। (क्षमा, हर्षः, धैर्यम्)
उत्तर:
(क) विस्मयः
(ख) स्वाभिमानः
(ग) क्रोधः
(घ) शौर्यम्
(ङ) आत्मविश्वासः
(च) हर्षः

प्रश्न: 4.
यथास्थानं रिक्तस्थानपूर्तिं कुरुत
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम् 1
उत्तर:
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम् 2

प्रश्न: 5.
अधोलिखितानि वचनानि कः कं प्रति कथयति यथा- कः के प्रति
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम् 3
उत्तर:
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम् 4
प्रश्न: 6.
अधोलिखितानि स्थूलानि सर्वनामपदानि कस्मै प्रयुक्तानि
(क) वाचालयतु एनम् आर्यः।
(ख) किमर्थं तेन पदातिना गृहीतः।
(ग) कथं न माम् अभिवादयसि।
(घ) मम तु भुजौ एव प्रहरणम्।
(ङ) अपूर्व इव अत्र ते हर्षो ब्रूहि केन विस्मितः असि?
उत्तर:
(क) वाचालयतु एनम् आर्यः। — अभिमन्यवे
(ख) किमर्थं तेन पदातिना गृहीतः। — भीमसेनाय
(ग) कथं न माम् अभिवादयसि। — नृपाय
(घ) मम तु भुजौ एव प्रहरणम्। — भीमसेनाय
(ङ) अपूर्व इव अत्र ते हर्षो ब्रूहि केन विस्मितः असि? — भटाय

प्रश्नः 7.
श्लोकानाम् अपूर्णः अन्वयः अधोदत्तः। पाठमाधृत्य रिक्तस्थानानि पूरयत
(क) पार्थं पितरं मातुलं ……… च उद्दिश्य कृतास्त्रस्य तरुणस्य युक्तः ।
(ख) कण्ठश्लिष्टेन ……… जरासन्धं योक्त्रयित्वा तत् असह्यं ……… कृत्वा। (भीमेन) कृष्णः अतदर्हतां नीतः।
(ग) रुष्यता ……… रमे। ते क्षेपेण न रुष्यामि, किं ………अहं नापराद्धः, कथं (भवान्) तिष्ठति, यातु इति।
(घ) पादयोः निग्रहोचितः समुदाचारः .. । बाहुभ्याम् आहृतम् (माम्) ……… बाहुभ्याम् एव नेष्यति।
उत्तर:
(क) पार्थं पितरम् मातुलं जनार्दनम् च उद्दिश्य कृतास्त्रस्य तरुणस्य युद्धपराजयः युक्तः।
(ख) कण्ठश्लिष्टेन बाहुना जरासन्धं योक्त्रयित्वा तत् असह्यं कर्म कृत्वा (भीमेन) कृष्णः अतदर्हतां नीतः।
(ग) रुष्यता भवता रमे। ते क्षेपेण न रुष्यामि, किं उक्त्वा अहम् नापराद्धः, कथं (भवान्) तिष्ठति, यातु इति।
(घ) पादयोः निग्रहोचितः समुदाचारः क्रियताम्। बाहुभ्याम् आहृतम् (माम्) भीमः बाहुभ्याम् एव नेष्यति।

(अ) अधोलिखितेभ्यः पदेभ्यः उपसर्गान् विचित्य लिखत
पदानि — उपसर्गः
यथा- आसाद्य — आ
(क) अवतारितः — …………….
(ख) विभाति — …………….
(ग) अभिभाषय — …………….
(घ) उद्भूताः — …………….
(ङ) उत्सिक्तः — …………….
(च) प्रहरन्ति — …………….
(छ) उपसर्पतु — …………….
(ज) परिरक्षिताः — …………….
(झ) प्रणमति — …………….
उत्तर:
(क) अवतारितः — अव
(ख) विभाति — वि
(ग) अभिभाषय — अभि
(घ) उद्भूताः — उद्
(ङ) उत्सिक्तः — उत्
(च) प्रहरन्ति — प्र
(छ) उपसर्पतु — उप
(ज) परिरक्षिताः — परि
(झ) प्रणमति — प्र

Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम् Additional Important Questions and Answers

पठित-अवबोधनम्
I. पठित-सामग्र्याम् आधारितम् अवबोधनकार्यम् ।

अधोलिखितान् नाट्यांशान् श्लोकान् च पठित्वा प्रश्नानाम् उत्तराणि लिखत
(क) भटः – जयतु महाराजः।
राजा – अपूर्व इव ते हर्षों ब्रूहि केनासि विस्मित:?
भटः – अश्रद्धेयं प्रियं प्राप्त सौभद्रो ग्रहणं गतः।।
राजा – कथमिदानी गृहीतः?
भटः – रथमासाद्य निश्शर्ड्स बाहुभ्यामवतारितः।
राजा – केन?
भटः – यः किल एष नरेन्द्रेण विनियुक्तो महानसे। (अभिमन्युमुद्दिश्य) इत इतः कुमारः।
अभिमन्युः – भोः को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि।
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम् 5

I. एकपदेन उत्तरत
(i) भटः कस्य ग्रहणम् अकरोत्?
(ii) रथम् आसाद्य अभिमन्युः काभ्याम् अवतारितः?
उत्तर:
(i) अभिमन्योः
(ii) बाहुभ्याम्

II. पूर्णवाक्येन उत्तरत
गृहीतः अभिमन्युः किम् अचिन्तयत्?
उत्तर:
गृहीतः अभिमन्युः अचिन्तयत्-“कः खलु एषः। येन भुजैकनियन्त्रितः बलाधिकेनापि न पीडितः अस्मि ”

III. निर्देशानुसारम् शुद्धम् उत्तरम् विकल्पेभ्यः चित्वा लिखत
(i) ‘अपूर्व इव ते हर्षः।’ अत्र ‘ते’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) भटाय
(ख) नृपाय
(ग) अभिमन्यवे
(घ) अर्जुनाय
उत्तर:
(क) भटाय

(ii) ‘प्राप्य’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) इतः
(ख) गृहीतः
(ग) आसाद्य
(घ) गतः
उत्तर:
(ग) आसाद्य

(iii) ‘कथमिदानीं गृहीतः’ अत्र क्रियापदं किम्?
(क) कथम्
(ख) इदानीं
(ग) गृहीतः
(घ) मिदानीं
उत्तर:
(ग) गृहीतः

(iv) ‘मुक्तं’ इति पदस्य विपरीतपदं किम्?
(क) ग्रहणं
(ख) विस्मितः
(ग) आसाद्य
(घ) पीडितः
उत्तर:
(क) ग्रहणं

(ख) अभिमन्युः – अये! अयमपरः कः विभात्युमावेषमिवाश्रितो हरः।
बृहन्नला – आर्य, अभिभाषणकौतूहलं मे महत्। वाचालयत्वेनमार्यः।
वल्लभः – (अपवार्य) बाढम् (प्रकाशम्) अभिमन्यो!
अभिमन्युः – अभिमन्युर्नाम?
वल्लभः – रुष्यत्येष मया, त्वमेवैनमभिभाषय।
बृहन्नला – अभिमन्यो!
अभिमन्युः – कथं कथम्। अभिमन्यु माहम्। भोः। किमत्र विराटनगरे क्षत्रियवंशोद्भूताः नीचैः अपि
नामभिः अभिभाष्यन्ते अथवा अहं शत्रुवंश गतः। अतएव तिरस्क्रियते।
बृहन्नला – अभिमन्यो! सुखमास्ते ते जननी?
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम् 6

प्रश्ना :
I. एकपदेन उत्तरत
(i) केन अभिमन्युः रुष्यति?
(ii) कुत्र नीचैः अपि नामभिः अभिभाष्यन्ते?
उत्तर:
(i) भीमसेनेन
(ii) विराटनगरे

II. पूर्णवाक्येन उत्तरत
अभिमन्युः बृहन्नलां दृष्ट्वा किम् कथयति?
उत्तर:
अभिमन्युः बृहन्नलां दृष्ट्वा कथयति, “अयम् अपर कः उमावेषम् इव आश्रितः हरः विभाति।”

III. निर्देशानुसारम् शुद्धम् उत्तरम् विकल्पेभ्य चित्वा उत्तरत
(i) ‘शोभते’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) विभाति
(ख) आश्रितः
(ग) रुष्यति
(घ) आस्ते
उत्तर:
(क) विभाति

(ii) ‘रुष्यति एषः मया’ अत्र ‘मया’ सर्वनामपदम् कस्मै प्रयुक्तम्?
(क) भीमसेनः
(ख) भीमसेनाय
(ग) अभिमन्योः
(घ) अभिमन्येव
उत्तर:
(ख) भीमसेनाय

(iii) ‘सुखमास्ते ते जननी’ अत्र क्रियापदं किम्?
(क) सुखम्
(ख) आस्ते
(ग) ते
(घ) जननी
उत्तर:
(ख) आस्ते

(iv) ‘अनुचितम्’ इति पदस्य विपरीतार्थकं पदं किम्?
(क) बाढ़म्
(ख) प्रकाशम्
(ग) अपवार्य
(घ) अपरः
उत्तर:
(क) बाढ़म्

(ग) अभिमन्युः – कथं कथम्? जननी नाम? किं भवान् मे पिता अथवा पितृव्यः? कथं मां पितृवदाक्रम्य स्त्रीगतां कथां पृच्छति?
बृहन्नला – अभिमन्यो! अपि कुशली देवकीपुत्रः केशवः?
अभिमन्युः- कथं कथम्? तत्रभवन्तमपि नाम्ना। अथ किम् अथ किम्? (बृहन्नलावल्लभौ परस्परमवलोकयतः)
अभिमन्युः – कथमिदानीं सावज्ञमिव मां हस्यते?
बृहन्नला – न खलु किञ्चित्। प्रश्ना :

I. एकपदेन उत्तरत
(i) सावज्ञमिव कः हसति?
(ii) कौ परस्परम् अवलोकयतः?
उत्तर:
(i) बृहन्नला
(ii) बृहन्नलवल्लभौ

II. पूर्णवाक्येन उत्तरत
बृहन्नला अभिमन्यु किम् पृच्छति?
उत्तर:
बृहन्नला सुभद्रायाः केशवस्य च कुशलक्षेमं पृच्छति।

III. निर्देशानुसारं शुद्धम् उत्तरम् विकल्पेभ्यः चित्वा लिखत
(i) ‘भवान् मे पिता’ अत्र ‘भवान्’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) अर्जुनः
(ख) बृहन्नलायै
(ग) अभिमन्युः
(घ) अर्जुनस्य
उत्तर:
(ख) बृहन्नलायै

(ii) ‘माता’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) जननी
(ख) पितृव्यः
(ग) देवकी
(घ) स्त्री
उत्तर:
(क) जननी

(iii) ‘सादरम्’ इति पदस्य विलोमपदं किम्?
(क) सावज्ञम्
(ख) वज्ञम्
(ग) सावज्ञमिव
(घ) कुशली
उत्तर:
(क) सावज्ञम्

(iv) ‘परस्परमवलोकयतः’ अत्र क्रियापदं किम्?
(क) यतः
(ख) परस्परम्
(ग) अवलोकयतः
(घ) लोकयतः
उत्तर:
(ग) अवलोकयतः

(घ) अभिमन्युः – अलं स्वच्छन्दप्रलापेन! अस्माकं कुले आत्मस्तवं कर्तुमनुचितम्। रणभूमौ हतेषु शरान् पश्य, मदृते अन्यत् नाम न भविष्यति।
बृहन्नला – एवं वाक्यशौण्डीर्यम्। किमर्थं तेन पदातिना गृहीतः?
अभिमन्युः – अशस्त्रं मामभिगतः। पितरम् अर्जुनं स्मरन् अहं कथं हन्याम्। अशस्त्रेषु मादृशाः न प्रहरन्ति। अतः अशस्त्रोऽयं मां वञ्चयित्वा गृहीतवान्।
राजा – त्वर्यतां त्वर्यतामभिमन्युः।

प्रश्ना :
I. एकपदेन उत्तरत
(i) केषाम् कुले आत्मस्तवं कर्तुम् अनुचितम् अस्ति?
(ii) अभिमन्युः कम् स्मरति?
उत्तर:
(i) पाण्डवानाम्
(ii) स्वपितरम्/अर्जुनम्

II. पूर्णवाक्येन उत्तरत

अभिमन्युः किमर्थम् वञ्चितः इव अनुभवति? निर्देशानुसारं शुद्धम् उत्तरम् विकल्पेभ्यः चित्वा लिखत
उत्तर:
अशस्त्रेषु यौद्धाः न प्रहरन्ति परम् अशस्त्रभीमेन अभिमन्युः गृहीतः। अतः अभिमन्युः स्वयमेव वञ्चितः इव अनुभवति।

(i) ‘अशस्त्रः अयं’ अत्र ‘अयम्’ सर्वनामपदम् कस्मै प्रयुक्तम्?
(क) भीमसेनाय
(ख) अर्जुनाय
(ग) उत्तराय
(घ) अभिमन्यवे
उत्तर:
(क) भीमसेनाय

(ii) ‘गृहीतवान्’ इति पदस्य कर्तृपदं किम्?
(क) अतः
(ख) अयम्
(ग) मां
(घ) अशस्त्रः
उत्तर:
(ख) अयम्

(iii) ‘अहंकारम्’ इत्यर्थे किं पदं प्रयुक्तम्?
(क) आत्मस्तवं
(ख) स्वच्छन्दं
(ग) अनुचितम्
(घ) अन्यत्
उत्तर:
(क) आत्मस्तवं

(iv) ‘अर्जुनं’ इति पदस्य विशेषणपदं किम्?
(क) अशस्त्रं
(ख) पितरम्
(ग) स्मरन्
(घ) माम्
उत्तर:
(ख) पितरम्

(ङ) राजा – एोहि पुत्र! कथं न मामभिवादयसि? (आत्मगतम्) अहो! उत्सिक्तः खल्वयं क्षत्रियकुमारः।
अहमस्य दर्पप्रशमनं करोमि। (प्रकाशम्) अथ केनायं गृहीतः?
भीमसेनः – महाराज! मया।
अभिमन्युः – अशस्त्रेणेत्यभिधीयताम्।
भीमसेनः – शान्तं पापम्। धनुस्तु दुर्बलैः एव गृह्यते। मम तु भुजौ एव प्रहरणम्।
अभिमन्युः – सा तावद् भो:! किं भवान् मध्यमः तातः यः तस्य सदृशं वचः वदति।
भगवान् – पुत्र! कोऽयं मध्यमो नाम?

प्रश्ना :
I. एकपदेन उत्तरत
(i) क्षत्रियकुमारः कीदृशः अस्ति?
(ii) धनुः कैः एव गृह्यते?
उत्तर:
(i) उत्सिक्तः
(ii) दुर्बलैः

II. पूर्णवाक्येन उत्तरत
मध्यमः तातः कः अस्ति?
उत्तर:
मध्यमः तातः भीमसेनः अस्ति।

III. निर्देशानुसारं शुद्धम् उत्तरम् विकल्पेभ्यः चित्वा लिखत
(i) ‘मम तु भुजौ ……..। अत्र मम सर्वनामपदं कस्मै प्रयुक्तम्?
(क) अर्जुनाय
(ख) नृपाय
(ग) भीमसेनाय
(घ) उत्तराय
उत्तर:
(ग) भीमसेनाय

(ii) ‘अहम् अस्य दर्पशमनं करोमि।’ अत्र कर्तृपदं किम्?
(क) अहम्
(ख) अस्य
(ग) करोमि
(घ) राजा
उत्तर:
(क) अहम्

(iii) ‘पुण्यं’ इति पदस्य विलोमपदं किम्?
(क) शान्तं
(ख) पापं
(ग) प्रहरणम्
(घ) शमनं
उत्तर:
(ख) पापं

(iv) ‘आगच्छ’ इत्यर्थे किं पदं प्रयुक्तम्?
(क) गृहीतः
(ख) एहि
(ग) उत्सिक्तः
(घ) प्रकाशम्
उत्तर:
(ख) एहि

II. प्रश्ननिर्माणम्

अधोलिखितवाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत उत्तराणि

(i) सर्वे अभिमन्युम् आलिङ्गन्ति।
(ii) भवान् शङ्काम् व्यपनयतु।
(iii) धनुः तु दुर्बलैः एव गृह्यते।
(iv) अयं. क्षत्रियकुमारः उत्सिक्तः अस्ति।
(v) अशस्त्रः भीमः अभिमन्युम् गृहीतवान्।
(vi) अस्माकं कुले आत्मस्तवं कर्तुम् अनुचितम् अस्ति।
प्रश्ना :
(i) के अभिमन्युम् आलिङ्गन्ति?
(ii) कः शङ्काम् व्यपनयतु?
(iii) धनुः तु कैः एव गृह्यतें?
(iv) अयम् क्षत्रियकुमारः कीदृशः अस्ति?
(v) कीदृशः भीमः अभिमन्युम् गृहीतवान्?
(vi) केषाम् कुले आत्मस्तवं कर्तुम् अनुचितम् अस्ति?

III. ‘क’ अन्वयः

अधोलिखितश्लोकानाम् अन्वयेषु समुचितपदेन रिक्तस्थानानि पूरयत
(क) योक्त्रयित्वा जरासन्धं कण्ठश्लिष्टेन बाहुना।
असा कर्म तत् कृत्वा नीतः कृष्णोऽतदर्हताम्।।
अन्वयः- कण्ठश्लिष्टेन (i)………………. जरासन्धं (ii)……………….. तत् असह्यं (iii)……………….. कृत्वा (भीमेन) कृष्णः (iv)……….. नीतः।
उत्तर:
कण्ठश्लिष्टेन (i) बाहुना जरासन्धं (ii) योक्त्रयित्वा तत् असह्यं (iii) ……… कर्म कृत्वा (भीमेन) कृष्णः (iv) ……… अतदर्हताम् नीतः।

(ख) न ते क्षेपेण रुष्यामि, रुष्यता भवता रमे।
किमुक्त्वा नापराद्धोऽहं, कथं तिष्ठति यात्विति।।
अन्वयः- रुष्यता (i)………………. रमे। ते (ii)……………….. न रुष्यामि, किम्। (iii)…………………. अहम् नापराद्धः कथं (iv) ……… यातु इति।
उत्तर:
रुष्यता (i) भवता रमे। ते (ii) क्षेपेण न रुष्यामि, किम्। (iii) उक्त्वा (iv) तिष्ठति, यातु इति।

(ग) पादयोः समुदाचारः क्रियतां निग्रहोचितः।
बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति।।
अन्वयः- पादयोः (i)……………….. समुदाचारः (ii)……………….. । बाहुभ्याम् (iii)………………… (माम) बाहुभ्याम् (iv)………………. नेष्यति।
उत्तर:
पादयोः (i) निग्रहोचितः समुदाचारः (ii) क्रियतां । बाहुभ्याम् (iii) आहृतम् (माम्) बाहुभ्याम् (iv) एव नेष्यति।

(घ) न रुष्यन्ति मया क्षिप्ता हसन्तश्च क्षिपन्ति माम्। . दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः।।
अन्वयः- क्षिप्ता (i). .. न रुष्यन्ति (it)…. .. च माम् क्षिपन्ति। दिष्ट्या (iii)…….. स्वन्तं येन (iv)………………दर्शिताः।
उत्तर:
क्षिप्ता (i) मया न रुष्यन्ति (ii) हसन्तः च माम् क्षिपन्ति। दिष्ट्या (iii) गोग्रहणं स्वन्तं येन (iv) पितरः दर्शिताः।

III. ‘ख’ भावार्थः

अधोलिखितश्लोकानाम् भावार्थं मञ्जूषातः उचितपदानि चित्वा पूरयत

(क) पार्थं पितरमुद्दिश्य मातुलं च जनार्दनम्।
तरुणस्य कृतास्त्रस्य युक्तो युद्धपराजयः॥

भावार्थ:-गृहीतं क्षुब्धं च अभिमन्यु वीक्ष्य अर्जुनः व्यङ्ग्यात्मकैः (i)……… तम् कथयति यत् तव पिता (ii) ………. मातुलः च (iii)……… शस्त्रविद्यायां निपुणतरुणाय (iv)” ……… पराजयः नोचितः अस्ति।
मञ्जूषा- युद्धे, श्रीकृष्णः, अर्जुनः, वचनैः
उत्तर:
(क) गृहीतं क्षुब्धं च अभिमन्युं वीक्ष्य अर्जुनः व्यङ्ग्यात्मकैः वचनैः तम् कथयति यत् तव पिता अर्जुनः मातुलः च श्रीकृष्णः। शस्त्रविद्यायां निपुणतरुणाय युद्धे पराजयः नोचितः अस्ति।

(ख) ‘मम तु भुजौ एव प्रहरणम्।
भावार्थ:-शस्त्रहीनेन भीमेन (i)……………. निगृहीतः। क्षुब्धं अभिमन्युं दृष्ट्वा (ii)…………….. स्पष्टीकरोतियत् (iii)……………. तु दुबलैः गृह्यते। भीमस्य (iv)………….. एवं प्रहरणम्। किं प्रयोजनम् अन्यैः शस्त्रैः।
मञ्जूषा- भुजौ, अस्त्रं, अभिमन्युः, भीमः
उत्तर:
(ख) शस्त्रहीनेन. भीमेन अभिमन्युः निगृहीतः। क्षुब्धं अभिमन्युं दृष्ट्वा भीमः स्पष्टीकरोति यत् अस्त्रं तु दुबलैः गृह्यते। भीमस्य भुजौ एव प्रहरणम्। किं प्रयोजनम् अन्यैः शस्त्रैः।

(ग) ‘नीतः कृष्णोऽतदर्हताम्।’ भावार्थ:-श्रीकृष्णः जरासन्धं (i)…………………. ऐच्छत् परम् (ii)…………….. जरासन्धस्य (iii)……….. कृत्वा श्रीकृष्णं (iv) ……………. न दत्तः।
मञ्जूषा- अवसरः, हन्तुम्, भीमेन, वधं
उत्तर:
(ग) श्रीकृष्णः जरासन्धं हन्तुम् ऐच्छत् परम् भीमेन जरासन्धस्य वधं कृत्वा श्रीकृष्णं अवसरः न दत्तः ।

(घ) दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः।
भावार्थ:-अभिमन्युः (i). ……. ग्रहणं (ii). …… मन्यते यतः चिरकालात् अनन्तरं (iii)……. अभिमन्युः (iv)……. दृष्ट्वान्।
मञ्जूषा- स्वपितॄन्, धेनूनाम्, सुखान्तं, भाग्येन
उत्तर:
(घ) अभिमन्युः धेनूनाम् ग्रहणं सुखान्तं मन्यते यतः चिरकालात् अनन्तरं भाग्येन अभिमन्युः स्वपितृन् दृष्ट्वान्।

IV. कथाक्रमसंयोजनम

घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लेखनीयानि
(i) को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि।
(ii) अयमपरः कः विभाति उमावेषमिवाश्रितो हरः।
(iii) अश्रद्धेयं प्रियं प्राप्तं सौभद्रो ग्रहणं गतः।
(iv) पितरम् अर्जुनं स्मरन् अहं कथं हन्याम्। अशस्त्रेषु मादृशाः न प्रहरन्ति।
(v) किमत्र विराटनगरे क्षत्रियवंशोद्भूताः नीचैः अपि नामभिः अभिभाष्यन्ते अथवा अहं शत्रुवशं गतः।
(vi) आयुष्मान् भव पुत्र। पूजिताः कृतकर्माणो योधपुरुषाः।
(vii) शान्तं पापम्। धनुस्तु दुर्बलैः एव गृह्यते। मम एव भुजौ एव प्रहरणम्।
(vii) दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः।
उत्तर:
(i) अश्रद्धेयं प्रियं प्राप्तं सौभद्रो ग्रहणं गतः।
(ii) को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि।
(iii) अयमपरः कः विभाति उमावेषमिवाश्रितो हरः।
(iv) किमत्र विराटनगरे क्षत्रियवंशोद्भूताः नीचैः अपि नामभिः अभिभाष्यन्ते अथवा अहं शत्रुवशं गतः।
(v) पितरम् अर्जुनं स्मरन् अहं कथं हन्याम्। अशस्त्रेषु मादृशाः न प्रहरन्ति।
(vi) शान्तं पापम्। धनुस्तु दुर्बलैः एव गृह्यते। मम एव भुजौ एव प्रहरणम्।
(vii) आयुष्मान् भव पुत्र। पूजिताः कृतकर्माणो योधपुरुषाः।
(viii) दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः।

V. प्रसङ्गानुकूलम् उचितार्थम् 

I. अधोलिखितवाक्येषु रेखांकितपदानाम् प्रसंगानुसारं शुद्धम् अर्थ लिखत
(i) दिष्ट्या गोग्रहणं स्वन्तं अभवत्।
(क) भाग्येन
(ख) दृष्ट्वा
(ग) दृष्टिः
(घ) अपश्यत्
उत्तर:
(क) भाग्येन

(ii) भवान् शंकाम् व्यपनयतु।
(क) व्यपहरत्
(ख) आनयतु
(ग) नयतु
(घ) दूरीकरोतु
उत्तर:
(घ) दूरीकरोतु

(iii) मम भुजौ एव प्रहरणम्।
(क) प्रहारम्
(ख) प्रहाराम्
(ग) शस्त्रम्
(घ) शास्त्रम्
उत्तर:
(ग) शस्त्रम्

(iv) निग्रहोचितः समुदाचारः क्रियताम्।
(क) सदाचारः
(ख) समान उपचारः
(ग) शिष्टाचारः
(घ) उपचाराः
उत्तर:
(ग) शिष्टाचारः

(v) ते क्षेपेण न रुष्यामि।
(क) निन्दावचनेन
(ख) क्षणेन
(ग) शपथेन
(घ) वचनेन
उत्तर:
(क) निन्दावचनेन

(vi) एषः महाराजः। उपसर्पतु कुमारः।
(क) समीपं गच्छाति
(ख) समीपं गच्छा
(ग) समीपं गच्छतु
(घ) समीपं आगत्य
उत्तर:
(ग) समीपं गच्छतु

VI. पर्यायपदानि/विलोमपदानि

प्रश्नः 1.
अधोलिखितपदानां पर्यायपदानि लिखत
धनञ्जयः, शस्त्रम्, दर्पः, तूणीरः
उत्तरम्
धनञ्जयः — अर्जुनः, पार्थः, कौन्तेयः।
शस्त्रम् — प्रहरणम्, आयुधम्।
दर्पः — अहंकारः, गर्वः, दंभः।
तूणीरः — तरकशः, निषंग, बाणकोशः।

प्रश्नः 2.
अधोलिखितानां पदानां विलोमपदानि मञ्जूष चत्वा यथासमक्षं लिखत
पुण्यम्, आगच्छतु, दुर्बलैः, प्रकाशं, दुःखान्तं

पदानि — विलोमशब्दाः
(क) यातु — ………….
(ख) सबलैः — ………….
(ग) आत्मगतं — ………….
(घ) स्वन्तम् — ………….
(ङ) पापं — ………….
उत्तरम्
पदानि — विलोमशब्दाः
(क) यातु — आगच्छतु
(ख) सबलैः — दुर्बलैः
(ग) आत्मगतं — प्रकाशम्
(घ) स्वन्तम् — दुःखान्तम्
(ङ) पापं — पुण्यम्

The post NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम् appeared first on Learn CBSE.

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 8 लौहतुला

$
0
0

Students can easily access the NCERT Solutions for Class 9 Sanskrit Shemushi Chapter8 लौहतुला Questions and Answers which include important questions and deep explanations provided by our experts.

Shemushi Sanskrit Class 9 Solutions Chapter 8 लौहतुला

Class 9 Sanskrit Shemushi Chapter 8 लौहतुला Textbook Questions and Answers

अभ्यासस्य प्रश्नोत्तराणि (पृष्ठ 59-61)

प्रश्न: 1.
एकपदेन उत्तरं लिखत
(क) वणिक्पुत्रस्य किं नाम आसीत्?
(ख) तुला कैः भक्षिता आसीत्?
(ग) तुला कीदृशी आसीत्?
(घ) पुत्रः केन हृतः इति जीर्णधनः वदति?
(ङ) विवदमानौ तौ द्वावपि कुत्र गतौ?
उत्तर:
(क) धनदेवः
(ख) मूषकैः
(ग) लौहघटिता
(घ) श्येनेन
(ङ) राजकुलम्

More Resources for CBSE Class 9

प्रश्न: 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः किं व्यचिन्तयत्?
(ख) स्वतुला याचमानं जीर्णधनं श्रेष्ठी किम् अकथयत्?
(ग) जीर्णधनः गिरिगुहाद्वारं कया आच्छाद्य गृहमागतः?
(घ) स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं किम् अवदत्?
(ङ) धर्माधिकारिणः जीर्णधनश्रेष्ठिनौ कथं तोषितवन्तः?
उत्तर:
(क) देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः व्यचिन्तयत् यत् यस्मिन् देशे स्ववीर्यतः भोगाः भुक्ताः तत्र विभवहीनः यः वसेत् सः पुरुषाधमः।
(ख) स्वतुला याचमानं जीर्णधनं श्रेष्ठी अकथयत् यत् तुला मूषकैः भक्षिता।
(ग) जीर्णधनः गिरिगुहाद्वारं बृहत्शिलया आच्छाद्य गृहम् आगतः।
(घ) स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं अवदत् यत् नदीतटात् शिशुः श्येनेन हृतः।
(ङ) धर्माधिकारिणः जीर्णधनश्रेष्ठिनौ परस्परं संबोध्य तुला-शिशु-प्रदानेन तोषितवन्तः।

प्रश्न: 3.
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
(क) जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।
(ख) श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः।
(ग) वणिक् गिरिगुहां बृहच्छिलया आच्छादितवान्।
(घ) सभ्यैः तौ परस्परं संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ।
उत्तर:
(क) कः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्?
(ख) श्रेष्ठिनः शिशुः स्नानोपकरणमादाय केन सह प्रस्थितः?
(ग) वणिक् गिरिगुहां कया आच्छादितवान्।
(घ) सभ्यैः तौ परस्परं संबोध्य केन/कथम् सन्तोषितौ?

प्रश्न: 4.
अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तं पूरयत
(क) यत्र देशे अथवा स्थाने …….. भोगाः भुक्ता ……….. विभवहीनः यः …….. स पुरुषाधमः।
(ख) राजन्! यत्र लौहसहस्रस्य …….. मूषकाः …….. तत्र श्येनः ……..हरेत् अत्र संशयः न।
उत्तर:
(क) यत्र देशे अथवा स्थाने स्ववीर्यतः भोगाः भुक्ता तस्मिन् विभवहीनः यः वसेत् स पुरुषाधमः।
(ख) राजन्! यत्र लौहसहस्रस्य तुलां मूषकाः खादन्ति तत्र श्येनः बालकः हरेत् अत्र संशयः न।

प्रश्नः 5.
तत्पदं रेखाङ्कितं कुरुत यत्र
(क) ल्यप् प्रत्ययः नास्ति
विहस्य, लौहसहस्रस्य, संबोध्य, आदाय

(ख) यत्र द्वितीया विभक्तिः नास्ति
श्रेष्ठिनम्, स्नानोपकरणम्, सत्त्वरम्, कार्यकारणम्

(ग) यत्र षष्ठी विभक्तिः नास्ति
पश्यतः, स्ववीर्यतः, श्रेष्ठिनः सभ्यानाम्
उत्तर:
(क) लोहसहस्रस्य
(ख) सत्त्वरम्
(ग) स्ववीर्यतः

प्रश्न: 6.
सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरयत
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 8 लौहतुला 1
उत्तर:
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 8 लौहतुला 2

प्रश्न: 7.
समस्तपदं विग्रहं वा लिखत
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 8 लौहतुला 3
उत्तर:
विग्रहः — समस्तपदम्
(क) स्नानस्य उपकरणम् — स्नानोपकरणम्
(ख) गिरेः गुहायाम् — गिरिगुहायाम्
(ग) धर्मस्य अधिकारी — धर्माधिकारी
(घ) विभवैः हीनाः — विभवहीनाः

(अ) यथापेक्षम् अधोलिखितानां शब्दानां सहायतया “लौहतुला” इति कथायाः सारांशं संस्कृतभाषया
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 8 लौहतुला 4
उत्तर:
जीर्णधनः नाम वणिक्पुत्रः धनाभावात् देशान्तरं गन्तुम् इच्छति स्म। सः स्वलौहतुला श्रेष्ठिनः गृहे निक्षेप भूतां कृत्वा प्रस्थितः। स्वपुरम् पुनः आगत्य सः श्रेष्ठिनं लौहतुलां दातुम् अकथयत्। लौहतुला मूषकैः भक्षिता इति ज्ञात्वा सः श्रेष्ठिनः पुत्रं आदाय स्नानार्थं गतः। गिरिगुहायां च तम् शिशुम् प्रक्षिप्य गृहम् आगतः। कथितः च यत् शिशुः श्येनेन हृतः। कलहं कुर्वन्तौ उभौ राजकुलं गतौ। वृत्तान्तं ज्ञात्वा धर्माधिकारिभिः तौ तुला-शिशु-प्रदानेन सन्तोषितौ।

Class 9 Sanskrit Shemushi Chapter 8 लौहतुला Additional Important Questions and Answers

पठित-अवबोधनम्
I. पठित-सामग्र्याम् आधारितम् अवबोधनम्

अधोलिखितगद्यांशान् पठित्वा प्रश्नानाम् उत्तराणि लिखत
(क) आसीत् कस्मिंश्चिद् अधिष्ठाने जीर्णधनो नाम वणिक्पुत्रः। स च विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्

यत्र देशेऽथवा स्थाने भोगा भुक्ताः स्ववीर्यतः।
तस्मिन् विभवहीनो यो वसेत् स पुरुषाधमः॥

तस्य च गृहे लौहघटिता पूर्वपुरुषोपार्जिता तुला आसीत्। तां च कस्यचित् श्रेष्ठिनो गृहे निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः। ततः सुचिरं कालं देशान्तरं यथेच्छया भ्रान्त्वा पुनः स्वपुरम् आगत्य तं श्रेष्ठिनम् अवदत्-“भोः श्रेष्ठिन्! दीयतां मे सा निक्षेपतुला।” सोऽवदत्-“भोः! नास्ति सा, त्वदीया तुला मूषकैः भक्षिता” इति।

प्रश्नाः
I. एकपदेन उत्तरत
(i) लौहतुला कैः भक्षिता?
(ii) जीर्णधनः कस्य गृहे तुलाम् निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः?
उत्तर:
(i) मूषकैः
(ii) श्रेष्ठिनः

II. पूर्णवाक्येन उत्तरत
तुला कीदृशी आसीत्?
उत्तर:
तुला लौहघटिता पूर्वपुरुषोपार्जिता आसीत्।

III. निर्देशानुसारं विकल्पेभ्यः उचितं उत्तरम् चित्वा लिखत
(i) ‘तां च कस्यचित् गृहे…’ अत्र ‘तां’ सर्वनामपदं कस्यै प्रयुक्तम्?
(क) वणिकपुत्राय
(ख) जीर्णधनाय
(ग) तुलायै
(घ) तुलायाः
उत्तर:
(ग) तुलायै

(ii) ‘स्वपराक्रमेण’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) उपार्जिता
(ख) अधिष्ठाने
(ग) स्ववीर्यतः
(घ) श्रेष्ठिनः
उत्तर:
(ग) स्ववीर्यतः

(iii) ‘आसीत् ‘. इति क्रियापदस्य कर्तृपदं किम्?
(क) जीर्णधनः
(ख) अधिष्ठाने
(ग) कास्माश्चत्
(ग) कस्मिंश्चित्
(घ) नाम
उत्तर:
(क) जीर्णधनः

(iv) ‘गत्वा’ इति पदस्य विलोमपदं किम्?
(क) गन्तुम्
(ख) आगत्य
(ग) प्रस्थितः
(घ) नास्ति
उत्तर:
(ख) आगत्य

(ख) जीर्णधनः अवदत्-“भोः श्रेष्ठिन्! नास्ति दोषस्ते, यदि मूषकैः भक्षिता। ईदृशः एव अयं संसारः। न किञ्चिदत्र शाश्वतमस्ति। परमहं नद्यां स्नानार्थं गमिष्यामि। तत् त्वम् आत्मीयं एनं शिशुं धनदेवनामानं मया सह स्नानोपकरणहस्तं प्रेषय” इति। स श्रेष्ठी स्वपुत्रम् अवदत्-“वत्स! पितृव्योऽयं तव, स्नानार्थं यास्यति, तद् अनेन साकं गच्छ” इति। अथासौ श्रेष्ठिपुत्रः धनदेवः स्नानोपकरणमादाय प्रहृष्टमनाः तेन अभ्यागतेन सह प्रस्थितः। तथानुष्ठिते स वणिक् स्नात्वा तं शिशुं गिरिगुहायां प्रक्षिप्य, तद्वारं बृहत् शिलया आच्छाद्य सत्त्वरं गृहमागतः।

प्रश्ना :
I. एकपदेन उत्तरत
(i) कः नद्यां स्नानार्थं गमिष्यति?
(ii) वणिकिशिशु: किम आदाय अभ्यागतेन सह प्रस्थितः
उत्तर:
(i) जीर्णधनः
(ii) स्नानोपकरणम्

II. पूर्णवाक्येन उत्तरत
जीर्णधनः किम् कृत्वा सत्वरं गृहम् आगतः?
उत्तर:
जीर्णधनः नद्यां स्नात्वा तं शिशुं च गिरिगुहायां प्रक्षिप्य तद्द्वारम् बृहलिया आच्छाद्य सत्वरं गृहम् आगतः।

III. निर्देशानुसारं विकल्पेभ्यः उचितम् उत्तरम् चित्वा लिखत।
(i) ‘नास्ति दोषः ते’ अत्र ‘ते’ सर्वनामपदं कस्य कृते प्रयुक्तम्?
(क) श्रेष्ठी
(ख) श्रेष्ठिनः
(ग) जीर्णधनाय
(घ) जीर्णधनस्य
उत्तर:
(ख) श्रेष्ठिनः

(ii) ‘सह’ इति पदस्य पर्यायपदम् किम्?
(क) सार्धम्
(ख) शाश्वतम्
(ग) परम्
(घ) वत्स
उत्तर:
(क) सार्धम्

(iii) ‘गमिष्यामि’ इति क्रियापदस्य कर्तृपदं किम्?
(क) परमहं
(ख) नद्यां
(ग) अहम्
(घ) स्नानार्थम्
उत्तर:
(ग) अहम्

(iv) ‘अनावृत्य’ इति पदस्य विलोमपदं किम्?
(क) आच्छाद्य
(ख) सत्वरं
(ग) प्रक्षिप्य
(घ) प्रेषय
उत्तर:
(क) आच्छाद्य

(ग) सः श्रेष्ठी पृष्टवान्-“भोः! अभ्यागत! कथ्यतां कुत्र मे शिशुः यः त्वया सह नदीं गतः”? इति। स अवदत्-“तव पुत्रः नदीतटात् श्येनेन हृतः” इति। श्रेष्ठी अवदत् – “मिथ्यावादिन्! किं क्वचित् श्येनो बालं हर्तुं शक्नोति? तत् समर्पय मे सुतम् अन्यथा राजकुले निवेदयिष्यामि।” इति। सोऽकथयत्-“भोः सत्यवादिन्! यथा श्येनो बालं न नयति, तथा मूषका अपि लौहघटितां तुला न भक्षयन्ति। तदर्पय मे तुलाम्, यदि दारकेण प्रयोजनम्।” इति। एवं विवदमानौ तौ द्वावपि राजकुलं गतौ। तत्र श्रेष्ठी तारस्वरेण अवदत्-“भोः! वञ्चितोऽहम्! वञ्चितोऽहम्! अब्रह्मण्यम्! अनेन चौरेण मम शिशुः अपहृतः” इति।
अथ धर्माधिकारिणः तम् अवदन्-“भोः! समर्म्यतां श्रेष्ठिसुतः।

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 8 लौहतुला 5

प्रश्ना :
I. एकपदेन उत्तरत
(i) वञ्चितोऽहम् अब्रह्मण्यम्! इति तारस्वरेण कः उवाच?
(ii) शिशुः केन सह नदीं गतः?
उत्तर:
(i) श्रेष्ठी
(ii) जीर्णधनेन

II. पूर्णवाक्येन उत्तरत
विवदमानौ तौ कुत्र गतौ?
उत्तर:
विवदमानौ तौ राजकुलं गतौ।

III. निर्देशानुसारं प्रदत्तविकल्पेभ्यः उचितम् उत्तरम् चित्वा लिखत
(i) ‘श्येनः बालं न नयति’ अत्र कर्तृपदं किम्?
(क) श्येनः
(ख) बालं
(ग) नयति
(घ) न
उत्तर:
(क) श्येनः

(ii) ‘कलहं कुर्वन्तौ’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) द्वावपि
(ख) तारस्वरेण
(ग) विवदमानौ
(घ) प्रोवाच
उत्तर:
(ग) विवदमानौ

(iii) ‘मे तुलाम्’ अत्र ‘मे’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) जीर्णधनाय
(ख) जीर्णधनस्य
(ग) जीर्णधनः
(घ) वणिक्पुत्रः
उत्तर:
(क) जीर्णधनाय

(iv) ‘विवदमानौ’ इति पदस्य विशेष्यपदं किम्?
(क) द्वावपि
(ख) तौ
(ग) गतौ उत्तराणि
(घ) राजकुलम्
उत्तर:
(ख) तौ

(घ) सोऽवदत्-“किं करोमि? पश्यतो मे नदीतटात् श्येनेन शिशुः अपहृतः। इति।
तच्छ्रुत्वा ते अवदन्-भोः! भवता सत्यं नाभिहितम्-किं श्येनः शिशुं हर्तुं समर्थो भवति? ‘सोऽअवदत्-भोः! भोः! श्रूयतां मद्वचः

तुला लौहसहस्रस्य यत्र खादन्ति मूषकाः।
राजन्तत्र हरेच्छ्येनो बालकं, नात्र संशयः॥

प्रश्ना :
I. एकपदेन उत्तरत
(i) कस्य पश्यतः श्येनेन शिशुः अपहृतः?
(ii) तुलां के खादन्ति?
उत्तर:
(i) जीर्णधनस्य
(ii) मूषकाः

II. पूर्णवाक्येन उत्तरत
केन सत्यम् न अभिहितम्?
उत्तर:
जीर्णधनेन सत्यं न अभिहितम्।

III. निर्देशानुसारं उचितम् उत्तरं प्रदत्तविकल्पेभ्यः चित्वा लिखत
(i) ‘किं श्येनः शिशु-हर्तुं समर्थः भवति’ अस्मिन् वाक्ये कर्तृपदम् किम्?
(क) श्येनः
(ख) शिशुं
(ग) हर्तुं
(घ) भवति
उत्तर:
(क) श्येनः

(ii) ‘अभिहितम्’ इति पदस्य कः अर्थः?
(क) हितम्
(ख) अहितम्
(ग) कथितम्
(घ) विहितम्
उत्तर:
(ख) अहितम्

(iii) ‘शिशुः’ इति पदस्य विशेषणपदं किम्?
(क) अपह्तः
(ख) अनेन
(ग) श्येनः
(घ) पश्यतः
उत्तर:
(क) अपह्तः

(iv) ‘अनृतम्’ इति पदस्य विलोमपदं किम्?
(क) अभिहितं
(ख) प्रोचुः
(ग) संशयः
(घ) सत्यम्
उत्तर:
(घ) सत्यम्

II. प्रश्ननिर्माण

स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत उत्तराणि

(क) जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।
(ख) मूषकैः तुला भक्षिता।
(ग) विवदमानौ तौ राजकुलं गतौ।
(घ) नदीतटात् बालकः श्येनेन हृतः।
(ङ) वणिक्पुत्रः गुहाद्वारं बृहद्-शिलया आच्छाद्य गृहम् आगतः।
(च) जीर्णधनः नद्यां स्नानार्थं अगच्छत्।
(छ) श्रेष्ठी सभ्यानाम् अग्रे सर्वं वृत्तान्तं निवेदयामास।
प्रश्ना:
(क) जीर्णधनः किमर्थं देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्?
(ख) कैः तुला भक्षिता?
(ग) विवदमानौ तौ कुत्र गतौ?
(घ) कुतः बालकः श्येनेन हृतः?
(ङ) वणिक्पुत्रः गुहाद्वारं कया आच्छाद्य गृहम् आगतः?
(च) जीर्णधनः कुत्र स्नानार्थं अगच्छत्?
(छ) श्रेष्ठी केषाम् अग्रे सर्वं वृत्तान्तं निवेदयामास?

III. ‘क’ भावार्थः

अधोलिखितश्लोकयोः अन्वयपूर्तिं कुरुत

(1) यत्र देशेऽथवा स्थाने भोगा भुक्ताः स्ववीर्यतः।
तस्मिन् विभवहीनो यो वसेत् स पुरुषाधमः।। अन्वयः- यत्र देशे (i)………………… स्थाने स्ववीर्यतः (ii)…….. … भुक्ताः (iii) …….. विभवहीनः य (iv)…………………. सः पुरुषाधमः।
उत्तर:
यत्र देशे (i) अथवा स्थाने स्ववीर्यतः (ii) भोगाः भुक्ताः (iii) तस्मिन् विभवहीनः य (iv) वसेत् सः पुरुषाधमः।

(2) तुला लौहसहस्रस्य यत्र खादन्ति मूषकाः।
राजन्तत्र हरेच्छ्येनो बालकम्, नात्र संशयः।।
अन्वयः- राजन्! यत्र (i)………………… तुलां (ii)…………………. खादन्ति। तत्र (ii)…………………. बालकः हरेत् अत्र (iv)…………………. न।
उत्तर:
राजन्! यत्र (i) लौहसहस्रस्य तुला (ii) मूषकाः खादन्ति। तत्र (iii) श्येनः बालकः हरेत् अत्र (iv) संशयः न।

III. ‘ख’ भावार्थः

अधोलिखितयोः श्लोकयोः भावार्थं मञ्जूषातः उचितपदानि चित्वा पूरयत (क) तुला लौहसहस्रस्य यत्र खादन्ति मूषकाः।
राजन्तत्र हरेच्छ्येनो बालकं, नात्र संशयः॥
भावार्थ:-जीर्णधनः धर्माधिकारिणम् कथयति यत् यदि (i)…….. लौहनिर्मिता (ii)…….. तत्र निःसन्देहं (iii)……….अपि बालकं (iv)……….. शक्नोति। खादन्ति
मञ्जूषा-  श्येनः, हर्तुम्, मूषकाः, तुलाम्
उत्तर:
(क) जीर्णधनः धर्माधिकारिणम् कथयति यत् यदि मूषकाः लौहनिर्मितां तुलाम् खादन्ति तत्र निःसन्देहं श्येनः अपि बालकं हर्तुम् शक्नोति।

(ख) यत्र देशेऽथवा स्थाने भोगा भुक्ताः स्ववीर्यतः।
तस्मिन् विभवहीनो यो वसेत् स पुरुषाधमः॥
भावार्थ:-धनाभावात् जीर्णधनः अचिन्तयत् यत् (i)……… देशे नराः (ii)………भोगाः प्राप्नुवन्ति। तत्र यः (iii)……………… वसेत् सः तु निश्चयमेव (iv)…………………. भवति।
मञ्जूषा- धनहीनः, यस्मिन्, नराधमः, स्वपराक्रमेण
उत्तर:
(ख) धनाभावात् जीर्णधनः अचिन्तयत् यत् यस्मिन् देशे नराः स्वपराक्रमेण भोगा: प्राप्नुवन्ति। तत्र यः धनहीनः वसेत् सः तु निश्चयमेव नराधमः भवति।

IV. कथाक्रमसंयोजनम्

घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लेखनीयानि
(i) सः वणिक् स्नात्वा तं शिशुं गिरिगुहायां प्रक्षिप्य, तद्द्वार बृहत् शिलया आच्छादय् सत्वरं गृहमागतः।
(ii) “तत् त्वम आत्मीयं एनं शिशु धनदेवनामानं मया सह स्नानोपकरणहस्तं प्रेषय” इति।
(iii) आसीत् कस्मिंश्चिद् अधिष्ठाने जीर्णधनो नाम वणिक्पुत्रः।
(iv) तां च कस्यचित् श्रेष्ठिनो गृहे निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः।
(v) तस्य च गृहे लौहघटिता पूर्वपुरुषोपार्जिता तुला आसीत्।
(vi) जीर्णधनः अवदत्-” भोः श्रेष्ठिन्! नास्ति दोषस्ते, यदि मूषकैः भक्षिता।”
(vii) तौ द्वावपि संबोध्य तुला-शिशु-प्रदानेन तोषितवन्तः।।
(viii) “मिथ्यावादिन्! किं क्वचित् श्येनो बालं हर्तुम् शक्नोति? तत् समर्पय मे सुतम् अन्यथा राजकुले निवेदयिष्यामि।”
उत्तर:
(i) आसीत् कस्मिंश्चिद् अधिष्ठाने जीर्णधनो नाम वणिक्पुत्रः।
(ii) तस्य च गृहे लौहघटिता पूर्वपुरुषोपार्जिता तुला आसीत्।
(iii) तां च कस्यचित् श्रेष्ठिनो गृहे निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः।
(iv) जीर्णधनः अवदत्-” भोः श्रेष्ठिन्! नास्ति दोषस्ते, यदि मूषकैः भक्षिता।”
(v) “तत् त्वम् आत्मीयं एनं शिशुं धनदेवनामानं मया सह स्नानोपकरणहस्तं प्रेषय” इति।
(vi) सः वणिक् स्नात्वा तं शिशुं गिरिगुहायां प्रक्षिप्य, तद्द्वारं बृहत् शिला आच्छाद्य सत्वरं गृहमागतः।
(vii) “मिथ्यावादिन्! किं क्वचित् श्येनो बालं हर्तुम् शक्नोति? तत् समर्पय मे सुतम् अन्यथा राजकुले निवेदयिष्यामि।”
(viii) तौ द्वावपि संबोध्य तुला-शिशु-प्रदानेन तोषितवन्तः।

V. प्रसङ्गानुकूलम् उचितार्थम् 

I. रेखांकितपदानाम् प्रसङ्गानुसारं शुद्धम् अर्थं चित्वा लिखत
(i) यत्र देशे स्ववीर्यतः भोगा भुक्ताः।
(क) स्वधनेन
(ख) स्वकर्मणा
(ग) स्वपुत्रेण
(घ) स्वपराक्रमेण
उत्तर:
(घ) स्वपराक्रमेण

(ii) अब्रह्मण्यम्! मम शिशुः चौरेण अपहृतः।
(क) अनुचितम्
(ख) ब्राह्मणम्
(ग) ब्रह्मां
(घ) वहयति
उत्तर:
(क) अनुचितम्

(iii) श्रूयतां मद् वचः
(क) मत्
(ख) मनः
(ग) मम
(घ) मानः
उत्तर:
(ग) मम

(iv) त्वदीय तुला मूषकैः भक्षिता
(क) खादिता
(ख) भक्ष्यम्
(ग) खादितम्
(घ) भोजनम्
उत्तर:
(क) खादिता

VI. पर्यायपदानि/विलोमपदानि 

प्रश्न: 1.
अधोलिखितपदानां पर्यायपदानि लिखत
श्येनः, मूषकः, पुत्रः, नदी
उत्तर:
श्येनः — शशदिनः, कपोतारिः, बाजः।
मूषकः – मूसा, उंदूरः, मूसः।
पुत्रः — सुतः, तनयः, आत्मजः।
नदी — सरिता, तटिनी, तरणी।

प्रश्न: 2.
‘क’ स्तम्भे लिखितानां पदानां विलोमपदानि ‘ख’ स्तम्भे लिखिताः। तान् यथासमक्षं योजयत
“क’ स्तम्भः — ‘ख’ स्तम्भः
(क) इच्छन् — रुदित्वा
(ख) विहस्य — अनिच्छन्
(ग) दोषः — असमर्थः
(घ) समर्थः — गुणः
(ङ) सुचिरं — अचिरम्
उत्तर:
‘क’ स्तम्भः — ‘ख’ स्तम्भः
(क) इच्छन् — अनिच्छन्
(ख) विहस्य — रुदित्वा
(ग) दोषः — गुणः
(घ) समर्थः — असमर्थः
(ङ) सुचिरं — अचिरम्

 

 

The post NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 8 लौहतुला appeared first on Learn CBSE.

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम्

$
0
0

Students can easily access the NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम् Questions and Answers which include important questions and deep explanations provided by our experts.

Shemushi Sanskrit Class 9 Solutions Chapter 10 जटायोः शौर्यम्

Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम् Textbook Questions and Answers

अभ्यासस्य प्रश्नोत्तराणि (पृष्ठ 74-76)

प्रश्न: 1.
एकपदेन उत्तरं लिखत
(क) आयतलोचना का अस्ति?
(ख) सा कं ददर्श?
(ग) खगोत्तमः कीदृशीं गिरं व्याजहार?
(घ) जटायुः काभ्यां रावणस्य गात्रे व्रणं चकार?
(ङ) अरिन्दमः खगाधिपः कति बाहून् व्यपाहरत्?
उत्तर:
(क) सीता
(ख) जटायुम् / गृध्रम्।
(ग) शुभाम्
(घ) तीक्ष्णनखाभ्याम्
(ङ) दश

More Resources for CBSE Class 9

प्रश्न: 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) “जटायो! पश्य” इति का वदति?
(ख) जटायुः रावणं किं कथयति?
(ग) क्रोधवशात् रावणः किं कर्तुम् उद्यतः अभवत्?
(घ) पतगेश्वरः रावणस्य कीदृशं चापं सशरं बभञ्ज?
(ङ) जटायुः केन वामबाहु दंशति?
उत्तर:
(क) “जटायो! पश्य” इति वैदेही (सीता) वदति।
(ख) जटायुः रावणं कथयति यत् परस्त्रीस्पर्शात् नीचां मतिं निवर्तय धीरः तत् न समाचरेत् यत् अस्य परः विर्गहयेत्।
(ग) क्रोधवशात् रावणः वैदेहीं वामेन अङ्केन संपरिष्वज्य जटायुं तलेन आशु अभिजघान।
(घ) पतगेश्वरः रावणस्य मुक्तामणिविभूषितम् चापं सशरं बभञ्ज।
(ङ) जटायुः तुण्डेन वामबाहु दंशति।

प्रश्न 3.
उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत
यथा- गुण + णिनि — गुणिन् (गुणी)
दान + णिनि — दानिन् (दानी)
(क) कवच + णिनि — ……………
(ख) शर + णिनि — ……………
(ग) कुशल + णिनि — ……………
(घ) धन + णिनि — ……………
(ङ) दण्ड + णिनि — ……………
उत्तर:
(क) कवच + णिनि — कवचिन् (कवची)
(ख) शर + णिनि — शरिन् (शरी)
(ग) कुशल + णिनि — कुशलिन् (कुशली)
(घ) धन + णिनि — धनिन् (धनी)
(ङ) दण्ड + णिनि — दण्डिन् (दण्डी)

(अ) रावणस्य जटायोश्च विशेषणानि सम्मिलितरूपेण लिखितानि तानि पृथक्-पृथक् कृत्वा लिखत
युवा, सशरः, वृद्धः, हताश्वः, महाबलः, पतगसत्तमः, भग्नधन्वा, महागृध्रः, खगाधिपः, क्रोधमूच्छितः, पतगेश्वरः, सरथः, कवची, शरी
यथा —
रावणः — जटायुः
युवा — वृद्धः
………….. …………
………….. …………
उत्तर:
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम्

प्रश्न: 4.
‘क’ स्तम्भे लिखितानां पदानां पर्यायाः ‘ख’ स्तम्भे लिखिताः। तान् यथासमक्षं योजयत-
‘क’ — ‘ख’
कवची — अपतत्
आशु — पक्षिश्रेष्ठः
विरथः — पृथिव्याम्
पपात — कवचधारी
भुवि — शीघ्रम्
पतगसत्तमः — रथविहीनः
उत्तर:
‘क’ स्तम्भ — ‘ख’ स्तम्भ
कवची — कवचधार
आशु — शीघ्रम्
विरथः — रथविहीनः
पपात — अपतत्
भुवि — पृथिव्याम्
पतगसत्तमः — पक्षिश्रेष्ठः

प्रश्न: 5.
अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत
मन्दम् पुण्यकर्मणा हसन्ती अनार्य अनतिक्रम्य देवेन्द्रेण प्रशंसेत् दक्षिणेन युवा
पदानि — विलोमशब्दाः
(क) विलपन्ती — ……………
(ख) आर्य — ……………
(ग) राक्षसेन्द्रेण — ……………
(घ) पापकर्मणा — ……………
(ङ) क्षिप्रम् — ……………
(च) विगर्हयेत् — ……………
(छ) वृद्धः — ……………
(ज) वामेन — ……………
(झ) अतिक्रम्य — ……………
उत्तर:
पदानि — विलोमशब्दाः
(क) विलपन्ती — हसन्ती
(ख) आर्य — अनार्य
(ग) राक्षसेन्द्रेण — देवेन्द्रेण
(घ) पापकर्मणा — पुण्यकर्मणा
(ङ) क्षिप्रम् — मन्दम्
(च) विगर्हयेत् — प्रशंसेत्
(छ) वृद्धः — युवा
(ज) वामेन — दक्षिणेन
(झ) अतिक्रम्य — अनतिक्रम्य

प्रश्न: 6.
(अ) अधोलिखितानि विशेषणपदानि प्रयुज्य संस्कृतवाक्यानि रचयत
(क) शुभाम् — ………………
(ख) खगाधिपः — ………………
(ग) हतसारथिः — ………………
(घ) वामेन — ………………
(ङ) कवची — ………………
उत्तर:
(क) शुभाम्- वृक्षे स्थितः जटायुः रावणं शुभाम् गिरम् अकथयत्।
(ख) खगाधिपः- खगाधिपः जटायुः विलपन्ती वैदेहीं अपश्यत्।
(ग) हतसारथिः- हतसारथिः रावणः भूमौ अपतत्।
(घ) वामेन- वामेन हस्तेन दानं न करणीयम्।
(ङ) कवची- रावणः कवची शरी च आसीत्।

(आ) उदाहरणमनुसृत्य समस्त पद रचयत
यथा- त्रयाणां लोकानां समाहारः — त्रिलोकी
(क) पञ्चानां वटानां समाहारः — ……………
(ख) सप्तानां पदानां समाहारः — ……………
(ग) अष्टानां भुजानां समाहारः — ……………
(घ) चतुर्णां मुखानां समाहारः — ……………
उत्तर:
समास विग्रह — समस्त पद
(क) पञ्चानां वटानां समाहारः — पञ्चवटी
(ख) सप्तानां पदानां समाहारः — सप्तपदी
(ग) अष्टानां भुजानां समाहारः — अष्टभुजम्
(घ) चतुर्णा मुखानां समाहारः — चतुर्मुखम्

Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम् Additional Important Questions and Answers

पठित-अवबोधनम्
I. पठित-सामग्र्याम् आधारितम् अवबोधनकार्यम् 

अधोलिखितश्लोकान् पठित्वा प्रश्नानाम् उत्तराणि लिखत

(क) सा तदा करुणा वाचो विलपन्ती सुदुःखिता।
वनस्पतिगतं गृधं ददर्शायतलोचना।

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम् 1

प्रश्ना:
I. एकपदेन उत्तरत
(i) दु:खिता का आसीत्?
(ii) का विलापं करोति स्म?
उत्तर:
(i) वैदेही/सीता
(ii) सीता

II. पूर्णवाक्येन उत्तरत
सीता कम् ददर्श?
उत्तर:
सीता वनस्पतिगतम् गृधं ददर्श।

III. यथानिर्देशम् उत्तरत
(i) ‘ददर्श’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) सा
(ख) तदा
(ग) करुणा
(घ) गृधं
उत्तर:
(क) सा

(ii) ‘गधं’ इति पदस्य विशेषणपदं किम्?
(क) आयत
(ख) लोचना
(ग) वनस्पतिगतं
(घ) वाचः
उत्तर:
(ग) वनस्पतिगतं

(iii) ‘सा तदा ………।’ अत्र ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्।
(क) सीता
(ख) सीतायै
(ग) सीतां
(घ) सीताय
उत्तर:
(ख) सीतायै

(iv) ‘हसन्ती’ इति पदस्य विलोमपदं किम्?
(क) विलपन्ती
(ख) रुदती
(ग) विलपती
(घ) विलापं
उत्तर:
(क) विलपन्ती

(ख) जटायो पश्य मामार्य ह्रियमाणामनाथवत्।
अनेन राक्षसेन्द्रेण अकरुणं पापकर्मणा॥

प्रश्नाः
I. एकपदेन उत्तरत
(i) अस्मिन् श्लोके सम्बोधनपदम् किम्?
(ii) ‘पश्य जटायो’ इति का वदति?
उत्तर:
(i) आर्य जटायो!
(ii) सीता/वैदेही

II. पूर्णवाक्येन उत्तरत
पापकर्मणा राक्षसेन्द्रेण किम् कृतम्?
उत्तर:
पापकर्मणा राक्षसेन्द्रेण सीता अनाथवत् अपहृता।

III. यथानिर्देशम् विकल्पेभ्यः उचितम् उत्तरम् चित्वा लिखत
(i) ‘माम्’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
(क) रावणाय
(ख) सीता
(ग) सीतायै
(घ) जटायुः
उत्तर:
(ग) सीतायै

(ii) श्लोके क्रियापदम् किम् अस्ति?
(क) करुणं
(ख) अनेन
(ग) पश्य
(घ) अनाथवत्
उत्तर:
(ग) पश्य

(iii) ‘देवेन्द्रेण’ इति पदस्य विलोमपदं किम्?
(क) पापकर्मणा
(ख) राक्षसेन्द्रेण
(ग) दानवेन्द्रेण
(घ) अनेन
उत्तर:
(ख) राक्षसेन्द्रेण

(iv) ‘दानवपतिना’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) राक्षसेन्द्रेण
(ख) पापकर्मणा
(ग) ममार्य उत्तराणि
(घ) जटायो
उत्तर:
(क) राक्षसेन्द्रेण

(ग) तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे।
निरीक्ष्य रावणं क्षिप्रं वैदेहीं च ददर्श सः॥

प्रश्ना:
I. एकपदेन उत्तरत
(i) कः शब्दम् शुश्रुवे?
(ii) जटायुः कस्याः शब्दम् अशृणोत्।
उत्तर:
(i) जटायुः
(ii) सीतायाः

II. पूर्णवाक्येन उत्तरत
जटायुः किम् अपश्यत्?
उत्तर:
जटायुः रावणम् निरीक्ष्य क्षिप्रं वैदेहीं च ददर्श।

II. निर्देशानुसारम् विकल्पेभ्यः उचितम् उत्तरम् चित्वा लिखत
(i) ‘शीघ्रम्’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) क्षिप्रम्
(ख) निरीक्ष्य
(ग) अथ
(घ) शुश्रुवे
उत्तर:
(क) क्षिप्रम्

(ii) ‘जटायुः’ इति पदस्य विशेषणपदं किम्?
(क) अथ
(ख) शब्दम्
(ग) सुप्तः
(घ) अवसुप्तः
उत्तर:
(घ) अवसुप्तः

(iii) ‘जटायुरथ शुश्रुवे।’ अत्र क्रियापदं किम्?
(क) जटायु
(ख) रथ
(ग) शुश्रुवे
(घ) अथ
उत्तर:
(ग) शुश्रुवे

(iv) ‘मन्दम्’ इति पदस्य विलोमपदं किम्?
(क) अथ
(ख) क्षिप्रम्
(ग) निरीक्ष्य
(घ) ददर्श
उत्तर:
(ख) क्षिप्रम्

(घ) वृद्धोऽहं त्वं युवा धन्वी सरथः कवची शरी।
न चाप्यादाय कुशली वैदेहीं मे गमिष्यसि॥

प्रश्ना :
I. एकपदेन उत्तरत
(i) वैदेहीम् आदाय कः गच्छति?
(ii) कः वृद्धः अस्ति?
उत्तर:
(i) रावणः
(ii) जटायुः

II. पूर्णवाक्येन उत्तरत
जटायुः रावणं किम् कथयति?
उत्तर:
जटायुः रावणम् कथयति, “अहम् वृद्धः, त्वम् युवा धन्वी, सरथः, कवची, शरी (तथापि) वैदेहीं आदाय कुशली न गमिष्यसि।”

III. यथानिर्देशं शुद्धम् उत्तरम् विकल्पेभ्यो चित्वा लिखत
(i) ‘मे’ इति सर्वनामपदम् कस्य कृते प्रयुक्तम्?
(क) रावणाय
(ख) सीतायै
(ग) जटायोः
(घ) जटायुः
उत्तर:
(ग) जटायोः

(ii) ‘धनुर्धरः’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) कवची
(ख) धन्वी
(ग) शरी
(घ) कुशली
उत्तर:
(ख) धन्वी

(iii) ‘युवा’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) वृद्धः
(ख) धन्वी
(ग) रथी
(घ) शरी
उत्तर:
(क) वृद्धः

(iv) श्लोके क्रियापदं किम्?
(क) आदाय
(ख) गमिष्यसि
(ग) कवची
(घ) कुशली
उत्तर:
(ख) गमिष्यसि

(ङ) स भग्नधन्वा विरथो हताश्वो हतसारथिः।
तलेनाभिजघानाशु जटायु क्रोधमूछितः॥

प्रश्नाः
I. एकपदेन उत्तरत
(i) क्रोधमूछितः कः?
(ii) हतसारथिः कः?
उत्तर:
(i) रावणः
(ii) रावणः

II. पूर्णवाक्येन उत्तरत
कीदृशः रावणः जटायुम् अभिजघान?
उत्तर:
भग्नधन्वा, विरथः, हताश्वः हतसारथिः चः रावणः जटायुं तलेन अभिजघान।

III. निर्देशानुसारं उचितम् उत्तरम् विकल्पेभ्यो चित्वा लिखत
(i) ‘घोटक’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) विरथो
(ख) सारथि
(ग) धन्वा
(घ) अश्वः
उत्तर:
(घ) अश्वः

(ii) ‘सरथः’ इति पदस्य विलोमपदम् किम्?
(क) भग्न
(ख) तलेन
(ग) हतसारथिः
(घ) विरथो
उत्तर:
(घ) विरथो

(iii) श्लोके क्रियापदं किम्?
(क) धन्वा
(ख) भग्न
(ग) क्रोधः
(घ) अभिजघान
उत्तर:
(घ) अभिजघान

(iv) ‘सः’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) जटायोः
(ख) सीतायै
(ग) रावणाय
(घ) रावणः
उत्तर:
(ग) रावणाय

II. प्रश्ननिर्माणम्

अधोलिखितेषु कथनेषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं क्रियताम् उत्तराणि
प्रश्ना :
(i) कीदृशी वैदेही जटायुम् अपश्यत्?
(ii) रावणः वैदेहीम् आदाय कुत्र अपतत्?
(iii) खगाधिपः कस्य गात्रे व्रणान् अकरोत्?
(iv) जटायुः काभ्याम् महद्धनुः भग्नं कृतवान्?
(v) जटायुः केन रावणस्य दश वामबाहून् व्यपाहर?
उत्तर:
(i) विलंपन्ती वैदेही जटायुम् अपश्यत्।।
(ii) रावणः वैदेहीम् आदाय भुवि अपतत्।
(iii) खगाधिपः रावणस्य गात्रे व्रणान् अकरोत्।
(iv) जटायुः चरणाभ्याम् महद्धनुः भग्नं कृतवान्।
(v) जटायुः तुण्डेन रावणस्य दश वामबाहून् व्यपाहरत्।

III. ‘क’ अन्वयः

अधोलिखितश्लोकानाम् अन्वयेषु रिक्तस्थानानाम् पूर्ति कुरुत

(क) सा तदा करुणा वाचो विलपन्ती सुदुःखिता।
वनस्पतिगतं गृधं ददर्शायतलोचना।।
अन्वयः- तदा सा (i)………….. करुणा वाचो (ii)………….. आयतलोचना (iii) गृधं …… (iv) ………….
उत्तर:
तदा सा (i) सुदुःखिता करुणा वाचो (ii) विलपन्ती आयतलोचना (iii) वनस्पतिगतं गृधं (iv) ददर्श।

(ख) जटायो पश्य मामार्य ह्रियमाणामनाथवत्।
अनेन राक्षसेन्द्रेण अकरुणं पापकर्मणा।।
अन्वयः- आर्य (i)………….अनेन (ii)…………… राक्षसेन्द्रेण (iii)…………. अनाथवत् ह्रियमाणाम् (iv)……………. पश्य।
उत्तर:
आर्य (i) जटायो! अनेन (ii) पापकर्मणा राक्षसेन्द्रेण (iii) अकरुणं अनाथवत् ह्रियमाणाम् (iv) माम् पश्य।

(ग) तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे।
निरीक्ष्य रावणं क्षिप्रं वैदेहीं च ददर्श सः।।
अन्वयः- अथ (i)………. जटायुः तं (ii)………. शुश्रुवे। क्षिप्रं (iii)………….. निरीक्ष्य सः (iv)…………… च ददर्श।
उत्तर:
अथ (i) अवसुप्तः जटायुः तं (ii) शब्दं शुश्रुवे। क्षिप्रं (iii) रावणं निरीक्ष्य सः (iv) वैदेहीं च ददर्श।

(घ) वृद्धोऽहं त्वं युवा धन्वी सरथः कवची शरी।
न चाप्यादाय कुशली वैदेहीं मे गमिष्यसि।।
अन्वयः- अहम् (i)……………….. त्वम् युवा धन्वी (ii)……………….. कवची शरी च अपि मे (iii)………………… आदाय (iv)……………… न गमिष्यसि।
उत्तर:
अहम् (i) वृद्धः त्वम् युवा धन्वी (ii) सरथः कवची शरी च अपि मे (iii) वैदेहीं आदाय (iv) कुशली न गमिष्यसि।

III. ‘ख’ भावार्थः

अधोलिखितश्लोकानाम् भावार्थं मञ्जूषातः उचितपदानि चित्वा पूरयत:

(क) सा तदा करुणा वाचो विलपन्ती सुदुःखिता।
वनस्पतिगतं गृधं ददर्शायतलोचना॥

भावार्थ:-लंकापतिना (i)………… नीयमाना, सुदुःखिता, (ii) ………. करुणया वदन्ती च विशाललोचना (iii) ……….. वृक्षस्थितम् पक्षिश्रेष्ठं गृध्रराजं (iv) ………….. अपश्यत्।
मञ्जूषा- जटायुम्, रजटायुम्, रावणेन, विलपन्ती, सीता
उत्तर:
(क) लंकापतिना रावणेन नीयमाना, सुदुःखिता, विलपन्ती करुणया वदन्ती च विशाललोचना सीता वृक्षस्थितम् पक्षिश्रेष्ठं गृध्रराजं जटायुम् अपश्यत्।

(ख) जटायो पश्य मामार्य ह्रियमाणामनाथवत्।
अनेन राक्षसेन्द्रेण अकरुणं पापकर्मणा॥

भावार्थ:-रावणेन नीयमाना सीता वने (i)……. वीक्ष्य तम् सहायतार्थम् अकारयति (ii)……… यत् अनेन (iii)………. निर्दयतापूर्वकं (iv) ……. नीयमानाम् माम् पश्य।
मञ्जूषा- अनाथवत्, राक्षसेन्द्रेण, कथयति, जटायु
उत्तर:
(ख) रावणेन नीयमाना सीता वने जटायुं वीक्ष्य तम् सहायतार्थम् अकारयति कथयति च यत् अनेन राक्षसेन्द्रेण निर्दयतापूर्वकं अनाथवत् नीयमानाम् माम् पश्य।

(ग) तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः।
चकार बहुधा गात्रे व्रणान्यतगसत्तमः॥

भावार्थ:-सीतायाः रक्षणार्थम् गृध्रराजः (i) ……… सह युद्धम् अकरोत्। सः पक्षिशिरोमणिः (ii)……… स्वतीक्ष्णनखाभ्यां (iii)……………….रावणस्य शरीरे अनेके (iv)……………… अकरोत्।
मञ्जूषा- व्रणान्, चरणाभ्याम्, जटायुः, रावणेन
उत्तर:
(ग) सीतायाः रक्षणार्थम् गृध्रराजः रावणेन सह युद्धम् अकरोत्। सः पक्षिशिरोमणिः जटायुः स्वतीक्ष्णनखाभ्यां चरणाभ्याम् रावणस्य शरीरे अनेके व्रणान् अकरोत्।

(घ) स भग्नधन्वा विरथो हताश्वो हतसारथिः।
तलेनाभिजघानाशु जटायु क्रोधमूच्छितः॥

भावार्थ:-जटायुः रावणस्य (i)………चरणाभ्याम् भग्नम् अकरोत्। तदा (ii)…………. भग्नधन्वा, हताश्वः हतसारथिः च (iii)……… रावणः तलेन (iv)………… शीघ्रं आक्रान्तवान्।
मञ्जूषा- रथविहीनः, धनुः, जटायुम्, क्रोधितः
उत्तर:
(घ) जटायुः रावणस्य धनुः चरणाभ्याम् भग्नम् अकरोत्। तदा रथविहीनः भग्नधन्वा, हताश्वः हतसारथिः च क्रोधितः रावणः तलेन जटायुम् शीघ्रं आक्रान्तवान्।

IV. प्रसङ्गानुकूलम् उचितार्थम्

I. रेखांकितपदानाम् प्रसङ्गानुसारं शुद्धम् अर्थं चित्वा लिखत –
(i) अरिन्दमः दशवामबाहून् व्यपाहरत्
(क) उत्खातवान्
(ख) अपहरत्
(ग) व्यापादितम्
(घ) विदीर्णम्
उत्तर:
(क) उत्खातवान्

(ii) जटायुः रावणस्य महद्धनुः बभञ्ज
(क) विभाजितम्
(ख) भग्नं कृतवान्
(ग) पतितः
(घ) घटितः
उत्तर:
(ख) भग्नं कृतवान्

(ii) रावणः तलेन जटायुम् अभिजघान
(क) अभिवदति
(ख) अपसार्य
(ग) हतवान्
(घ) कथितम्
उत्तर:
(ग) हतवान्

(iv) परदाराभिमर्शनात् नीचां मतिं निवर्तय
(क) वारणं कुरु
(ख) निवारणं
(ग) वारयितुम्
(घ) निर्माणं कुरु
उत्तर:
(क) वारणं कुरु

(v) रावणः धन्वी कवची शरी च आसीत्।
(क) कृपणः
(ख) क्रूरः
(ग) कवचधारी
(घ) क्रोधित:
उत्तर:
(ग) कवचधारी

V. पर्यायपदानि/विलोमपदानि

प्रश्न: 1.
अधोलिखितपदानाम् पर्यायपदानि लिखत
क्षिप्रं, वैदेही, गात्रे, भुवि
उत्तर:
क्षिप्रं – शीघ्रम्, सत्वरं, अविलम्बम्।
वैदेहीं – सीतां, जानकी, मैथिलीम्।
गात्रे – शरीरे, देहे, वदने।
भुवि – वसुधायाम्, धरायाम्, भूतले।

प्रश्न: 2.
‘क’ स्तम्भे लिखितानां पदानां विलोमपदानि ‘ख’ स्तम्भे लिखिताः। तान् यथासमक्षं योजयत
‘क’ स्तम्भः — ‘ख’ स्तम्भः
(क) युवा — प्रदाय
(ख) आदाय — वृद्धः
(ग) वामेन — अनतिक्रम्य
(घ) अतिक्रम्य — दक्षिणेन
(ङ) अनार्य — आर्य
उत्तर:
‘क’ स्तम्भः — ‘ख’ स्तम्भः
(क) युवा — वृद्धः
(ख) आदाय — प्रदाय
(ग) वामेन — दक्षिणेन
(घ) अतिक्रम्य — अनतिक्रम्य
(ङ) अनार्य — आर्य

The post NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम् appeared first on Learn CBSE.

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम्

$
0
0

Students can easily access the NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम् Questions and Answers which include important questions and deep explanations provided by our experts.

Shemushi Sanskrit Class 9 Solutions Chapter 11 पर्यावरणम्

Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम् Textbook Questions and Answers

अभ्यासस्य प्रश्नोत्तराणि (पृष्ठ 80-83)

प्रश्न: 1.
एकपदेन उत्तरं लिखत
(क) मानवः कुत्र सुरक्षितः तिष्ठति?
(ख) सुरक्षितं पर्यावरणं कुत्र उपलभ्यते स्म?
(ग) आर्षवचनं किमस्ति?
(घ) पर्यावरणमपि कस्य अङ्गमिति ऋषयः प्रतिपादितवन्त:?
(ङ) लोकरक्षा कया सम्भवति?
(च) अजातशिशुः कुत्र सुरक्षितः तिष्ठति?
(छ) प्रकृतिः केषां संरक्षणाय यतते?
उत्तर:
(क) पर्यावरणकुक्षौ
(ख) वने
(ग) धर्मो रक्षति रक्षितः
(घ) धर्मस्य
(ङ) प्रकृतिरक्षया
(च) मातृगर्भ
(छ) प्राणिनाम्

More Resources for CBSE Class 9

प्रश्न: 2.
अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत
(क) प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?
(ख) स्वार्थान्धः मानवः किं करोति?
(ग) पर्यावरणे विकृते जाते किं भवति?
(घ) अस्माभिः पर्यावरणस्य रक्षा कथं करणीया?
(ङ) लोकरक्षा कथं संभवति?
(च) परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति?
उत्तर:
(क) पृथ्वी, जलं तेजः, वायुः आकाशः च प्रकृतेः प्रमुखतत्त्वानि सन्ति।
(ख) स्वार्थान्धः मानवः पर्यावरणम् नाशयति।
(ग) पर्यावरणे विकृते जाते विविधाः रोगाः भीषणसमस्याः च जायन्ते।
(घ) वृक्षारोपणम् कृत्वा, विषाक्तं जलं नद्याम् न पातथित्वा ध्वनिप्रदूषणं च न कृत्वा अस्माभिः पर्यावरणस्य .. रक्षा करणीया।।
(ङ) प्रकृतिरक्षया एव लोकरक्षा संभवति।
(च) परिष्कृतम् पर्यावरणम् अस्मभ्यं सांसारिक जीवनसुखं, सद्विचार, सत्यसङ्कल्पं माङ्गलिकसामग्री च ददाति।

प्रश्न: 3.
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
(क) वनवृक्षाः निर्विवेकं छिद्यन्ते।
(ख) वृक्षकर्तनात् शुद्धवायुः न प्राप्यते।
(ग) प्रकृतिः जीवनसुखं प्रददाति।
(घ) अजातश्शिशुः मातृगर्भे सुरक्षितः तिष्ठति।
(ङ) पर्यावरणरक्षणं धर्मस्य अङ्गम् अस्ति।
प्रश्नाः
(क) के निर्विवेकं छिद्यन्ते?
(ख) कस्मात् शुद्धवायुः न प्राप्यते?
(ग) प्रकृतिः किम् प्रददाति?
(घ) अजातश्शिशुः कस्मिन् सुरक्षितः तिष्ठति?
(ङ) पर्यावरणरक्षणं कस्य अङ्गम् अस्ति?

प्रश्नः 4.
उदाहरणमनुसृत्य पदरचनां कुरुत
(क) यथा- जले चरन्ति इति – जलचराः
स्थले चरन्ति इति – ……….
निशायां चरन्ति इति – ……….
व्योम्नि चरन्ति इति – ……….
गिरौ चरन्ति इति – ……….
भूमौ चरन्ति इति – ……….
उत्तर:
स्थले चरन्ति इति – स्थलचराः
निशायां चरन्ति इति – निशाचराः
व्योम्नि चरन्ति इति – व्योमचराः
गिरौ चरन्ति इति – गिरिचराः
भूमौ चरन्ति इति – भूचराः

(ख) यथा- न पेयम् इति – अपेयम्
न वृष्टि इति – ……….
न सुखम् इति – ……….
न भावः इति – ……….
न पूर्णः इति – ……….
उत्तर:
न वृष्टि इति – अनावृष्टि
न सुखम् इति – असुखम्
न भावः इति – अभावः
न पूर्णः इति – अपूर्णः

प्रश्नः 5.
उदाहरणमनुसृत्य पदनिर्माणं कुरुत
यथा- वि + कृ + क्तिन् = विकृतिः
(क) प्र + गम् + क्तिन् = ………..
(ख) दृश् + क्तिन् = ………..
(ग) गम् + क्तिन् = ………..
(घ) मन् + क्तिन् = ………..
(ङ) शम् + क्तिन् = ………..
(च) भी + क्तिन् = ………..
(छ) जन् + क्तिन् = ………..
(ज) भज् + क्तिन् = ………..
(झ) नी + क्तिन् = ………..
उत्तर:
प्र + गम् + क्तिन् = प्रगति:
दृश् + क्तिन् = दृष्टि:
गम् + क्तिन् = गति:
मन् + क्तिन् = मतिः
शम् + क्तिन् = शान्तिः
भी + क्तिन् = भीतिः
जन् + क्तिन् = जातिः
भज् + क्तिन् = भक्तिः
नी + क्तिन् = नीतिः

प्रश्न: 6.
निर्देशानुसारं परिवर्तयत यथा- स्वार्थान्धो मानवः अद्य पर्यावरणं नाशयति (बहुवचने)।
स्वार्थान्धाः मानवाः अद्य पर्यावरणं नाशयन्ति।
(क) सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)
(ख) मानवाः पर्यावरणकुक्षौ सुरक्षिताः भवन्ति। (एकवचने)
(ग) वनवृक्षाः निर्विवेकं छिद्यन्ते। (एकवचने)
(घ) गिरिनिर्झराः निर्मलं जलं प्रयच्छन्ति। (द्विवचने)
(ङ) सरित् निर्मलं जलं प्रयच्छति। (बहुवचने)
उत्तर:
(क) सन्तप्तानाम मानवानाम मङगलं कतः?
(ख) मानवः पर्यावरणकुक्षौ सुरक्षितः भवति।
(ग) वनवृक्षः निर्विवेकम् छिद्यते।
(घ) गिरिनिर्झरौ निर्मलं जलं प्रयच्छतः।
(ङ) सरितः निर्मलं जलं प्रयच्छन्ति।

(अ) पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्च वाक्यानि लिखत। यथा- अहं विषाक्तम् अवकरं नदीषु न पातयिष्यामि।
(क) ……………
(ख) ……………
(ग) ……………
(घ) ……………
(ङ) ……………
उत्तर:
(क) अहम् पर्यावरणरक्षणाय कृतसंकल्पः अस्मि।
(ख) एतर्थं स्थाने स्थाने वृक्षाः रोपणीयाः।
(ग) वृक्षकर्तनं रोद्धव्यम्।
(घ) ‘जलम् एव जीवनम्’ अतः जलसंरक्षणम् अपि कर्त्तव्यम्।
(ङ) पर्यावरणरक्षणाय जनजागरणम् अपि करणीयम्।

प्रश्नः 7.
उदाहरणमनुसृत्य उपसर्गान् पृथक्कृत्वा लिखत यथा- संरक्षणाय
उत्तर:
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम् 1

(अ) उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत
यथा- तेजोवायुः – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।
(i) पत्रपुष्पे — ……………
(ii) लतावृक्षौ — ……………
(iii) पशुपक्षी — ……………
(iv) कीटपतङ्गौ — ……………
उत्तर:
(i) पत्रम् च पुष्पम् च
(ii) लता च वृक्षः च
(iii) पशुः च पक्षी च
(iv) कीटः च पतङ्गः च

उत्तरम्
परियोजनाकार्यम्
(क) विद्यालयप्राङ्गणे स्थितस्य उद्यानस्य वृक्षाः पादपाश्च कथं सुरक्षिताः स्युः तदर्थं प्रयत्नः करणीयः इति सप्तवाक्येषु लिखत।

(ख) अभिभावकस्य शिक्षकस्य वा सहयोगेन एकस्य वृक्षस्य आरोपणं करणीयम्। (यदि स्थानम् अस्ति।) तर्हि विद्यालय-प्राङ्गणे, नास्ति चेत् स्वस्मिन प्रतिवेशे, गहे वा।) कृतं सर्वं दैनन्दिन्यां लिखित्वा शिक्षकं दर्शयत।
उत्तर:
(क)
(i) विद्यालयप्राङ्गणे स्थितस्य उद्यानस्य वृक्षाः पादपाः च अस्माभिः सुरक्षिताः स्युः।
(ii) विद्यालयस्य प्राङ्गणे फलदायकाः उपयोगिनः च वृक्षाः पादपाः च रोपणीयाः।
(iii) छात्रैः रोपिताः वृक्षाः पादपाः च प्रतिदिनं जलेन सिञ्चिताः।
(iv) छात्रैः वृक्षाः पादपाः च स्वमित्रवत् स्नेहन रक्षितव्याः।
(v) कोऽपि पशुः तान् न नाशयितुम् समर्थः भवेत्।
(vi) यथासमये उर्वरकपदार्थानाम् प्रयोगः अपि करणीयः।
(vii) ध्यातव्यम् यत् कोऽपि वृक्षच्छेदनं कर्तुम् समर्थः न भवेत्।

(ख) यह प्रेक्टिकल (क्रियात्मक) है। छात्रों से वृक्षारोपण करवाना

Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम् Additional Important Questions and Answers

पठित-अवबोधनम्
I. पठित-सामग्र्याम् आधारितम् अवबोधनकार्यम्

अधोलिखितान् गद्यांशान् पठित्वा प्रश्नान् उत्तरत

(क) प्रकृतिः समेषां प्राणिनां संरक्षणाय यतते। इयं सर्वान् पुष्णाति विविधैः प्रकारैः, सुखसाधनैः च तर्पयति।
पृथिवी, जलम्, तेजः, वायुः, आकाश: च अस्याः प्रमुखानि तत्त्वानि। तान्येव मिलित्वा पृथक्तया वाऽस्माकं पर्यावरणं रचयन्ति। आवियते परितः समन्तात् लोकः अनेन इति पर्यावरणम्।

प्रश्ना :
I. एकपदेन उत्तरत
(i) का सर्वान् सुखसाधनैः तर्पयति?
(ii) प्रकृतिः केषाम् संरक्षणाय यतते?
उत्तर:
(i) प्रकृतिः
(ii) प्राणिनां

II. पूर्णवाक्येन उत्तरत
प्रकृतेः प्रमुखानि तत्त्वानि कानि सन्ति?
उत्तर:
पृथिवी, जल, वायुः, तेजः, आकाशः च प्रकृतेः प्रमुखतत्त्वानि सन्ति।

III. यथानिर्देशम् शुद्धम् उत्तरम् विकल्पेभ्यः चित्वा लिखत
(i) ‘पुष्णाति’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) सर्वान्
(ख) इयम्
(ग) विविधैः
(घ) प्रकारैः
उत्तर:
(ख) इयम्

(ii) ‘तानि एव’ अत्र ‘तानि’ सर्वनामपदं केभ्यः प्रयुक्तम्?
(क) जलाय
(ख) पर्यावरणाय
(ग) प्रमुखतत्त्वेभ्यः
(घ) प्रमुखतत्त्वानि
उत्तर:
(ग) प्रमुखतत्त्वेभ्यः

(iii) ‘आपः’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) वायुः
(ख) तेजो
(ग) जलम्
(घ) परितः
उत्तर:
(ग) जलम्

(iv) ‘प्राणिनाम्’ इति पदस्य विशेषणपदं किम्?
(क) सर्वेषां
(ख) प्रकृतिः
(ग) यतते
(घ) संरक्षणाय
उत्तर:
(क) सर्वेषां

(ख) अत एव अस्माभिः प्रकृतिः रक्षणीया। तेन च पर्यावरणं रक्षितं भविष्यति। प्राचीनकाले लोकमङ्गलाशंसिन ऋषयो वने निवसन्ति स्म। यतो हि वने सुरक्षितं पर्यावरणमुपलभ्यते स्म। तत्र विविधा विहगाः कलकूजिश्रोत्ररसायनं ददति। सरितो गिरिनिर्झराश्च अमृतस्वादु निर्मलं जलं प्रयच्छन्ति। वृक्षा लताश्च फलानि पुष्पाणि इन्धनकाष्ठानि च बाहुल्येन समुपहरन्ति। शीतलमन्दसुगन्धवनपवना औषधकल्पं प्राणवायु वितरन्ति।

प्रश्ना:
I. एकपदेन उत्तरत
(i) विविधाः विहगाः कलकूजितैः किम् ददाति?
(ii) कीदृशाः ऋषयः वने निवसन्ति स्म?
उत्तर:
(i) श्रोत्ररसायनं
(ii) लोकमङ्गलाशंसिनः

II. पूर्णवाक्येन उत्तरत
के निर्मलं जलं प्रयच्छन्ति?
उत्तर:
सरितः गिरिनिर्झराश्च अमृतस्वादु निर्मलं जलं प्रयच्छन्ति।

III. यथानिर्देशम् शुद्धम् उत्तरम् विकल्पेभ्यः चित्वा उत्तरत
(i) ‘समुपहरन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) सरितः
(ख) लताः
(ग) वृक्षाः लताः च
(घ) फलानि
उत्तर:
(ग) वृक्षाः लताः च

(ii) ‘लोकमङ्गलशंसिनः’ इति विशेषणपदस्य विशेष्यपदं किम्?
(क) पर्यावरणम्
(ख) वने
(ग) उपलभ्यते
(घ) ऋषयः
उत्तर:
(घ) ऋषयः

(iii) ‘खगाः’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) विहगाः
(ख) सरितः
(ग) विविधाः
(घ) यतः
उत्तर:
(क) विहगाः

(iv) ‘मलिनं’ इति पदस्य विलोमपदं किम्?
(क) कल्पं
(ख) निर्मलं
(ग) रसायनं
(घ) अमृत
उत्तर:
(ख) निर्मलं

(ग) परन्तु स्वार्थान्धो मानवः तदेव पर्यावरणम् अद्य नाशयति। स्वल्पलाभाय जना बहुमूल्यानि वस्तूनि नाशयन्ति। जनाः यन्त्रागाराणां विषाक्तं जलं नद्यां निपातयन्ति। तेन मत्स्यादीनां जलचराणां च क्षणेनैव नाशो भवति। नदीजलमपि तत्सर्वथाऽपेयं जायते। मानवाः व्यापारवर्धनाय वनवृक्षान् निर्विवेकं छिन्दन्ति। तस्मात् अवृष्टिः प्रवर्धते, वनपशवश्च शरणरहिता ग्रामेषु उपद्रवं विदधति।

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम् 2

प्रश्नाः
I. एकपदेन उत्तरत
(i) नदीजलम् सर्वथा कीदृशम् जायते?
(ii) स्वार्थान्धः मानवः किम् नाशयति?
उत्तर:
(i) अपेयम्
(ii) पर्यावरणम्

II. पूर्णवाक्येन उत्तरत
विषाक्तजलेन किम् भवति?
उत्तर:
विषाक्तजलेन मत्स्यादीनां जलचराणां च क्षणेनैव नाशः जायते। नदीजलम् अपि सर्वथा अपेयं भवति।

III. यथानिर्देशम् शुद्धम् उत्तरम् विकल्पेभ्यः चित्वा लिखत
(i) ‘वस्तूनि’ इति विशेष्यपदस्य विशेषणपदं किम्?
(क) बहुमूल्यानि
(ख) स्वल्प
(ग) लाभाय
(घ) नाशयन्ति
उत्तर:
(क) बहुमूल्यानि

(ii) ‘वनपश्वश्च’ इति कर्तृपदस्य क्रियापदम् किम्?
(क) शरणरहिता
(ख) उपद्रवं
(ग) विदधति
(घ) ग्रामेषु
उत्तर:
(ग) विदधति

(iii) ‘अवर्षणः’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) वृक्षाः
(ख) अवृष्टिः
(ग) रहिता
(घ) नाशो
उत्तर:
(ख) अवृष्टिः

(iv) ‘पेयं’ इति पदस्य विलोमपदं किं प्रयुक्तम्?
(क) ऽपेयं
(ख) अपेयं
(ग) थाऽपेयं
(घ) पेय उत्तराणि
उत्तर:
(ख) अपेयं

II. प्रश्ननिर्माणम्

अधोलिखितकथनेषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्
प्रश्नाः
(i) प्रकृतिः केषाम् संरक्षणाय यतते?
(ii) प्रकृतिः कैः सर्वान् तर्पयति?
(iii) प्रकृतिः काभिः रक्षणीया?
(iv) कदा ऋषयः वने वसन्ति स्म?
(v) कीदृशः मानवः पर्यावरणम् नाशयति?
(vi) किमर्थम् जनाः बहुमूल्यानि वस्तूनि नाशयन्ति?
(vii) के निर्मलं जलं यच्छन्ति?
(viii) कया लोकरक्षा सम्भवति?
उत्तर:
(i) प्रकृतिः प्राणिनां संरक्षणाय यतते।
(it) प्रकृतिः सुखसाधनैः सर्वान् तर्पयति।
(iii) प्रकृतिः अस्माभिः रक्षणीया।
(iv) प्राचीनकाले ऋषयः वने वसन्ति स्म।
(v) स्वार्थान्धः मानवः पर्यावरणम् नाशयति।
(vi) स्वल्पलाभाय जनाः बहुमूल्यानि वस्तूनि नाशयन्ति।
(vii) सरितः निर्मलं जलं यच्छन्ति।
(viii) प्रकृतिरक्षया लोकरक्षा सम्भवति।

III. प्रसङ्गानुकूलम् उचितार्थम्

I. अधोलिखितवाक्येषु रेखांकितपदानां कृते उचितं अर्थ चित्वा लिखत
(i) अजातशिशुः मातृगर्भे सुरक्षितः तिष्ठति।
(क) अनुत्पन्नजातकः
(ख) अजातशत्रुः
(ग) जातकाः
(घ) प्रसन्नशिशुः
उत्तर:
(क) अनुत्पन्नजातकः

(ii) विविधाः विहगाः कलकूजितैः श्रौत्ररसायनं ददति।
(क) श्रोतव्यम्
(ख) श्रोतुम्
(ग) कर्णाभूषणम्
(घ) कर्णामृतम्
उत्तर:
(घ) कर्णामृतम्

(iii) लोकमङ्गलाशंसिनः ऋषयः वने वसन्ति स्म।
(क) लोककल्याणकामाः
(ख) लोकमङ्गलम्
(ग) लोकशासकाः
(घ) समाजसुधारकाः
उत्तर:
(क) लोककल्याणकामाः

(iv) जलप्लावनैः मानवाः सन्तप्ताः भवन्ति।
(क) जलप्रवाहेन
(ख) जलं वहति
(ग) जलपूर्णः
(घ) जलौधैः
उत्तर:
(घ) जलौधैः

(v) यन्त्रागाराणां जलं नद्यां निपात्यते।
(क) यन्त्रालयानाम्
(ख) यन्त्रैः निर्मितं
(ग) यन्त्रैः चालितं
(घ) यन्त्रस्य आगारम्
उत्तर:
(क) यन्त्रालयानाम्

IV. पर्यायपदानि/विलोमपदानि

प्रश्न: 1.
अधोलिखितपदानाम् पर्यायपदानि लिखत
जलम्, वायुः, आकाशः, तेजः
उत्तर:
जलम् — वारिः, नीरः, तोयः।
वायुः समीरः, पवनः, अनिलः
आकाशः — व्योमः, गगनः, अम्बरः।
तेजः — अनलः, अग्निः, पावकः।

प्रश्न: 2.
अधोलिखितानां पदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत
दानवः, पृथिवी, मलिनं, उत्थानः, शीतलं
पदानि — विलोमशब्दाः
(क) निर्मलं — …………
(ख) मानवः — …………
(ग) आकाशः — …………
(घ) नाशः — …………
(ङ) ऊष्णं — …………
उत्तर:
पदानि — विलोमशब्दाः
(क) निर्मलं — मलिनम्
(ख) मानवः — दानवः
(ग) आकाशः — पृथिवी
(घ) नाशः — उत्थानः
(ङ) ऊष्णं — शीतलम्

The post NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम् appeared first on Learn CBSE.

Viewing all 9305 articles
Browse latest View live


<script src="https://jsc.adskeeper.com/r/s/rssing.com.1596347.js" async> </script>